अध्यायः 080

पलस्त्येन भीष्म्प्रतिपुष्करादितीर्थमहिमानुवर्णनम् ॥ 1 ॥

पुलस्त्य उवाच ।
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च ।
सत्येन च महाभाग तुष्टोस्मि तव सुव्रत ॥
यस्येदृशस्ते धर्मोऽयं पितृवाक्याश्रितोऽनघ ।
तेन पश्यसि मां पुत्र प्रीतिश्च परमा त्वयि ॥
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते ।
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दाताऽस्मि तेऽनघ ॥
भीष्म उवाच ।
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते ।
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥
यदि त्वहमनुग्राह्यस्तव धर्मभृतांवर ।
संदेहं ते प्रवक्ष्यामि तन्मे त्वं छेत्तुमर्हसि ॥
अस्ति मे भगवन्कश्चित्तीर्थानि प्रति संशयः ।
तमहं श्रोतुमिच्छामि तद्भवान्वक्तुमर्हति ॥
प्रदक्षिणां यः पृथिवीं करोत्यमरसन्निभ ।
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तषोधन ॥
पुलस्त्य उवाच ।
हन्त तेऽहंप्रवक्ष्यामि यदृषीणां परायणम् ।
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥
प्रतिग्रहादपावृत्तः संतुष्टो येन केनचित् ।
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥
अकल्कको निरारम्भो लध्वाहारो जितेन्द्रियः ।
विमुक्तः सर्वपापेभ्यः स तीर्थफलमश्नुते ॥
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्धफलमश्नुते ॥
ऋषिभिः क्रतवः प्रोक्ता देवेष्विह यथाक्रमम् ।
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।
बहूपकरणा यज्ञा नानासंभारविस्तराः ॥
प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वा नरैः क्वचित् ।
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर ।
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधांवर ॥
ऋषीणां परमं गुह्यमिदं भरतसत्तम ।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥
अनपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥
सर्वतीर्थेषु राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।
पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥
दशकोटिसहस्राणि तीर्थानां वै महामते ।
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ॥
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः ।
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभो ॥
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा । `तपोविशेषैर्बहुभिः स्थानान्यापुर्महौजसः' ।
दिव्ययोगा महाराज पुण्येन महताऽन्विताः ॥
मनसाभ्येतुकामस्य पुष्कराणि मनस्विनः ।
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥
तस्मिंस्तीर्थे महाभागो नित्यमेव पितामहः ।
उवास परमप्रीतो देवदानवसत्तमः ॥
पुष्करेषु महाभाग देवाः सर्पिगणाः पुरा ।
सिद्धिं समभिसंप्राप्ताः पुण्येन महताऽन्विताः ॥
तत्राभिषेकं यः कुर्यात्पितृदेवांश्च तर्पयेत् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके च पूज्यते ॥
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ।
तेनासौ कर्मणा भीष्म प्रेत् यचेह च मोदते ॥
शाकैर्मूलैः फलैर्वाऽपिचेन वर्तयते स्वयम् । तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ।
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥
`अपि वाऽप्युदपात्रेण ब्राह्मणान्स्वस्ति वाचयेत् ।
तेनापि पूजनेनाशु प्रेत्यानन्त्याय कल्पते' ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा राजसत्तम ।
न वै योनौ प्रजायन्ते स्नातास्तीर्थे महात्मनः ॥
कार्तिक्यां तु विशेषेण योऽभिगच्छति पुष्करम् ।
`फलं तत्राक्षयं तेन लभते भरतर्षभ' ॥
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः । उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ।
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥
जन्मप्रभृतियत्पापं स्त्रिया वा पुरुषस् वा ।
