अध्यायः 079

युधिष्ठिरेण काम्यकवनमुपागतं नारदंप्रति भूप्रादक्षिण्येन तीर्थयात्राफलप्रश्नः ॥ 1 ॥ नारदेन तत्कथनाय पुलस्त्यभीष्मसंवादानुवादारम्भः ॥ 2 ॥

वैशंपायन उवाच ।
`धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः ।
न्यवसन्त महाभागा द्रौपद्या सह कृष्णया' ॥
धनं जयोत्सुकानां तु भ्रातॄणां कृष्णया सह ।
श्रुत्वा वाक्यानि विमना धर्मराजोप्यजायत ॥
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् ।
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥
तमागतमभिप्रेक्ष्य भ्रातृभिः सह धर्मराट् ।
प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने ॥
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः ।
विबभावतिदीप्तौजा देवैरिव शतक्रतुः ॥
यथा च वेदान्सावित्री याज्ञसेनी तथा पतीन् ।
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥
`अर्ध्यं पाद्यमथानीय त्वभ्यवायदच्युतः ।
नारदस्तु महातेजाः स्वस्त्यस्त्वित्यभ्यभाषत ॥
ततो युधिष्ठिरो राजा दृष्ट्वा देवर्षिसत्तमम् ।
यथार्हं पूजयामास विधिवत्कुरुनन्दनः' ॥
प्रतिगृह्य च तां पूजां नारदो भगवानृषिः ।
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ॥
उवाच च महात्मानं धर्मराजं युधिष्ठिरम् ।
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददानि ते ॥
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह ।
उवाच प्राञ्जलिर्भूत्वा नारदं देवसंमितम् ॥
न्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते ।
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ॥
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।
संदेहं मे सुनिश्रेष्ठ तत्वतश्छेत्तुमर्हसि ॥
प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः ।
किं फलं तस्य कार्त्स्न्येन तद्भवान्वक्तुमर्हति ॥
नारद उवाच ।
शृणु राजन्नवहितो यथा भीष्मेण धीमता ।
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥
पुरा भागीरथीतीरे भीष्मो धर्मभृतांवरः ।
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिभिः सह ॥
शुभे देशे तथा राजन्पुण्ये देवर्षिसेविते ।
गङ्गाद्वारे महाभाग देवगन्धर्वसेविते ॥
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः ।
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥
कस्य चित्त्वथ कालस्य जपन्नेव महायशाः ।
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम् ॥
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया ।
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ॥
उपस्थितं महाभागं पूजयामास भारत ।
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥
शिरसा चाघमादाय शुचिः प्रयतमानसः ।
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत ।
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्वपैः ॥
रएवमुक्त्वा महाराज भीष्मो धर्मभृतांवरः ।
वाग्यतः प्राञ्जलिर्भूत्वातूष्णीमासीद्युधिष्ठिर ॥
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् ।
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाऽभवत् ॥
`ततः स मधुरेणाथ स्वरेण सुमहातपाः । उवाच वाक्यं धर्मज्ञः पुलस्त्यः प्रीतमानसः' ॥

इति श्रीमन्माहाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनाशीतितमोऽध्यायः ॥ 79 ॥