अध्यायः 083

नारदेन युधिष्ठिरंप्रति भीष्माय पुलस्त्योदिततीर्थमहिमानुवादपूर्वकमिष्टदेशगमनम् ॥ 1 ॥

पुलस्त्य उवाच ।
अथ सन्ध्यां समासाद्य संवेद्ये तीर्थ उत्तमे ।
उपस्पृश्य नरो विद्यां लभते नात्र संशयः ॥
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा ।
तल्लौहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ॥
करतोयां समासाद्य त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः ॥
गङ्गायास्तत्र राजेन्द्र सागरस्य च सङ्गमे ।
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥
गङ्गायास्त्वपरं पारं प्राप्य यः स्नाति मानवः ।
त्रिरात्रमुषितो राजन्सर्वान्कामानवाप्नुयात् ॥
ततो वैतरणीं गत्वा सर्वपापप्रमोचनीम् ।
विरजातीर्थमासाद्य विराजति यथा शशी ॥
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति ।
गोसहस्रफंल लब्ध्वा रपुनाति स्वकुलं नरः ॥
शोणस्य ज्योतिरथ्यायाः संगमे नियतः शुचिः ।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥
शोणस्य नर्मदायाश् प्रभेदे कुरुनन्दन ।
वंशगुल्म उपस्पृश्य वाचजिमेधफलं लभेत् ॥
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः ।
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥
कोसलां तु समासाद्य कालतीर्थमुपस्पृशेत् ।
वृषभैकादशफलं लभते नात्र संशयः ॥
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः ।
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नृप ॥
ततो बदरिकातीर्थे स्नात्वा भरतसत्तम ।
दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ॥
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः ।
दण्डाख्यमभिगम्यैव गोसहस्रफलं लभेत् ॥
लपेटिकां ततो गच्छेत्पुण्यां पुण्योपशोभिताम् ।
वाजपेयमवाप्नोति देवैः सर्वैश्च पूज्यते ॥
ततो महेन्द्रमासाद्य जामदग्न्यनिपेवितम् ।
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन ।
तत्र स्नात्वा कुरुश्रेष्ठ गोसहस्रफलं लभेत् ॥
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत् ।
रअश्वमेधमवाप्नोति पूजयित्वा वृषध्वजम् ॥
श्रीपर्वते महादेवो देव्या सह महाद्युतिः ।
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैः सह ॥
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥
ऋषभं पर्वतं गत्वा पाण्ड्येषु नृपपूजितम् ।
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः ।
तत्रस्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥
ततस्तीरे समुद्रस्य कन्यातीर्थमुपस्पृशेत् ।
तत्तोयं स्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् ।
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥
रयत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
भूतयक्षपिशाचाश्च किन्नराः समहोरगाः ॥
सिद्धचारणगन्धर्वमानुषाः पन्नगास्तथा ।
सरितः सागराः शैला उपासन्त उमापतिम् ॥
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥
उष्य द्वादशरात्रं तु पूतात्मा च भवेन्नरः ॥
तत एव च गायत्र्याः स्थानं त्रैलोक्यपूजितम् । त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ।
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप ॥
गायत्रीं पठते यस्तु योनिसंकरजस्तथा ।
गाथा च गाथिका चापि तस्य संपद्यते नृप ॥
अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति ॥
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् ।
रूपस्य भागी भवति सुभगश्च प्रजायते ॥
ततो वेणां समासाद्य त्रिरात्रोपोषितो नरः ।
मयूरहंससंयुक्तं विमानं लभते नरः ॥
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् ।
गवां मेधमवाप्नोति वासुकेर्लोकमुत्तमम् ॥
वेणायाः संगमे स्नात्वा वाजिमेधफलं लभेत् ।
वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् ॥
ब्रह्मस्थानं समासाद्य त्रिरात्रोपोषितो नरः ।
गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति ॥
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः ।
त्रिरात्रमुषितः स्नात्वा अश्वमेधफंल लभेत् ॥
ततो देवह्रदेऽरण्ये कृष्णवेणाजलोद्भवे । जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरो नरः ।
