अध्यायः 077

पुष्करं निष्कासितवता नलेन कुण्डिनपुरात्सपुत्राया दमयन्त्या आनयनपूर्वकं प्रजापालनेन सुखवासः ॥ 1 ॥ बृहदश्वेन द्युधिष्ठिरायाक्षहृदयविद्योपदेशपूर्वकं संक्षेपेण हरिश्चन्द्रोपाख्यानकथनम् ॥ 2 ॥

बृहदश्व उवाच ।
प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे ।
महत्या सेनया राजा दमयन्तीमुपानयत् ॥
`पुण्यश्लोकं तु राज्यस्थं श्रुत्वा भीमो महीपतिः ।
मुदा परमया युक्तो बभूव भरतर्षभ ॥
अथ हृष्टमना राजा महत्या सेनया सह ।
सुतां प्रस्थापयामास पुण्यश्लोकाय धीमते' ॥
दमयन्तीमपि पिता सत्कृत्यपरवीरहा ।
प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः ॥
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः ।
वर्तयामास मुदितो दोवराडिव नन्दने ॥
तथा प्रकाशतां यातो जम्बूद्वीपे स राजसु ।
पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ॥
ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः ।
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसे चिरात् ॥
दुःखमेतादृशंप्राप्तो नलः परपुरंजयः ।
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ॥
एकाकिनैव सुमहन्नलेन पृथिवीपते ।
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ॥
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव ।
कथाश्चापि समाकर्ण्य धर्ममेवानुचिन्तयन् ॥
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ॥
कर्कोटकस्य नागस् दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥
इतिहासमिमं चापि कलिनाशनमच्युत ।
शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशांपते ॥
अस्थिरत्वं च संचिन्त्य पुरुषार्थस् नित्यदा ।
तस्योदये व्यये चापि न चिन्तयितुमर्हसि ॥
श्रुत्वेतिहासं नृषते समाश्वसिहि मा शुचः ।
व्यसने त्वं महाराज न विषीदितुमर्हसि ॥
विषमावस्थिते दैवे पौरुषेऽफलतां गते ।
विषादयन्ति नात्मानं सत्त्वापाश्रयिणो नराः ॥
ये चेदं कथयिष्यन्ति नलस् चरितं महत् ।
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ॥
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ।
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् ॥
पुत्रान्पौत्रान्पशूंश्चापि लभते नृषु चाग्र्यताम् ।
आरोग्यप्रीतिमांश्चैव भविष्ति न संशयः ॥
भयात्रस्यसि यच्च त्वमाह्वयिष्यति मां पुनः ।
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ॥
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम ।
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ॥
वैशंपायन उवाच ।
ततो हृष्टमना राजा बृहदश्वमुवाच ह ।
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ॥
`कौन्तेयेनैवमुक्तस्तु बृहदश्वो महामुनिः' । ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने ।
`लब्ध्वा च पाण्डवो राजा विशोकः समपद्यत ॥
बृहदश्व उवाच ।
पुनरेव तु वक्ष्यामि यस्त्वत्तो दुःखितो नृपः ।
तं शृणुष्व महाराज सर्वदुःखापनुत्तये ॥
इक्ष्वाकूणां कुले जातो महात्मा पृथिवीपतिः ।
त्रिशङ्कुरिति विख्यातोराजराजो महाद्युतिः ॥
हरिश्चन्द्रस्ततो जज्ञे गुणरत्नाकरो नृपात् ।
ततो विशेषैर्विविधैर्यज्ञैर्विपुलदक्षिणैः ॥
स तु लोके वरः पुंसां पुण्यश्लोको महायशाः ।