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः ।
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥
उष्य द्वादशवर्षाणि पुष्करे नियतः शुचिः ।
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति ॥
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ।
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥
[त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च । पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम् ॥]
दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः ।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥
उष्य द्वादशरात्रं तु नियतो नियताशनः ।
प्रदक्षिणमुपावृत्य जम्बूमार्गं समाविशेत् ॥
जम्बूमार्गं समाक्श्यि देवर्षिपितृसेवितम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥
तत्रोष्य रजनीः पञ्च कषष्ठकालक्षमी नरः ।
न दुर्गतिमवाप्नोति विष्णुलोकं च गच्छति ॥
`तत्रगत्वा महाप्राज्ञः कुर्याच्छ्राद्धं दृढव्रतः ।
वाजपेयमवाप्नोति दुष्कृतं चास्य नश्यति' ॥
जम्बूमार्गादुपावृकत्यगच्छेत्स्थण्डिलकाश्रमम् ।
न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति ॥
आगस्त्यं सर आसाद्य पितृदेवार्चने रतः ।
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥
शाकवृत्तिः फलैर्वाऽपि कौमारं विन्दते पदम् ।
कण्वाश्रमं ततो गच्छेच्ध्रीजुष्टं लोकपूजितम् ॥
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ ।
यत्र प्रविष्टमात्रो वै सर्वपापैः प्रमुच्यते ॥
अर्चयुत्वा पितॄन्देवान्नियतो नियताशनः ।
सर्वकामसमृद्धः स्याद्यज्ञस्य फलमश्नुते ॥
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् ।
हयमेधस्य यज्ञस्य फंल प्राप्नोति तत्र वै ॥
महाकालं ततो गच्छेन्नियतो नियताशनः ।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥
ततो गच्छेत धर्मज्ञः स्थाणोस्तीर्थमुमापतेः ।
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ।
महादेवप्रसादाच्च गाणपत्यं च विन्दति ॥
समृद्धमसपत्नं च श्रिया युक्तं नरोत्तमः । `राज्ञां चैवाधिपत्यं हि तत्र गत्वा समाप्नुयात् ॥'
नर्मदां स समासाद्य नदीं त्रैलोक्यविश्रुताम् ।
तर्पयित्वा पितृन्देवानग्निष्टोमफलं लभेत् ॥
दक्षिमं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः ।
अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥
चर्मण्वतीं समासाद्य नियतो नियताशनः ।
रन्तिदेवाभ्यनुज्ञातमग्निष्टोमफलं लभेत् ॥
ततो गच्छेत धर्मज्ञं हिमवत्सुतमर्बुदम् ।
पृथिव्यां यत्रवै छिद्रं पूर्वमासीद्युधिष्ठिर ॥
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥
पिङ्गतीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः ।
कपिलानां नरश्रेष्ठ शतस् फलमश्नुते ॥
ततो गच्छेत राजेन्द्र प्रभासं लोकविश्रुतम् ।
`तीर्थं देवगणैः पूज्यमृषिभिश्च निषेवितम्' ॥
देवतानां मुखं वीर ज्वलनोऽनिलसारथिः ।
देवतानां मुखं वीर ज्वलनोऽनिलसारथिः ॥
तस्मिंस्तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥
ततो गत्वा सरस्वत्याः सागरस्य च संगमे । गोसहस्रफलं तस्य स्वर्गलोकं च विन्दति ।
प्रभया दीप्यते नित्यमग्निवद्भरतर्षभ ॥
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम । विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ।
प्रभासते यथा सोमः सोश्वमेधं च विन्दति ॥
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम । विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ।
वरदाने नरः स्नात्वा गोसहस्रफंल लभेत् ॥
ततो द्वारवतीं गच्छेन्नियतो नियताशनः ।
पिण्डारके नरः स्नात्वा लभेद्बहुसुवर्णकम् ॥
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः ।
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम ॥
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन ।
महादेवस्य सांनिध्यं तत्र वै पुरुषर्षभ ॥
