अध्यायः 002

युधिष्ठिरेण वने स्वानुयायिनो ब्राह्मणान्प्रति स्वस्य हृतसर्वस्वतया तद्भरणस्य दुष्करत्वकथनपूर्वकं प्रतिनिवर्तनप्रार्थना ॥ 1 ॥ ब्राह्मणैः स्वयमेवत्मभरणपूर्वकं स्वसहवासमात्रेऽर्थिते युधिष्ठिरेण स्वस्य तद्भरणाशक्तिचिन्तनेन विषादाधिगमः ॥ शौनकेन युधिष्टिरंप्रति ब्राह्मणभरणाय तपसा सिद्धिसंपादनचोदना ॥ 3 ॥

वैशंपायन उवाच ।
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् । वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः ।
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ॥
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः ।
फलमूलामिषाहारा वनं यास्याम दुःखिताः ॥
वनं च दोषबहुलं बहुव्यालसरीसृपम् ।
परिक्लेशश्चवो मन्ये ध्रुवं तत्र भविष्यति ॥
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् ।
किंपुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ॥
ब्राह्मणा ऊचुः ।
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः ।
नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिन ॥
स्नेहकर्माणि भक्तेषु दैवतान्यपि कुर्वते ।
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ॥
युधिष्ठिर उवाच ।
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः ।
सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ॥
आहरेयुर्हि ये सर्वे फलमूलमृगांस्तथा ।
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ॥
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च ।
दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ॥
ब्राह्मणा ऊचुः ।
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव ।
स्वयमाहृत्य वन्यानि त्वानुयास्यामहे वयम् ॥
अनुध्यानेन जप्येन विधास्यामः शिव तव ।
कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ॥
युधिष्ठिर उवाच ।
एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह ।
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ॥
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृत्य भोजिनः ।
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ॥
वैशंपायन उवाच ।
इत्युक्त्वा नृपतिः शोचन्निषसाद महीतले ॥
तमध्यात्मरतो विद्वाञ्शौनको नाम वै द्विजः ।
योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ॥
शोकस्थानसहस्राणि हर्षस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु ।
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोभिघातिनीम् ।
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ॥
`शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः ॥'
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनेष्वपि ।
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ॥
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा ।
आत्मव्यवस्थानकरागीताः श्लोका महात्मना ॥
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् ।
तयोर्व्याससमासाभ्यांशमोपायमिमं शृणु ॥
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् ।
दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते ॥
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात् ।
आधिव्याधिप्रशमनं क्रियायोगबलेन तु ॥
मतिमन्तो व्यथोपेताः शमं प्रागेव कुर्वते ।
मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥
मानसेन हि दुःखेन शरीरमुपतप्यते ।
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ॥
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना ।
प्रशन्ते मानसे दुःखे शारीरमुपशाम्यति ॥
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते ।
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च ।
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ॥
स्नेहात्कारुण्यरागौ च प्रजास्वीर्ष्यादयस्तथा ।
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥
कोटराग्निर्यथाऽशेषं समूलं पादपं दहेत् ।
धर्मार्थिनं तथाऽल्पोपि रागदोषो विनाशयेत् ॥
विप्रयोगे न तु त्यागी दोषदर्शी समागमे ।
विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ॥
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात् ।
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ॥
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु ।
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥
