अध्यायः 074

दमयन्त्या बाहुकस्य केशिन्या स्वगृहानयनम् ॥ 1 ॥ बाहुकदमयन्त्योः संवादः ॥ 2 ॥ बाहुकेन स्वस्य नलत्वोत्कीर्तनपूर्वकं कर्कोटकानुस्मरणेन तद्वत्तवस्त्रद्वयपरिधाने तस्य निजरूपप्रादुर्भावः ॥ 3 ॥ ततो नलंप्रत्यभिजानन्त्या दमयन्त्या तत्परिरम्भणम् ॥ 4 ॥

बृहदश्व उवाच ।
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः ।
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥
दमयन्ती ततो भूयः प्रेषयामास केशिनीम् ।
मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥
परीक्षितो मे बहुशो बाहुको नलशङ्कया ।
रूपे मे संशयस्त्वेकः स्वयमिच्छमि वेदितुम् ॥
स वा प्रवेश्यतां मातर्मां वाऽनुज्ञातुमर्हसि ।
विदितं वाऽथवाऽज्ञातं पितुर्मे संविधीयताम् ॥
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् ।
दुहितुस्तमभिप्रायमन्वजानात्स पार्थिवः ॥
सा चै पित्राऽभ्यनुज्ञाता मात्रा च भरतर्षभ ।
`तयोर्नियोगात्कौरव्य केशिनीमिदमब्रवीत्' ॥
गच्छ केशिनि शीघ्रं त्वंबाहुकं पितृशासनात् ।
आनयस्व यथा माता त्वं तथा कुरु मे प्रियम् ॥
गत्वा तु केशिनी शिघ्रं बाहुकं वाक्यमब्रवीत् ।
भीमस्य शासनात्सूतागताहं विद्धि बाहुक ॥
प्रविश्यतां राजवेश्म इत्युक्तो भरतर्षभ । बाहुकस्तु चिरं ध्यात्वा केशिन्या सह भारत ।
प्रविवेश महाबाहुर्दमयन्तीनिवेशनम्' ॥
नलं प्रवेशयामास यत्रतस्याः प्रतिश्रयः ॥
तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः ।
आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः ॥
तं तु दृष्ट्वातथायुक्तं दमयन्ती नलं तदा ।
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥
ततः काषायवसना जटिला मलपङ्किनी ।
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ॥
पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक ।
सुप्तामुत्सृज्यविपिने गतो यः पुरुषः स्त्रियम् ॥
अनागसं प्रियां भार्यां विजने श्रममोहिताम् ।
अपहाय तु को गच्चेत्पुण्यश्लोकमृतेनलम् ॥
किमु तस्य मया बाल्यादपराद्धं महीपतेः ।
यो मामुत्सृज्य विपिने गतवान्निद्रयाऽर्दिताम् ॥
साक्षाद्देवानपाहाय वृतो यः स पुरा मया ।
अनुव्रतामभिमतां पुत्रिणीं त्यक्तवान्कथम् ॥
अग्नौ पाणिगृहीता च हंसानां वचने स्थिताम् ।
भरिष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद्गतम् ॥
बृहदश्व उवाच ।
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिदम ।
शोकजं वारिनेत्राभ्यामसुखं प्रास्रवद्बहु ॥
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलंतु तत् ।
परिस्रवन्नलो राजा शोकार्तइदमब्रवीत् ॥
`नलोऽहं विपुलश्रोणि त्वामुत्सृज्य यतो गतः । आविष्टः कलिना भद्रे तेन मोहवशं गतः ॥'
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् ।
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥
यत्त्वया धर्मकृच्छ्रे तु शापेनाभिहतः पुरा ।
वनस्थया दुःखितया शोचन्त्या मांदिवानिशम् ॥
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः ।
त्वच्छापदग्धः सततं सोऽग्नावग्निरिवाहितः ॥
मम च व्यवसायेन तपसा चैव निर्जितः ।
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥
विमुच्य मां गतः पापस्ततोऽहमिह चागतः ।
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ॥
कथं नु नारी भर्तारमनुरक्तमनुव्रतम् ।
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् ।
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः ।
श्रुत्वैव चैवं त्वरितो भागस्वरिरुपस्थितः ॥
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् ।
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥
न मामर्हसि कल्याण पापेन परिशङ्कितुम् ।
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः ।
वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव ।
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥
तेन वाक्ये कृतेसम्यक्प्रतिवाक्ये तथा हृते ।
उपायोऽयंमया दृष्टो नैषधानयने तव ॥
त्वामृते नहि लोकेऽन्य एकाह्ना पृथिवीपते ।
समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥
`तथापि मां महीपाल भजेतां चरणौ तव ।' स्पृशेयं तेन सत्येन पादावेतौ महीपते ।
यथा नासत्कृतं किंचिन्मनसाऽपि चराम्यहम् ॥
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः ।
एष मे मुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥
यथा चरति तिग्मांशुः परितो भुवनं सदा ।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ॥
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् ।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ॥
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै ।
विब्रुवन्तु यथा सत्यमेतद्देवास्त्यजन्तु माम् ॥
एवमुक्ते ततो वायुरन्तरिक्षादभाषत ।
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः ।
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥
उपायो विहितश्चायं त्वदर्थमतुलोऽनया ।
न ह्येकाह्ना शतं गन्ता त्वामृतेऽन्यः पुमानिह ॥
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते ।
नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया ॥
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥
तदद्भुतमयं दृष्ट्वा नलो राजाऽथ भारत ।
दमयन्त्यां विशङ्कां तामुपाकर्षदरिंदमः ॥
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः ।
संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः ॥
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा ।
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥
भैमीमपि नलो राजा भ्राजमानो यथा पुरा ।
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥
ततः स्वोरसि विन्यस्य वक्रं तस्य शुभानना ।
परीता तेन दुःखेन निशश्वासायतेक्षणा ॥
तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम् ।
सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः ॥
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च ।
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥
ततोऽब्रवीन्महाराजः कृतशौचमहंनलम् ।
दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम् ॥
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् ।
वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥
गृहे भीमस्य नृपतेः परस्परसुखैषिणौ ।
वसेतां हृष्टसंकल्पौ वैदर्भी च नलश् ह ॥
स चतुर्थे ततो वर्षे संगम्य सह भार्यया ।
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥
दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम् ।
अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा ॥
सैवं समेत्य व्यपनीय तन्द्रां शान्तज्वरा हर्षविवृद्धसत्त्वा ।
रराज भैमी समवाप्तकामा शीतांशुना रात्रिरिवोदितेन ॥

॥ इतिश्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

3-74-10 प्रतिश्रयः गृहम् ॥ 3-74-16 किंनु तस्य मया चीर्णमपराधमिति ध. पाटः ॥ 3-74-18 अग्नौ पाणि गृहीत्वातु देवानामप्रतस्तथेति झ. पाठः ॥ 3-74-33 त्वां दृष्टवान्कोसलेष्वति ध. पाठः ॥ 3-74-37 सदागतिर्वायुः ॥ 3-74-39 चन्द्रमाश्चित्ताभिमानिनी देवता ॥ 3-74-53 कल्ये प्रभाते । कृतार्थं तमहं नलमिति क. ध. पाठः ॥