अध्यायः 060

वने चरन्त्या दमयन्त्या अजगरेण ग्रहणम् ॥ 1 ॥ वनचरेण व्याधेन तां ग्रसतोऽजगरस्य वधः ॥ 2 ॥ दमयन्त्या आत्मकामुकस्य तद्व्याधस्य स्वपातिव्रत्यमहिम्ना हननम् ॥ 3 ॥

बृहदश्व उवाच ।
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा ।
अबुध्यत वरारोहा संत्रस्ता विजने वने ॥
अपश्यमाना भर्तारं शोकदुःखसमन्विता ।
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम् ॥
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् ।
हा हताऽस्मि विनष्टाऽस्मि भीताऽस्मि विजने वने ॥
ननु नाम महारज धर्मज्ञः सत्यवागसि ।
कथंविधस्त्वंहि तथा सुप्तामुत्सृज्य मां गतः ॥
कथमुत्सृज्यगन्ताऽसि वश्यां भार्यामनुव्रताम् ।
विशेषतो नापकृतः परेणापकृतो ह्यसि ॥
शक्यसे न गिरः सत्याः कर्तुं मयि नरेश्वर ।
यास्त्वया लोकपालानां सन्निधौ कथिताः पुरा ॥
नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ ।
यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति ॥
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ ।
भृशं भीतास्मि दुर्धर्ष दर्शयात्मानमीश्वर ॥
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध ।
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥
नृशंसां वत राजेन्द्र यन्मामेवंगतामिह ।
विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ॥
न शोचाम्यहमात्मानं न चान्यदपि किंचन ।
कथं नु भवितास्येक इति त्वां नृप शोचये ॥
कथं नु राजंस्तृषितः क्षुक्षितः श्रमकर्शितः ।
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ॥
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना ।
इतश्चेतश्च रुदती पर्यधावत दुःखिता ॥
मुहुरुत्पतते बाला मुहुः पतति विह्वला ।
मुहुरालीयते भीता मुहुः क्रोशति रोदिति ॥
अतीव शोकसंतप्ता मुहुर्निःश्वस् विह्वला ।
उवाच भैमी निःश्वस् रोदमाना पतिव्रता ॥
यस्याभिशापाद्दुःखार्तो नैष नन्दति नैषधः ।
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ॥
अपापचेतसं पापो य एवं कृतवान्नलम् ।
तस्माद्दुःखतरं प्राप्य जीवत्वमसुखजीविकाम् ॥
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः ।
अन्वेषति स्म भर्तारं वने श्वापदसेविते ॥
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः ।
हाहा राजन्निति मुहुरितश्चेतश्च धावति ॥
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् । करुणं बहुशोचन्तीं विलपन्तीं सुमध्यमाम् ।
सहसाऽभ्यागतां भैमीमभ्याशपरिवर्तिनीम् ।
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ॥
सा ग्रस्यमाना ग्रहेण शोकेन च पराजिता ।
नात्मानं शोचति तथा यथा शोचति नैषधम् ॥
द्वा नाथ मामिह वने ग्रस्यमानामनागसम् ।
ग्राहेणानेन विजने किमर्थं नानुधावसि ॥
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध । [कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो ।]
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चोतो धनानि च ॥
श्रान्तस्य ते क्षुधार्तस् परिग्लानस्य नैषध ।
कः श्रमं राजशार्दूल नाशयिष्यति तेऽनघ ॥
बृहदश्च उवाच ।
तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् ।
आक्रन्दमानां संश्रुत्य जवेनाभिससार ह ॥
तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् । त्वरमाणो मृगव्याधः संचरन्गहने वने ।
समभिक्रम्य वेगेन सत्वरः स वनेचरः ॥
मुखे तं पाटयामास शस्त्रेण निशितेन च ।
निर्विचेष्टं भुजङ्गं तं विशस् मृगजीवनः ॥
मोक्षयित्वा स तांव्याधः प्रक्षाल्य सलिलेन ह ।
समाश्वास्य कृताहारामथ पप्रच्छ भारत ॥
कस्य त्वं मृगशावाक्षि कथं चास्यागता वनम् ।
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ॥
दमयन्ती तथा तेन पृच्छ्यमाना विशांपते ।
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ॥
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् ।
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ॥
अरालपक्ष्मनयनां तथा मधुरभाषिणीम् ।
लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान् ॥
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया ।
सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ॥
दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता ।
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ॥
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः ।
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ॥
दमयन्ती तु दुःखार्था पतिराज्यविनाकृता ।
अतीतवाक्यथे काले शशापैनं रुषा किल ॥
यथाऽहं नैषधादन्यं मनसाऽपि न चिन्तये ।
तथाऽयं पततां क्षुद्रः परासुर्मृगजीवनः ॥
उक्तमात्रे तु वचने तया स मृगजीवनः । व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥

3-60-13 मन्युना शोकेन ॥ 3-60-16 कलिं शपति यस्येति । अभिशापात्र वृथाद्वेषात् ॥ 3-60-20 वाशतीं क्रोशन्तीम् ॥ 3-60-21 ग्राहः सर्पः ॥ 3-60-24 बुद्धिलाभादूर्ध्वं मां विना कथं भविष्यसि कथं जीविष्यसि । शापान्मुक्तः इति क. पाठः ॥ 3-60-28 विशस्य विदार्य ॥ 3-60-33 अरालानि शोभमानानि पक्ष्माणि नयनप्रान्तरोमाणि ययोस्तादृशे नयने यस्या इति तथा ॥ 3-60-35 मन्युना क्रोधेन ॥ 3-60-37 पतिराज्यविनाकृता पत्या राज्येन च रहिता । अतीतवाक्पथे वाचाप्यनिवार्ये सति । काले धूम्रवर्णे व्याधे ॥ 3-60-38 परासुः गतप्राणः ॥ 3-60-39 व्यसुर्विगतप्राणः ॥