अध्यायः 055

दमयन्तीस्वयंवरादनन्तरं दिवं गच्छतामिन्द्रादीनां मध्येमार्गं कलिद्वापरयोर्दर्शनम् ॥ 1 ॥ तैः स्वयंवरे दमयन्त्या नलवरणं निवेदितेन द्वापरद्वितीयेन कलिना नलपराभवप्रतिज्ञानम् ॥ 2 ॥

बृहदश्व उवाच ।
वृते तु नैषधे भैम्या लोकपाला महौजसः ।
यान्तो ददृशुरायान्तं द्वापरं कलिना सह ॥
अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा ।
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ॥
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् ।
गत्वा हि वरयिष्ये तां मनो हि मम तां गतम् ॥
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः ।
वृतस्तया नलो राजा पतिरस्मत्समीपतः ॥
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः ।
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ॥
देवानां मानुषं मध्ये यत्सा पतिमविन्दत ।
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ॥
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः ।
अस्माभिः सभनुज्ञाते दमयन्त्या नलो वृतः ॥
का हि सर्वगुणोपेतं नाश्रयेत नलं नृपम् ।
यो वेद धर्मानखिलान्यथावच्चरितव्रतः ॥
योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान् ।
अहिंसानिरतो यश्च सत्यवादी दृढव्रतः ॥
यस्मिन्दाक्ष्यं धृतिर्ज्ञानं तपः शौचं दमः शमः ।
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ॥
एवंरूपं नलं यो वै कामयेच्छपितुं कले ।
आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना ॥
एवंगुणं नलं यो वै कामयेच्छपितुं कले ।
कृच्छ्रे स नरके मञ्जेदगाधे विपुले ह्रदे ॥
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः ।
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् ॥
संयन्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर ।
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते ॥
त्वमप्यक्षान्समाविश्य साहाय्यं कर्तुमर्हसि । `मम प्रियकृते ह्यस्मन्कृतवांश्च भविष्यसि' ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥

3-55-4 निर्वृत्तः समाप्तः ॥ 3-55-7 अस्माभिः समनुज्ञातो दमयन्त्येति क. ध. पाठः ॥ 3-55-9 धर्मवादी दृढव्रतं इति क. पाठः ॥ 3-55-10 शौचं दया क्षमेति क. पाठः ॥