अध्यायः 045

शक्रेण स्वर्गमागतं लोमशंप्रति पार्थमहिमानुवर्णनपूर्वकं युधिष्ठिराय तद्वृत्तान्तकथनप्रार्थना ॥ 1 ॥

`वैशंपायन उवाच ।
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् ।
शक्रस्य मतमाज्ञाय पार्थमानर्चुर्जसा ॥
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् ।
प्रवेशयामासुरथो पुरन्दरनिवेशनम् ॥
एवं संपूजितो जिष्णुरुवास भवने पितुः ।
उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥
स शक्रहस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् ।
अशनिं च महानादां मेघबृंहितलक्षणाम् ॥
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः ।
पुरन्दरनियोगाच्च पञ्चाब्दमवसत्सुखम् ॥
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते ।
नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥
वादित्रं दैवविहितं नृलके यन्न विद्ते ।
मदाज्ञया च कौन्तेय श्रेयो वै ते भविष्ति ॥
सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः । स तेन सह संगम्य रेमे पार्थो निरामयः ॥'
कदाचिदटमानस्तु महर्षिरथ लोमशः ।
जगाम शक्रभवनं पुरंदरदिदृक्षया ॥
स समेत्य नमस्कृत्य देवराजं महामुनिः ।
ददर्शार्धासनगतं पाण्डवं वासवस्य हि ॥
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे ।
निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥
तस्य दृष्ट्वाऽभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् ।
कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ॥
किं त्वस्य सुकृतं कर्म के लोका वै विनिर्जिताः ।
स एवमनुसंप्राप्तः स्थानं देवनमस्कृतम् ॥
तस्य विज्ञाय संकल्पं शक्रो वृत्रविमर्दनः ।
लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥
देवर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् ।
नायं केवलमर्त्योऽभूत्क्षत्रियत्वमुपागतः ॥
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः ।
अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् ।
शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ॥
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।
ताविमावभिजानीहि हृषीकेशधनंजयौ ॥
विख्यातौ त्रिषु लोकेषु नरनारायणावृषी ।
कार्यार्थमवतीर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम् ॥
यन्न शक्यं शुरैर्द्रष्टुमृषिभिर्वा महात्मभिः ।
तदाश्रमपदं पुण्यं बदरीनाम विश्रुतम् ॥
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च ।
यतः प्रववृते गङ्गा सिद्धचारणसेविता ॥
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती ।
भूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति ।
विप्रियेषु स्थिताऽस्माकं वरदानेन मोहिताः ॥
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः ।
देवान्न गणयन्त्येते तथा दत्तवरा हि ते ॥
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः ।
सर्वे देवनिकाया हि नालं योधयितुं हि तान् ॥
योसौ भूमिगतः श्रीमान्विष्णुर्मुधुनिषूदनः ।
कपिलो नाम देवोसौ भगवानजितो हरिः ॥
येन पूर्वंमहात्मानः खनमाना रसातलम् ।
दर्शनादेव निहताः सगरस्यात्मजा विभो ॥
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम ।
पाथेन च महायुद्धे समेताभ्यामसंशयम् ॥
सोऽसुरान्दर्शनादेव शक्तो हन्तुं सहानुगान् ।
निवातकवचान्सर्वान्नागानिव महाह्रदे ॥
किंतु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः ।
तेजसः सुमहाराशिः प्रबुद्धः प्रदहेज्जगत् ॥
अयं तेषां समस्तानां शक्तः प्रतिसमासने ।
तान्निहत्यरणे शूरः पुनर्यास्यति मानुषान् ॥
भवानस्मन्नियोगेन यातु तावन्महीतलम् ।
काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥
सवाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः ।
नोत्कणअठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ॥
नाशुद्बाहुवीर्येण नाकृतास्त्रेण वा रणे ।
भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः ।
नृत्तवादित्रगीतानां दिव्यानां पारमीयिवान् ॥
भवानपि विविक्तानि तीर्थानि मनुजेश्वर ।
भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ॥
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः ।
राज्यं भोक्ष्यसि धर्मेण सुखी विगतकल्मपः ॥
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलम् ।
त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥
गिरिदुर्गेषु च सदा देशेषु विषमेषु च ।
वसन्ति रासा रौद्रास्तेभ्योरक्षां विधास्यति ॥
एवमुक्ते महेन्द्रेण बीभत्सुरपि लोमशम् ।
उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम् ॥
[यथा गुप्तस्त्वया राजा चरेत्तीर्थानि सत्तम । दानं दद्याद्यथा चैव तथा कुरु महामुने ॥]
वैशंपायन उवाच ।
तथेति संप्रतिज्ञाय लोमशः सुमहातपाः ।
कामय्कं वनमुद्दिश्य समुपायान्महीतलम् ॥
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् । तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

3-45-25 देवनिकायाः देवसमूहाः । नालं न समर्थाः ॥ 3-45-30 प्रबोध्यो विज्ञाप्यः ॥ 3-45-31 तेषां निवातकवचानाम् । प्रतिसमासने संक्षेपणे ॥ 3-45-35 गुडाकेशोऽर्जुनः ॥ 3-45-42 संप्रतिज्ञायाङ्गीकृत्य ॥