रागाभिभूतः पुरुषः कामेन परिकृष्यते ।
इच्छा संजायते तस्य ततस्तृष्णा विवर्धते ॥
तृष्णा हि सर्वपापिष्ठा नित्योद्देगकरी नृणाम् ।
अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योसौ प्राणान्तिको रोगस्तां तृष्णांत्यजतः सुखम् ॥
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् ।
विनाशयति भूतानि अयोनिज इवानलः ॥
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति ।
तथाऽकृतात्मा लोभेन सहजेन विनश्यति ॥
राजतः सलिलादग्नेश्चोरतः स्वजनादपि । `अर्थिभ्यः कालतस्तस्मान्नित्यमर्थवतां भयम्' ।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥
यथा ह्याभिषमाकाशे पक्षिभिः श्वापदैर्भुवि ।
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ॥
अर्थ एव हि केषांचिदनर्थं भजते नृणाम् । अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ।
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ॥
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ।
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥
अर्थस्योपार्जने दुःखमार्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात्
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः ।
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥
असन्तोषपरा मूढाः संतोषं यान्ति पण्डिताः । अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् ।
तस्मात्संतोषमेवेह परं पश्यन्ति पण्डितः ॥
अनित्यं यौवनं रूपं जीवितं रत्नसंचयः ।
ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ॥
त्यजेत स च यांस्तस्मात्तज्जान्क्लेशान्सहेत च । न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः ।
अतश्च धार्मिकैः पुम्भिरनीहार्थः प्रशस्यते ॥
धर्मार्थं यस्य वित्तेहा वरं तस्य नरीहता ।
प्रक्षालनाद्धि पङ्कस्य श्रेयो ह्यस्पर्शनं नृणाम् ॥
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि । धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ॥ 3-2-51xयुधिष्ठिर उवाच ।
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम ।
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ॥
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे ।
भरणं पालनं चापि न कुर्यादनुयायिनाम् ॥
संविभागो हि भूतानां सर्वेषामेव दृश्यते ।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् ।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् । उत्थाय चासनं दद्यादेष धर्मः सनातनः ।
प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनाम् ॥
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिवान्धवाः ।
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः ॥
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून् ।
न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत् ॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ।
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते ॥
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः ।
विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥
यो दद्यादपरिक्लिष्टमन्नमद्वनि वर्तते ।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे ।
तस्य धर्मं परंप्राहुः कथं वा विप्र मन्यसे ॥
शौनक उवाच ।
अहो बत महत्कष्टं विपरीतमिदं जगत् ।
येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥
शिश्नोदरकृतेऽप्राज्ञः करोति विषसं बहु ।
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः ॥
ह्रियते बुध्यमानोपि नरो हारिभिरिन्द्रियैः ।
विमूढसंज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः ॥
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा ।
तद्रा प्रादुर्भवत्यषां पूर्वसंकल्पजं मनः ॥
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम् ।
वस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते ॥
ततः संकल्पवीर्येण कामेन विषयेषुभिः ।
विद्धः पतति लोभाग्नौज्योतिर्लोभात्पतङ्गवत् ॥
ततो दारैर्विहारैश्च मोहितश्च यथेप्सया ।
महामोहमुखे मग्नो नात्मानमवबुध्यते ॥
एवं पतति संसारे तासुतास्विह योनिषु ।
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ॥
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते ।
जले भुवि तथाऽऽकाशे जायमानः पुनःपुनः ॥
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु ।
