अध्यायः 069

ऋतुपर्णेन दमयन्तीस्वयंवराय बाहुकं सारत्येनियोज्य वार्ष्णेयेन सह विदर्भान्प्रति प्रस्थानम् ॥ 1 ॥ वार्ष्णेयेन बाहुके सारथ्यकौशलेन नलत्वसंभावना ॥ 2 ॥

बृहदश्व उवाच ।
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः । `सारथीन्स समानीय वार्ष्णेयप्रभृतीन्नृपः ।
कथयामास यद्वृत्तं ब्राह्मणेन श्रुतं तथा ॥
बाहुकं च समाहूय दमयन्त्याः स्वयंवरम्' ।
सान्त्यञ्श्र्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥
विदर्भान्यातुमिच्छामि दमयन्त्याः स्वयंवरम् ।
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह ।
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥
दमयन्ती भवेदेवं किंनु दुःखेन मोहिता ।
अस्मदर्थे भवेद्बाऽयमुपायश्चिन्तितो महान् ॥
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी । यया क्षुद्रेण निकृताकृपणा पापबुद्धिना ।
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ॥
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ।
नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषतः ॥
यदत्र सत्यं वाऽसत्यं गत्वा वेत्स्यामि निश्चयम् ।
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥
इति निश्चित्य मनसा बाहुको दीनमानसः ।
कृतालुरुवाचेदमृतुपर्णं जनाधिपम् ॥
प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप । एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ।
`तत्रादित्योदये काले श्वो विदर्भान्गमिष्यसि ॥
एवमुक्तोऽब्रवीद्राजा बाहुकं प्रहसन्निव ।
किं ते कामं करोम्यद्य तुष्टोऽस्मि तव बाहुक ॥
बाहुक उवाच ।
यावद्यानमिदं सज्जमृतुपर्ण करोम्यहम्' ॥
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः ।
अश्वशालामुपागम्य भागस्वरिनृपाज्ञया ॥
स त्वर्यमाणो बहुश ऋतुपर्णन बाहुकः । अश्वाञ्जिज्ञासमानो वै विचार्य च पुनःपुनः ।
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥
तेजोबलसमायुक्तान्कुलशीलसमन्वितान् ।
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ॥
शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ।
`दृश्यमानान्कृशानङ्गैर्जवेनाप्रतिमान्पथि' ॥
तान्दृष्ट्वा दुर्बलान्नाजा प्राह कोपसमन्वितः ।
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या न ते वचम् ॥
कथमल्पबलप्राणा वक्ष्यन्तीमे हया रथम् ।
महानध्वा स चैकाह्ना गन्तव्यः कथमीदृशैः ॥
बाहुक उवाच ।
[एको ललाटे द्वे मूर्ध्नि द्वौद्वौ पार्श्वोपपार्श्वयोः । द्वौद्वौ वक्षसि विज्ञैर्यौ प्रयाणे चैक एव तु ॥]
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः ।
यानन्यान्मन्यसे राजन्ब्रूहि तान्योजयामिते ॥
ऋतुपर्ण उवाच ।
त्वमेव हयतत्त्वज्ञः कुशलो ह्यसि बाहुक ।
यान्मन्यसे समर्थास्त्वं क्षिप्रं तानेव योजय ॥
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् ।
योजयामास कुशलो जवयुक्तान्रथे नलः ॥
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः ।
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥
ततो नरवरः श्रीमान्नलो राजा विशांपते ।
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः ।
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥
ते चोद्यमाना विधिवद्बाहुकेन हयोत्तमाः ।
समुत्पेतुरिवाकाशं रथिनं मोहयन्ति च ॥
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः ।
अयोध्याधिपतिः श्रीमान्विस्मयं परमं ययौ ॥
रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् ।
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥
किंनु स्यान्मातलिरयं देवराजस्य सारथिः ।
तथा तल्लक्षणं वीरे बाहुके दृश्यते महत् ॥
शालिहोत्रोऽथ किंतु स्याद्धयानां कुलतत्त्ववित् ।
मानुपं समनुप्राप्तो वपुः परमशोभनम् ॥
उताहोस्विद्भवेद्राजा नलः परपुरंजयः ।
सोयं नृपतिरायात इत्येवं समचिन्तयत् ॥
अथवाऽयंनलात्प्राप्तो विद्यां तामेव बाहुकः ।
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥
अपिचेदं वयस्तुल्यं बाहुकस्य नलस्य च ।
नायं नलो महावीर्यस्तद्विद्यश्च भविष्यति ॥
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् ।
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः ॥
भवेन्न मतिभेदो मे गात्रवैरूप्यता प्रति ।
प्रमाणात्परिहीनस्तु भवेदिति मतिर्मम ॥
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः ।
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥
एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत् ।
हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥
ऋतुपर्णश्च राजेनद्रो बाहुकस्य हयज्ञताम् ।
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥
ऐकाग्र्यं च तथोत्साहं हयसंग्रहणं च तत् । कौशलं चापि संप्रेक्ष्य परां सुदमवाप ह ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

3-69-7 सापत्या अपत्यसहिता ॥ 3-69-15 प्रोथं नासिका । हनुः अधरं मुखफलकम् ॥ 3-69-16 सिन्धुजान् सिन्धुदेशजान् ॥ 3-69-18 बलं भारसहिष्णुता । प्राणो वेगवत्ता । वक्ष्यन्ति वह्नं करिष्यन्ति ॥ 3-69-19 प्रयाणे पृष्ठभागे ॥ 3-69-30 शालिहोत्रः अश्वशास्त्रप्रणेता आचार्यः ॥ 3-69-34 विधिना युक्ताः संयुक्ताश्च विरूपणैरिति क. पाठः ॥ 3-69-35 भवेत्तु मतिभेदो मे इति क. पाठः ॥ 3-69-36 अन्ततः निर्णयेन ॥