अध्यायः 056

कलिचोदनया पुष्करेण नलाह्वानम् ॥ 1 ॥ नलपुष्करयोरक्षदेवनम् ॥ 1 ॥

बृहदश्व उवाच ।
एवं स समयं कृत्वा द्वापरेण कलिः सह ।
आजगाम ततस्तत्र यत्रराजा स नैषधः ॥
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् ।
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥
कृत्वा मूत्रमुपस्पृश्य संध्यामन्वास्त नैषधः ।
अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥
स समाविश्य च नलं समीपं पुष्करस्य च ।
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥
अक्षद्यूते नलं जेता भवान्हि सहितो मया ।
निषधान्प्रतिपद्यस्व जित्वा राज्यं नलं नृपम् ॥
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् ।
कलिश्चैव वृषो भूत्वा तं वै पुष्करमन्वयात् ॥
आसाद्य तु नलं वीरं पुष्करः परवीरहा ।
दीव्यावेत्यब्रवीद्धाता वृषेणेति मुहुर्मुहुः ॥
न चक्षमे ततो राजा समाह्वानं महामनाः ।
वैदर्भ्याः प्रेक्षमाणायाः प्राप्तकालममन्यत ॥
`ततः स राज्ञा सहसा देवितुं संप्रचक्रमे ॥
भ्रात्रा देवाभिभूतेन दैवाविष्टो जनाधिपः ।' हिरण्यस्य सुवर्णस्य यानयुग्यस् वाससाम् ।
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥
तमक्षमदसंमत्तं सुहृदां न तु कश्चन ।
निवारणेऽभवच्छक्तो दीव्यमानमरिंदमम् ॥
ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत ।
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् ।
एष पौरजनो देवि द्वारि तिष्ठति कार्यवान् ॥
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः ।
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ॥
ततः सा बाष्पकलया वाचा दुखेन कर्शिता ।
उवाच नैषधं भैमी शोकोपहतचेतना ॥
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः ।
`वृद्धैर्ब्राह्मणमुख्यैश्च वणिग्भिश्च समन्वितः ॥
आगतं सहितं राजंस्त्वत्प्रसादावलम्बनम् ।' तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ॥
तां तथा रुचिरापाङ्गीं विलपन्तीं तथाविधाम् ।
आविष्टः कलिना राजा नाभ्यभाषत किंचन ॥
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः ।
नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ॥
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च । युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि षट्पञ्चाशोऽध्यायः ॥ 65 ॥

3-56-1 समयं संकेतम् ॥ 3-56-3 अन्वास्त उपासितवान् ॥ 3-56-4 स कुलिः । नलं समाविश्य रूपान्तरेण पुष्करं चाब्रवीत् । दीव्य द्यूतं कुरु ॥ 3-56-6 वृषः श्रेष्ठः पाशश्रेष्ठो भूत्वा ॥ 3-56-7 वृषेणाक्षमुख्येन । अब्रवीत्प्रीत्येति क. पाठः ॥ 3-56-10 यानेषु युग्यं युगवहं रथादि तस्य ॥ 3-56-19 नायमस्ति नष्टोयमित्यर्थः ॥ 3-56-20 पुण्यः पावनः श्लोको यशो यस्य । अजीयत जितः ॥