अध्यायः 027

अर्जुनदिग्वजये भगदत्तादिजयः ॥ 1 ॥

जनमेजय उवाच ॥

दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥
वैशम्पायन उवाच ।
धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते ।
यौगपद्येन पार्थैर्हि निर्जितेयं वसुन्धरा ॥
`अवाप्य राजा राज्यार्धं कुन्तीपुत्रो युधिष्ठिरः ।
महत्त्वे राजशब्दस्य मनश्चक्रे महामनाः ॥
तदा क्षात्रं विदित्वाऽस्य पृथिवीविजयं प्रति ।
अमर्षात्पार्थिवेन्द्राणां तं समेयाय वारयत् ॥
तत्समेत्य भुवः क्षात्रं रथनागाश्वपत्तिमत् ।
अभ्ययात्पार्थिवं जिष्णुं मोघं कर्तुं जनाधिप ॥
तत्पार्थः पार्थिवं क्षात्रं युयुत्सुं परमाहवे ।
प्रत्युद्ययौ महाबाहुस्तरसा पाकशासनिः ॥
तद्भग्रं पार्थिवं क्षात्रं पार्थेनाक्लिष्टकर्मणा ।
वायुनेव घनानीकं तूलीभूतं ययौ दिशः ॥
तज्जित्वा पार्थिवं क्षात्रं समरे परवीरहा ।
ययौ तदा वशे कर्तुमुदीचीं पाण्डुनन्दनः' ॥
पूर्वं कुलिङ्गविषये वशे चक्रे महीपतिम् ।
धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा ॥
`तेनैव सहितः प्रायाज्जिष्णुः साल्वपुरं प्रति ।
स साल्वपुरमासाद्य साल्वराजं धनञ्जयटः ॥
विक्रमेणोग्रधन्वानं वशे चक्रे महामनाः ।
तं पार्थः सहसा जित्वा द्युमत्सेनं महीश्वरम् ॥
कृत्वा स सैनिकं प्रायात्कटदेशमरिन्दमः ।
तत्र पार्थो रणे जिष्णुः सुनाभं वसुधाधिपम् ॥
विक्रमेण वशे कृत्वा कृतवाननुसैनिकम् ।
एतेन सहितो राजन्सव्यसाची परन्तपः' ॥
विजिग्ये शाकलद्वीपे प्रतिविन्ध्यं च पार्थिवम् ।
शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः ॥
अर्जुनस्य च सैन्यस्थैर्विग्रहस्तुमुलोऽभवत् ।
तान्सर्वानजयत्पार्तो धर्मराजप्रियेप्सया ॥
तैरेव सहितः सर्वैः प्रग्ज्योतिषमुपाद्रवत् ॥
तत्र राजा महानासीद्भगदत्तो विशाम्पते ।
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ॥
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् ।
अन्यैश्च बहुभिर्योधैः सागरानुपवासिभिः ॥
ततः स दिवसानष्टौ योधयित्वा धनञ्जयम् ।
प्रहसन्नब्रवीद्राजा सङ्ग्रामविगतक्रमम् ॥
उपपन्नं महाबाहो त्वयि कौरवनन्दन ।
पाकशासनदायादे वीर्यमाहवशोभिनि ॥
अहं सखा महेन्द्रस्य शक्रादनवरो रणे ।
न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि ॥
त्वमीप्सितं पाण्डवेयं ब्रूहि किं करवाणि ते ।
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ॥
अर्जुन उवाच ॥
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः ।
धर्मज्ञः सत्यसन्धश्च यज्वा विपुलदक्षिणः ॥
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् । भवान्पितृसखश्चैव प्रीयमाणो मयापि च ।
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥
भगदत्त उवाच ।
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः ।
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