अध्यायः 030

भीमेन प्राचीदिग्विजये पाञ्चालदेशगमनम् ॥

वैशम्पायन उवाच ।

एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् । धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ॥ 5
महता बलचक्रेण परराष्ट्रावमर्दिना । हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान् ।
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः ।
स गत्वा नरशार्दूलः पञ्चालानां पुरं महत् ॥
पञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः ।
`किञ्चित्करं समादाय विदेहानां पुरं ययौ' ॥
ततः स गण्डकाञ्शूरो विदेहान्भरतर्षभः ॥
विजित्याल्पेन कालेन दशार्णानजयत्प्रभुः । तत्र दाशार्णको राजा सुधर्मा रोमहर्षणम् ।
कृतवान्भीमसेनेम महद्युद्धं निरायुधम् ।
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म महात्मनः ।
अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ॥
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः ।
सैन्येन महता राजन्कम्पयन्निव मेदिनीम् ॥
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुगम् ।
जिगाय समरे वीरो बलेन बलिनां वरः ॥
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा ।
पूर्वदेशं महावीर्यं विजिग्ये कुरनन्दनः ॥
ततो दक्षिणमागम्य पुलिन्दनगरं महत् ।
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ॥
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः ।
शिशुपालं महावीर्यमभ्यगाज्जनमेजय ॥
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् ।
उपनिष्कम्य नगरात्प्रत्यगृह्णात्परन्तप ॥
तौ समेत्य महाराज कुरुचेदिवृषौ तदा ।
उभयोरात्मकुलयोः कौशलं पर्यपृच्छताम् ॥
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशाम्पते । उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ ।
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् ।
स च तं प्रतिगृह्यैव तथा चक्रे नराधिपः ॥
ततो भीमस्तत्र राजन्निषित्वा त्रिदशाः क्षपाः ।
सत्कृतः शिशुपालेन ययौ सबलवाहनः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