अध्यायः 047
वैशंपायनेन जनमेजयंप्रति पाण्डवानां वने भोज्यवस्तुकथनम् ॥ 1 ॥
जनमेजय उवाच ।
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने ।
प्रव्राज्यपाण्डवान्वीरान्सर्वमेतन्निर्रथकम् ॥
कथं च राजपुत्रं तमुपेक्षेताल्पचेतसम् ।
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ॥
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् ।
वन्यं वाऽप्यवा कृष्टमेतदाख्यातु नो भवान् ॥
वैंशंपायन उवाच ।
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् ।
ब्राह्मणानां निवेद्याग्रमभुञ्जता महारथाः ॥
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने ।
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ॥
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् ।
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ॥
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्मनोरमान् ।
बाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत् ॥
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाऽपि दृश्यते ।
कृशो वा दुर्बलो वाऽपि दीनो भीतोपि वा पुनाः ॥
पुत्रानिव प्रियान्भ्रातॄन्ज्ञातीनिव सहोदरान् ।
पुरोष कौरवश्रेष्ठो धर्मेराजो युधिष्ठिरः ।
पतीश्च द्रौपदी सर्वाञ्द्विजातीश्च यशस्विनी ।
मातेव भोजयित्वाऽग्रे शिष्टमाहारयत्तदा ॥
प्राचीं राजा दक्षिणां भीमसेनो
यमौ प्रतीचीमथवाऽप्युदीचीम् ।
धनुर्धरा मांसहेतोर्मृगाणां
क्षयं चक्रुर्नित्यमेवोपगम्य ॥
तथा तेषां कवसतां काम्यके वै
विहीनानामर्जुनेनोत्सुकानाम् ।
पञ्चैव वर्षाणि तथा व्यतीयु-
रथीयतां जपतां जुह्वतां च ॥
इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥
3-47-3 कृष्टं कर्षणजं ग्राम्यधान्यम् ॥ 3-47-4 शुद्धैर्विषालिप्तैः । आनेयं वनभवम् ॥ 3-47-5 अनग्नयः परिव्राजकाः ॥ 3-47-10 आहारयत् आहारं कृतवती ॥