अध्यायः 071

ऋतुपर्णे कुण्डिनपुरं प्रविष्टे तद्रधघोषश्रवणेन दमयन्त्या तत्सारथौ नलसंभावना ॥ 1 ॥ ततस्तत्वजिज्ञासया नलंप्रति दूत्याः प्रस्थापनम् ॥ 2 ॥

बृहदश्व उवाच ।
ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् ।
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् ।
नादयन्रथघोषेण सर्वाः स विदिशो दिशः ॥
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः ।
श्रुत्वा तु समहृष्यन्त पुरेव नलसन्निधौ ॥
दमयन्ती तु शुश्राव रथघोषं नलस्य तम् ।
यथा मेघस्य नदतो गम्भीरं जलदागमे ॥
परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम् । नलेन संगृहीतेषु पुरेव नलवाजिषु ।
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः ।
हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः ॥
तच्छ्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा ।
प्रवेदुरुन्मुखा राजन्दृष्ट्वेव जलदोदयम् ॥
दमयन्त्युवाच ।
यथाऽसौ रथनिर्घोषः पूरयन्निव मेदिनीम् ।
ममाह्लादयते चेतो नल एव महीपतिः ॥
अद्य नन्द्राभवक्रं तं न पश्यामि नलं यदि ।
असंख्येयगुणं वीरं विनङ्क्ष्यामि न संशयः ॥
यदि वै तस्य वीरस्य हाह्वोर्नाद्याहमन्तरम् ।
प्रविशामि सुखस्पर्शं नभविष्याम्यसंशयम् ॥
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः ।
अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥
यदि मां सिंहविक्रान्तो मत्तवारणविक्रमः ।
नाभिगच्छतिराजेन्द्रो विनङ्क्ष्यामि न संशयः ॥
न स्मराम्यनृतं किंचिन्न स्मराम्यपकारताम् ।
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥
प्रभुः क्षमावान्वीरश्च दाता चाप्यधिको नृपैः ।
अहो नीचानुवर्ती च क्लीबवन्मम नैषध ॥
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ।
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥
एवं विलपमाना सा नष्टसंज्ञेव भारत ।
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥
ततो मध्यमकक्षायां ददर्श रथमास्थितम् ।
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥
ततोऽवतीर्य वार्ष्णएयो बाहुकश्च रथोत्तमात् ।
हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः ।
उपतस्थे महाराजं भीमं भीमपराक्रमम् ॥
तं भीमः प्रतिजग्राह पूजया परया मुदा ।
स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः ॥
स तत्र कुण्डिने रम्ये वसमानो महीपतिः । न च किंचित्तदाऽपश्यत्प्रेक्षमाणो मुहुर्मुहुः ।
स तु राज्ञा समागम्य विदर्भपतिना तदा ॥
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टः स भारत ।
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥
ऋतुपर्णोपि राजा स धीमान्सत्यपराक्रमः ।
राजानं राजपुत्रं वा न स्म पश्यति कंचन ॥
नैव स्वयंवरकथां न च विप्रसमागमम् ।
`न चान्यं कंचिदारम्भं स्वयंवरविधिं प्रति' ॥
ततो विगणयद्राजा मनसा कोसलाधिपः ।
आगतोस्मीत्युवाचैनं भवन्तमभिवादुकः ॥
राजापि च स्मयन्भीमो मनसा समचिन्तयत् । अधिकं योजनशतं तस्यागमनकारणम् ।
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ॥
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ।
पश्चादुदर्के ज्ञास्याप्रि कारणं यद्भविष्यति ॥
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् ।
विश्राम्यतामित्युवाच क्लान्तोसीति पुनःपुनः ॥
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः ।
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे ।
बाहुको रथमादाय रथशालामुपागमत् ॥
स मोचयित्वा तानश्वानुपचर्य च शास्त्रतः ।
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥
दमयन्त्यपि शोकार्ता दृष्ट्वा भागस्वरिं नृपम् ।
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥
चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः ।
नलस्येव महानासीन्न च पश्यामि नैषधम् ॥
वार्ष्णोयेन भवेन्नूनं विद्या सैवोपशिक्षिता ।
तेनाद्य रथनिर्घोषो नलस्येव महानभूत् ॥
कआहोस्विदृतुपर्णोऽपि यथा राजा नलस्यथा ।
यथाऽयंरथनिर्घोषो नैषधस्येव लक्ष्यते ॥
एवं सा तर्कयित्वा तु दमयन्ती विशांपते । दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥

3-71-3 नलाश्वाः विदर्भनगरे ये दमयन्त्याऽपत्याभ्यां सह प्रेषिताः ॥ 3-71-7 शिखिनो मयूराः ॥ 3-71-13 पर्युषितं प्रतिज्ञातकालातिलङ्घि ॥ 3-71-29 दिष्टं निर्दिष्टम् ॥