सागरस्य च सिन्धोश्च संगमं प्राप्य दुर्लभम् ।
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ ।
प्राप्नोति वारुणं लोकं दीप्यमानं स्वतेजसा ॥
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर ।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥
शमीति नाम्ना विख्यातं सर्वपापप्रणाशनम् ।
तत्रब्रह्मादयो देवा उपासन्ते महेश्वरम् ॥
तत्रस्नात्वाऽर्चयित्वा च रुद्रं देवगणैर्वृतम् ।
जन्मप्रभृतियत्पापं तत्स्नातस्य प्रणश्यति ॥
शमी चात्रनरश्रेष्ठ सर्वदेवैरभिष्टुता ।
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥
गत्वा यत्रमहाप्राज्ञ विष्णुना प्रभविष्णुना ।
पुरा शौचं कृतंराजन्हत्वा दैवतकण्टकान् ॥
ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् ।
गमनादेवतस्यां हि हयमेधफलं लभेत् ॥
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा समाहितः ।
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥
तीर्थे चात्र सर पुण्यं वसूनां भरतर्षभ ।
तत्र स्नात्वा च पीत्वा च वसूनां संमतोभवेत् ॥
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् ।
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् ॥
ब्रह्मतीर्थं समासाद्य शुचिः शीलसमन्वितः ।
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत् ॥
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा नरः क्षिप्रं स्वर्गलोकमवाप्नुयात् ॥
रेणुकायाश्च तत्रैव तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा भवेद्विप्रो निर्मलश्चन्द्रमा यथा ॥
अथ पञ्चनदं गत्वा नियतो नियताशनः ।
पञ्चयज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥
ततो गच्छेत राजेन्द्र भीमायाः स्थानमुत्तमम् ।
तत्रस्नात्वा न योन्यां वै भवेद्भरतसत्तम ॥
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलभूषणः ।
गवां शतसहस्रस्य फलं प्राप्नोति मानवः ॥
गिरिकुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् ।
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् ।
अद्यापि यत्रदृश्यन्ते मत्स्याः सौवर्णराजताः ॥
तत्र स्नात्वा नरः क्षिप्रं वासवं लोकमाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥
वितस्तां च समासाद्य संतर्प्य पितृदेवताः ।
नरः फलमवाप्नोति वाजपेयस्य भारत ॥
काश्मीरष्वेव नागस्य भवनं तक्षकस्य च ।
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् ॥
तत्रस्नात्वा नरो नूनं वाजपेयमवाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् ।
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ॥
चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् ।
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥
ऋषयः पितरो देवा गन्धर्वाप्सरसां गणाः ।
गुह्यकाः किन्नरा यक्षाः सिद्धा विद्याधरा नराः ॥
राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप ।
नियतः परमां दीक्षामास्थायाब्दसहस्रिकीम् ॥
विष्णोः प्रसादनं कुर्वंश्चरुं च श्रपयंस्तथा ।
सप्तभिः सप्तभिश्चैव ऋग्भिस्तुष्टाव केशवम् ॥
ददावष्टगुणैश्वर्यं तेषां तुष्टस्तु केशवः ।
यथाभिलषितानन्यान्कामान्दत्वा महीपते ॥
तत्रैवान्तर्दधे देवो विद्युदभ्रेषु वै यथा ।
नाम्ना सप्तचरुं तेन ख्यातं लोकेषु भारत ॥
गवां शतसहस्रेण राजसूयशतेन च ।
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषे चरुः ॥
ततो निवृत्तो राजेन्द्र रुद्रं पदमथाविशेत् । अर्चयित्वामहादेवमश्वमेधफलं लभेत् ।
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः ।
एकरात्रोपितो राजन्नग्निष्टोमफलं लभेत् ॥
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुतम् ।
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥
त्रिशूलपाणएः स्थानं च त्रिषु लोकेषु विश्रुतम् ।
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ ।