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ॥
तदिदं वेदवचनं कुरु कर्म त्यजेति च ।
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ॥
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः ।
अलोभ इतिमार्गोऽयं धर्ममस्याष्टविधः स्मृतः ॥
अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः ।
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ॥
उत्तरो देवयानस्तु सद्भिराचरितः सदा ।
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ॥
सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात् ।
सम्यग्द्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ॥
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् ।
सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ॥
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः ।
रागद्वेषविनिर्मुक्ता ऐश्वर्यवशमागताः ॥
रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ ।
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ॥
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् ।
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ॥
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते ।
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ॥
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहम् ।
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

3-2-1 प्रभातायामरुणोदयेन उद्दीपितायाम् ॥ 3-2-11 अनुध्यानेन इष्टचिन्तनेन । जप्येन स्वस्त्ययनेन तथा विश्वासकरणैः सह रंस्यामहे इति ध. पाठः ॥ 3-2-12 प्रत्यादेशं धिक्कारम् ॥ 3-2-15 अध्यात्मं आत्मानमधिकृत्य प्रवृत्तं शास्त्रमध्यात्मं वेदान्तस्तत्र रतः । योगश्चित्तवृत्तिनिरोधः ॥ 3-2-16 शोकःस्थीयतेऽनेनेति व्युत्पत्त्या स्थानशब्दो हेतुवचनः । भयस्थानशतानि चेति झ. पाठः ॥ 3-2-20 गुर्देषु दुस्तरेषु शारीरदुःखेषु । आपत्सु स्त्रीकर्षणादिषु ॥ 3-2-21 आत्मव्यवस्थानकराः मनःस्थैर्यहेतवः ॥ 3-2-22 व्याससमासाभ्यां विस्तरसंक्षेपाभ्याम् ॥ 3-2-23 अनिष्टं कणअटकादिः । श्रमो व्यायामः ॥ 3-2-24 प्रतिकारादौषधादिभिरुपशमनात् आधिप्रशमनमविचिनतनात् । इदमेव क्रियायोगबलम् ॥ 3-2-25 प्रागेव मानसस्य शमं कुर्वते । प्रियाक्यानैरनुकूलवचनैः । संभोगोपनयैः स्त्र्यादिसमर्पणैः । मतिमन्तो ह्यतो वैद्या इति ख. च. झ. पाठः ॥ 3-2-28 स्नेहो रागः सज्जते प्रवर्तते ॥ 3-2-29 आयासः क्लेशः ॥ 3-2-32 विप्रयोगे विषयेण सह वियोगे त्यागी न किंतु सत्यपि समागमे यो विषयदोषदर्शी स एव त्यागी । स एव च विरागं भजते ॥ 3-2-34 युक्तेषु नित्यवस्तुप्राप्तये उद्युक्तेषु । कृतात्मसु ध्यानेन संस्कृतचित्तेषु । तेषु प्रसिद्धेषु स्नेहो रागो न सज्जते न सङ्गं प्राप्नोति ॥ 3-2-35 रागः रम्यवस्तुदर्शने चित्तस्योत्फुल्लता । कामस्तल्लिप्सा । इच्छा लब्धे तस्मिन् रुच्यतिशयात्पुनस्तदभिलाषः । पुनःपुनस्तल्लाभेप्यतृप्तिस्तृष्णा ॥ 3-2-37 जीर्यतः जरामृत्युग्रस्तस्य ॥ 3-2-38 अयः तप्तायःपिण्डं अनलो वह्निः ॥ 3-2-39 अकृतात्मा अनिर्जितचेताः ॥ 3-2-42 अर्थश्रेयसि अर्थसाध्ये श्रेयसि ज्योतिष्टोमादौ ॥ 3-2-46 पिपासायाः तृष्णायाः ॥ 3-2-48 संचयान् अर्थान् । तज्जान् अर्थत्यागजान् । अनीहार्थः यदृच्छालब्धोऽर्थः ॥ 3-2-50 अर्थतः धनात् ॥ 3-2-51 अर्थोपभोगः विषयोपभोगः । अर्थेप्सुता घनेप्सुता ॥ 3-2-53 दृश्यते पञ्चमहायज्ञेषु । अपचमानेभ्यः यत्यादिभ्यः ॥ 3-2-54 तृणानि आसनार्थानि ॥ 3-2-58 वृथा श्राद्यज्ञादिनिमित्तंविना ॥ 3-2-59 विश्वं सर्वजातीयं प्राणिजातं देवो देवता यस्मिंस्तद्विश्वदेवम् । स्वार्थे तद्धितः । वैश्वदेवं नाम कर्म ॥ 3-2-62 अपरिक्लिष्टं कार्पण्यं विना । अध्वनि वर्तते मार्गस्थाय ॥ 3-2-65 विघसं देवताद्युपयुक्तशेषं कामुको बहुकरोति । इन्द्रियार्थाः शब्दादयः ॥ 3-2-66 हारिभिः हरणशीलैः ॥ 3-2-68 इन्द्रियस्येन्द्रियाणां विषयान् शब्दादीन् ॥ 3-2-74 इति च वेदवचनमित्यन्वयः । फलेच्छां विनैः समाचरेदित्यर्थः ॥ 3-2-76 कर्तव्यमवश्यानुष्ठेयं नित्याग्निहोत्रसंध्योपासनादि । अभिमानात्सङ्गात् ॥ 3-2-77 अष्टाङ्गेन वक्ष्यमाणसंकल्पसंबन्धाद्यङ्गाष्टकवता तदाचरेदिति पूर्वेण संबन्धः । विशुद्धात्मा शुद्धचित्तः ॥ 3-2-78 संकल्पो मानसं कर्म तस्य संबन्धो निरोधः ॥ 3-2-83 कर्ममयी यज्ञयुद्धादिकर्मरूपसाधनप्रधाना सिद्धिः । पितृमातृमयी परलोकेहलोकफलप्रधाना ॥