सत्यवादी मधुरवाक्सत्येन बहुभाषिता ॥
तस्य भार्याऽभवद्भूमौ सौशील्यसमलंकृता ।
उशीनरस्य राजर्षेर्दुहिता पुण्यलक्षणा ॥
स्वयंवरे महाभागं वरयामास भामिनी ।
हरिश्चन्द्रं समेतानां राज्ञां मद्ये पतिं विभुम् ॥
तया सह महीपालः सत्यवत्या मनोज्ञया ।
रेमे च सुचिरं कालं राजा राज्यमवाप्य च ॥
तस्यां देव्यां हरिश्चन्द्राज्जज्ञे राजीवलोचनः ।
पुत्रः पुण्यवतां श्रेष्ठो लोहिताश्व इति श्रुतः ॥
देव्या पुत्रेण सहितः पुण्यश्लोको महायशाः ।
वसिष्ठयाज्यो नृपतिरीजे शुण्यैर्महाध्वरैः ॥
एतस्मिन्नेव काले तु विश्वामित्रो दिवं गतः ।
पुरुहूतपुरीं रम्यामाजगामेन्द्रसेवया ॥
उपस्थाने च संवृत्ते देवेन्द्रस्य महात्मनः ।
आजगाम वसिष्ठोऽपि वामदेवसहायवान् ॥
उपस्थाने च संवृत्ते सुखासीने पुरंदरे ।
वर्ण्यमानेषु च तदा सत्यवादिषु राजसु ॥
तस्यां संसदिसर्वस्माद्धरिश्चन्द्रोऽपि पप्रथे ।
यज्ञदानतपःशीलसत्यवाक्यदृझव्रतैः ॥
वसिष्ठः परमप्रीतः स्वयाज्यपरिकीर्तनात् ।
तथापि विश्वामित्रस्तं न सेहे सत्यभूषितम् ॥
हरिश्चन्द्रं प्रति तदा विश्वामित्रवसिष्ठयोः ।
पणः कृतस्तदा पश्चाद्विश्वामित्रेण पार्थिवः ॥
राज्याच्चापि सुखाच्चापि सहसा चावरोपितः ।
अवाप परमं दुःखं मरणादमनोहरम् ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा परमप्रीतो धर्मराजो युधिष्ठिरः । भ्रातृभिर्ब्राह्मणैश्चैव द्रौपद्या च समन्वितः ।
विस्मयं परमं गत्वा साधुसाध्वित्यभाषत ॥
ततो हरिश्चन्द्रकथां च सर्वे श्रुत्वा तु राजा मनुजेन्द्रकेतुः ।
विहाय शोकं विजहार भूयः स्मरन्हरिश्चन्द्रमनन्तकीर्तिम् ॥
कथामेवं तथा कृत्वा हरिश्चन्द्रनलाश्रयाम् । आमन्त्र्य पाण्डवान्सर्वान्बृहदश्वो जगाम ह' ।
उक्त्वा चाशु सरोऽगच्छदुपस्प्रष्टुं महातपाः ॥
बृहदश्व गते पार्थमश्रौषीत्सव्यसाचिनम् ।
वर्तमनं तपस्युग्रे वायुभक्षं मनीषिणम् ॥
ब्राह्मणएभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः ।
तीर्थशैलवनेभ्यश्च समेतेभ्यो दृढव्रतः ॥
इतिपार्थो महाबाहुर्दुरापं तप आस्थितः ।
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ॥
यथा धनंजयः पार्थस्तपस्वी नियतव्रतः ।
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ॥
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने ।
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ॥
दह्यमानेन तु हृदा शरणार्थी महावने ।
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ॥
`प्रतिगृह्याक्षहृदयं कुन्तीपुत्रो युधिष्ठिरः ।
आसीद्धृष्टमना राजन्भीमसेनादिभिर्युतः ॥
स्वभ्रातॄन्सहितान्पश्यन्कुन्तीपुत्रो युधिष्ठिरः ।
अपश्यन्नर्जुनं तत्रबभूवाश्रुपरिप्लुतः ॥
संतप्यमानः कौन्तेयो भीमसेनमुवाच ह ।
कदा द्रक्ष्यामि वै भीम पार्तमत्र तवानुजम् ॥
मत्कृते हि कुरुश्रेष्ठ तष्यते परमं तपः ।
तस्याक्षहृदयज्ञानमाख्यास्यामि कदा न्बहम् ॥
स हि श्रुत्वाऽक्षहृदयं समुपात्तं मया विभो । प्रहृष्टः पुरुषव्याघ्रो भविष्यति न संशयः' ॥

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

3-77-1 प्रशान्ते वीतशोके । प्रशान्ते पुष्करे हृष्टे इति क. पाठः ॥ 3-77-7 वक्ष्यसे दीव्यसे । वशकान्तावित्यस्य रूपम् । समहच्यक्ष्यसे ह्यघमिति क. पाठः ॥ 3-77-21 वेद वेद्मि । उपपद्यस्व गृहाण ॥