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥
कामाख्यं तत्र रुद्रस्य तीर्थं देवनिषेवितम् ।
तत्रस्नात्वा नरः क्षिप्रं सिद्धिं प्राप्नोति भारत ॥
यजनं याजनं चैवतथैव ब्रह्मबालुकम् ।
पुष्पाम्भश्च उपस्पृश्य न शोचेन्मरणं गतः ॥
अर्धयोजनविस्तारां पञ्चयोजनमायताम् ।
एतां हि देविकामाहुः पुण्यां देवर्षिसेविताम् ॥
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् । तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षपः ।
दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः ॥
गमनादेव राजेन्द्र दीर्घसत्रमरिंदम ।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत ॥
ततो विनशनं गच्छेन्नियतो नियताशनः ।
गच्छत्यन्तर्हिता यत्रमेरुपृष्ठे सरस्वती ॥
चमसेऽथ शिवोद्भेदे नागोद्भेदे च दृश्यते । `तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्वदा ।'
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत् ॥
शिवोद्भेदे नरः स्नात्वा गोसहस्रफंल लभेत् ।
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् ॥
शशयानं च राजेन्द्रतीर्थमासाद्य दुर्लभम् ।
शतरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥
सरस्वत्यां महाराज शतं संवत्सरं च ते ।
दृश्यन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा ॥
तत्रस्नात्वा नरव्याघ्र द्योतते शशिवत्सदा ।
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥
कुमारकोटीमासाद्य नियतः कुरुनन्दन ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥
गवामयुतमाप्नोति कुलं चैव समुद्धरेत् ।
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः ॥
पुरा यत्र महाराज मुनिकोटिः समागता ।
हर्षेण महताऽऽविष्टा रुद्रदर्शनकाङ्क्षया ॥
अहंपूर्वमहंपूर्वं द्रक्ष्यामि वृषभध्वजम् ।
एवं संप्रस्थिता राजन्नृषयः किल भारत ॥
ततो योगीश्वरेणापि योगमास्थाय भूपते ।
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥
स्रष्टा कोटीस्तु रुद्राणामृषीणामग्रतः स्थिता ।
मया पूर्वतरं दृष्ट इतिते मेनिरे पृथक् ॥
तेषां तुष्टो महादेवो मुनीनां भावितात्मनाम् ।
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ॥
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ।
तत्रस्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ॥
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।
ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् ॥
सरस्वत्या महापुण्यं केशवं समुपासते ।
यत्रब्रह्माहयो देवा ऋषयश्च तपोधनाः ॥
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् । तत्रस्नात्वा नरव्याघ्र विन्देद्बहुसुवर्णकम् ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप । तत्रावसानमासाद्य गोसहस्रफलं लभेत् ।

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अशीतितमोऽध्यायः ॥ 80 ॥

3-80-10 अपावृत्तो निवृत्तः । संतुष्टो नियतः शुचिरिति क. ध. पाठः ॥ 3-80-11 अकल्ककः दम्भादिहीनः ॥ 3-80-20 नृलोके देवदेवस्य तीर्थमिति झ. पाठः ॥ 3-80-27 पितृदेवार्चने रतः इति झ. पाठः ॥ 3-80-35 उपस्पृष्टं स्नातं भवेत् ॥ 3-80-33 उष्य वासं कृत्वा ॥ 3-80-36 पुण्यं स्थानमुमापतेरिति ध. पाठः ॥ 3-80-51 पिकतीर्थमिति ध. पाठः ॥ 3-80-59 तस्मिंस्तीर्थे नरः स्नात्वा पुण्यलक्षणलक्षितः इति ध. पाठः ॥ 3-80-67 दमीतीति प्रमीतीति क्रमेण क. ध. पाठः ॥ 3-80-73 भद्रतुङ्गं समासाद्येति झ. पाठः । अवाप्नोति सुकृती विरजानर इति ध. पाठः ॥ 3-80-81 श्रीकुण्डं तुं समासाद्येति झ. पाठः ॥ 3-80-93 ततो गच्छेत बडबामिति झ. पाठः ॥ 3-80-101 भद्रपादमुपविशेदिति ध. पाठः ॥ 3-80-107 पुष्पजायामुपस्पृश्येति ध. पाठः ॥ 3-80-109 दक्षिणाभिर्यतव्रता इति क. ध. पाठः ॥ 3-80-112 चमसे चमसोद्भेदे इति ध. पाठः ॥ 3-80-114 शतह्रदं च राजेन्द्रेति क. ध.पाठः ॥ 3-80-118 गवां मेधमवाप्नोतीति क. ध. पाठः ॥