अध्यायः 065
भीमराजेन नलदमयन्त्यन्वेषणाय नानादेशेषु ब्राह्मणानां प्रस्थापनम् ॥ 1 ॥ सुदेवनाम्ना विप्रेण चेदिराजगृहे दमयन्तीदर्शनम् ॥ 2 ॥ विप्रेण सह
सबाष्पं भाषमाणां दमयन्तीं दृष्ट्वा राजमात्रा विप्रंप्रति
दमयन्तीकुलशीलादिप्रश्नः ॥ 3 ॥
हृतराज्ये नले भीमः सभार्येऽदर्शनं गते ।
`चिन्तयामास बहुशः सहामात्यैर्नराधिपः ॥
समाहूय द्विजान्सर्वानिदं वचनमब्रवीत् ।
अग्रहारं च दास्यामिग्रामं नगरसंमितम् ॥
दमयन्तीं नलं चैव पर्यन्वेषति यो द्विजः ।
गवां शतसहस्राणि दाता तस्मै द्विजातये ॥
इत्युक्त्वा ब्राह्मणान्सर्वान्समाहूय द्विजोत्तमान् ।
प्रस्थापयामास तदा तयोर्दर्शनकाङ्क्षया' ॥
संदिदेश च तान्भीमो वसु दत्ता च पुष्कलम् ।
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ॥
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे ।
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति ॥
अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम् ।
हिरण्यंच सुवर्णं च दासीदासं तथैव ॥
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा ।
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ॥
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतो दिशम् ।
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ।
नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम् ॥
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः ।
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ॥
तयैव राजमाता च ब्राह्मणान्पर्यवेषयत् ।
भोजनार्थे सुदेवोऽपि तत्रैव प्रविवेश ह ॥
कृशां विवर्णां मलिनां भर्तृशोकपरायणाम् ।
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ॥
मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम् ।
निबद्धां धूमजालेन प्रभामिव विभावसोः ॥
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ।
तर्कयामास भैमीति कारणैरुपपादयन् ॥
सुदेव उवाच ।
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना ।
कृतार्थोस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियं ॥
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् ।
कुर्वन्तीं प्रभया देवीं सर्वावितिमिरा दिशः ॥
चारुपद्मविशालाक्षीं मन्मथस्य रतीमिव ।
इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव ॥
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् ।
मलपङ्कानुलिप्ताङ्गीं प्रम्लानां नलिनीमिव ॥
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् ।
पतिशोकाकुलां दीनां कृशस्त्रोतां नदीमिव ॥
विध्वस्तपर्णकमलां वित्रासितविहंगमाम् ।
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ॥
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ।
दह्यमानामिवार्केण मृणालीमिव चोद्धृताम् ॥
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् ।
चन्द्रलेखामिव नवांव्योम्नि नीलाभ्रसंवृताम् ॥
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च ।
देहं धारयतीं दीनं भर्तृदर्शनकाङ्क्षया ॥
भर्ता नाम परं नार्या भूषणं भूषणैर्विना ।
एषा हि रहिता तेन शोभमाना न शोभते ॥
दुष्करं कुरुतेऽत्यन्तं हीनो यदनया नलः ।
धारयत्यात्मनो देहं न शोकेनापि सीदति ॥
इमामसितकेशान्तां शतपत्रायतेक्षणाम् ।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ॥
कदा नु खलुः दुःखस्य पारं यास्यति वै शुभा ।
भर्तुः समागमात्साध्वीरोहिणी शशिनो यथा ॥
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति ।
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ॥
तुल्यशीलवयोयुक्तां तुल्याभिजनसंवृतम् ।
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ॥
युक्तं तस्याप्रमेयस्य वीर्यसत्ववतो मया ।
समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ॥
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टदुःखां दुःखार्तां ध्यानरोदनतत्पराम् ॥
बृहदश्व उवाच ।
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् ।
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ॥
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा ।
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ॥
कुशली ते पिता राज्ञि जननी भ्रातरश्च ते ।
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ॥
त्वत्कृतेबन्धुवर्गाश्च गतसत्वा इवासते ।
अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम् ॥
बृहदश्व उवाच ।
अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर ।
पर्यपृच्छत तान्सर्वान्क्रमेण सुहृदः स्वकान् ॥
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता ।
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिता ।
सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥
जनित्र्याः प्रेषयामास सैरन्ध्री रुदते भृशम् ।
ब्राह्मणेन सहागम्य तांविद्धि यदि मन्यसे ॥
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा ।
जगाम यत्रसा बाला ब्राह्मणेन सहाभवत् ॥
ततः सुदेवमानाय्य राजमाता विशांपते ।
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना ।
त्वया च विदिता विप्र कथमेवंगता सती ॥
एतदिच्छाम्यहं श्रोतुं त्वत्तः सर्वमशेषतः ।
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्यादेवरूपिणीम् ॥
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः ।
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥
3-65-7 अग्रं ब्राह्मणभोजनं तदर्थं ह्रियन्ते
राजधनात्पृथकूक्रियन्ते तेऽग्रहाराः क्षेत्रादयः ॥ 3-65-14 कारणैर्लिङ्गैः
उपपादयन् इयमेव दमयन्तीति निश्चिन्वन् ॥ 3-65-16 श्यामां सदा षोडशवार्षिकीम् ॥ 3-65-20 पद्मिनीं सरसीम् ॥