अध्यायः 066
सुदेवेन दमयन्तीतत्वं निवेदितया राजमात्रा पिप्लुरूपलाञ्छनेन
तत्वनिर्धारणपूर्वकं तस्याः पितृपुरंप्रति प्रापणम् ॥ 1 ॥
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः ।
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥
राजा तु नैषधो नाम वीरसेनसुतो नलः ।
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ॥
स द्यूतेन जितो भ्रात्रा हृतराज्यो महामनाः ।
दमयन्त्या गतः सार्धं न प्राज्ञायत कस्यचित् ॥
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् ।
सेयमासादिता बाला तव देवि निवेशने ॥
अस्या रूपेण सदृशी मानुषी न हि विद्यते ।
अस्या ह्येष भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ॥
श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया ।
मलेन संवृतोह्यस्याश्छन्नोऽभ्रेणेव चन्द्रमाः ॥
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ।
प्रतिपत्कलुषेवेन्दोर्लेखा नातिविराजते ॥
न चास्या नश्यते रूपं वपुर्मलसमाचितम् ।
असंस्कृतमपि व्यक्तं भाति काञ्चनसन्निभम् ॥
अनेन वपुषा बाला पिप्लुनाऽनेन सूचिता ।
लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ॥
बृहदश्व उवाच ।
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशांपते ।
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥
स मलेनापकृष्टन पिप्लुस्तस्या व्यरोचत ।
दमयन्त्या यथा व्यभ्रे नभसीव निशाकरः ॥
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत ।
रुदन्त्यौ तां परिष्वज्यमुहूर्तमिव तस्थतुः ॥
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ।
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता ॥
अहं च तव माता च राजन्यस्य महात्मनः ।
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ॥
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः ।
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥
यथैव ते पितुर्गेहं तथेदमपि भामिति ।
यथैव च ममैश्वर्यं दमयन्ति तथा तव ॥
तां प्रहृष्टेन मनसा दमयन्ती विशांपते ।
प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत् ॥
अज्ञायमानाऽपिसती सुखमस्म्युषिता त्वयि ।
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ॥
सुखात्सुखतरो वासो भविष्यति न संशयः ।
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ॥
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ ।
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ॥
यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि ।
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ॥
बाढमित्येव तामुक्त्वा हृष्ट्वा मातृष्वसा नृप ।
गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥
प्रास्थापयद्राजमाता श्रीमतीं नरवाहिना ।
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ॥
ततः सा नचिरादेव विदर्भानगमच्छुभा ।
तां तु बन्धुजनः सर्वः प्रहृष्टः समपूजयत् ॥
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ ।
मातरं पितरं चोभौ सर्वं चैव सखीजनम् ॥
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी ।
परेण विधिना देवी दमयन्ती विशांपते ॥
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः ।
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ॥
सा व्युष्टा रजनीं तत्रपितुर्वेश्मनि भामिनी ।
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि षट्षष्टितमोऽध्यायः ॥ 66 ॥
3-66-5 पिप्लुः रक्ततिलकाकृतिलाञ्छनम् ॥ 3-66-6 स दृष्टो
बहुशो नाद्य लक्ष्यतेऽन्तर्हितो मयेति क. पाठः ॥ 3-66-7 चिह्नभूतः
सचात्यर्थमिति ध. पाठः ॥ 3-66-8 अस्यास्तु दृश्यते रूपमिति ध. पाठः ॥ 3-66-11
अपकृष्टेन दूरीकृतेन ॥ 3-66-20 दारकौ सुतः सुता च ॥ 3-66-28 व्युष्टा
वासंकृतवती ॥