अध्यायः 028

अर्जुनेन उत्तरदिग्विजये नानादेशजयः ॥ 1 ॥

वैशम्पायन उवाच ।

एवमुक्तः प्रत्युवाच भगदत्तं धनञ्जयः ।
अनेनैव कृतं सर्वं भविष्यत्यनुजानता ॥
तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः ।
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ॥
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् ।
तथैवोपगिरं चैव विजिग्ये पुरुषर्षभः ॥
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः ।
तान्वशे स्थापयित्वा स धनान्यादाय सर्वशः ॥
तैरेव सहितः सर्वैरनुरज्य च तान्नुपान् ।
उलूकवासिनं राजन्बृहन्तमुपजग्मिवान् ॥
मृदङ्गवरनादेन रथनेमिस्वनेन च ।
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ॥
ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा ।
निष्क्रम्य नगरात्तस्माद्योधयामास फाल्गुनम् ॥
सुमहान्सन्निपातोऽभूद्धनञ्जयबृहन्तयोः ।
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥
सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः ।
उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः ॥
स तद्राज्यमवस्थाप्य उलूकसहितो ययौ ।
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ॥
मोदापुरं वामवेदं सुदामानं सुसङ्कुलम् ।
उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् ।
किरीटी जितवान्राजन्देशान्पञ्चगणांस्ततः ॥
स देवप्रस्थमासाद्य सेनाबिन्दोः पुरं प्रति ।
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ॥
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् ॥
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ ॥
विजित्य चाहवे शूरान्पार्वतीयान्महारथान् ।
जिगाय सेनया राजन्पुरं पौरवरक्षितम् ॥
पौरवं युधि निर्जित्य दस्यून्पर्वतवासिनः ।
गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः ॥
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः ।
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥
ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा ।
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः ।
उरगावासिनं रम्यं रोचमानं रणेऽजयत् ॥
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् ।
प्राधमद्बलमास्थाय पाकशासनिराहवे ॥
ततः सुह्यांश्च चोलांश्च किरीटी पाण्डवर्षभः ।
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ॥
ततः परमविक्रान्तो बाह्लीकान्पाकशासनिः ।
महता परिमर्देन वशे चक्रे दुरासदान् ॥
गृहीत्वा तु बलं सारं फल्गुनः पाण्डुनन्दनः ।
दरदान्सहकाम्भोजैरजयत्पाकशासनिः ॥
प्रागुत्तरं दिशं ये च वसन्त्याश्रित्य दस्यवः ।
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ॥
लोहान्परमकाम्भोजानृषिकानुत्तरानपि ।
सहितांस्तान्महाराज व्यजयत्पाकशासनिः ॥
ऋषिकेष्वपि सङ्ग्रामे बभूवातिभयङ्करः ।
तारकामयसङ्काशः परस्त्वृषिकपार्थयोः ॥
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि ।
शुकोदरसमांस्तत्र हयानष्टौ समानयत् ॥
मयूरसदृशानन्यानुत्तरानपरानपि ।
जवनानाशुगांश्चैव करार्थं समुपानयत् ॥
स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कृटम् ।
श्वेतपर्वतमासाद्य न्यविशत्पुरुषर्षभः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि अष्टाविंशोध्यायः ॥ 28 ॥