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ॥
अग्निष्टोमफलं विन्द्याद्गमनादेव भारत ।
ततः सर्वह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥
ततो वापीं महापुण्यां पयोष्णीं सरितां वराम् ।
पितृदेवार्चनरतो गोसहस्रफलं लभेत् ॥
दण्डकारण्यमासाद्य पुण्यं राजन्नुपस्पृशेत् ।
गोसहस्रफलं तस्य स्नातमात्रस्य भारत ॥
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः ।
न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ॥
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् ।
रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ॥
सप्तगोदावरे स्नात्वा नियतो नियताशनः ।
महत्पुण्यमवाप्नोति देवलोकं च गच्छति ॥
ततो देवपथं गत्वा नियतो नियताशनः ।
देवसत्रस्य यत्पुण्यं तदेवाप्नोति मानवः ॥
तुङ्गकारण्यमासाद्य ब्र्हमचारी जितेन्द्रियः ।
वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ॥
तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः ।
ऋषीणआमुत्तरीयेषु सूपविष्टो यथासुखम् ॥
ओंकारेण यथान्यायं सम्यगुच्चारितेन ह ।
येन यत्पूर्वमभ्यस्तं तत्सर्वं समुपस्थितम् ॥
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः ।
हरिर्नारायणस्तत्र महादेवस्तथैव च ॥
पितामहश्च भगवान्देवैः सह महाद्युतिः ।
भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥
ततः स चक्रे भगवानृषीणां विधिवत्तदा ।
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ॥
आज्यभागेन तत्राग्नीं तर्पयित्वा यथाविधि ।
देवाः स्वभवनं याता ऋषयश्च यथाक्रमम् ॥
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम ।
पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्य वा ॥
तत्रमासं वसेद्धीरो नियतो नियताशनः ।
ब्रह्मलोकं व्रजेद्राजन्कुलं चैव समुद्धरेत् ॥
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् ।
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥
अत्र कालञ्चरं गत्वा पर्वतं लोकविश्रुतम् ।
तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥
आत्मानं स्नापयेत्तत्रगिरौ कालञ्जरे नृप ।
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ॥
ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते ।
मन्दाकिनीं समासाद्य सर्वपापप्रणाशिनीम् ॥
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ।
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ॥
ततो गच्छेत धर्मज्ञ भर्तृस्थानमनुत्तमम् ।
यत्र नित्यं महासेनो गुहः सन्निहितो नृप ॥
तत्र गत्वा नृपश्रेष्ठ गमनादेव सिध्यति ।
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः ।
अभिगम्य महादेवं विराजति यथा शशी ॥
तत्र कूपे महाराज विश्रुता भरतर्षभ ।
समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ॥
तत्रोपस्पृश्य राजेन्द्र पितृदेवार्चने रतः ।
नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥
ततो गच्छेत राजेन्द्र शृङ्गबेरपुरं महत् ।
यत्रतीर्णो महाराज रामो दाशरथिः पुरा ॥
रकतस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते ।
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ॥
विधूतपाप्मा भवति वाजपेयं च विन्दति ।
ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः ॥
अभिगम्य महादेवमभिवाद्य च भारत ।
प्रदक्षिणमुपावृत् यगाणपत्यमवाप्नुयात् ॥
तस्मिंस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते ।
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् ॥
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ।
लोकपालाश्च साध्याश्च पितरो लोकसंमताः ॥
सनत्कुमारप्रमुखास्तथैव परमर्षयः ।
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽमलाः ॥
तथा नागाः सुपर्णश्च सिद्धाश्चक्रचरास्तथा ।
सरितः सागराश्चैव गन्धर्वाप्सरसोऽपि च ॥
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ।
तत्र त्रीण्यग्निकुण्डानि येषां मध्येन जाह्नवी ॥
प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ॥
यमुना गङ्गया सार्धं संगता लोकपावनी ।
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् ॥
प्रयागं जघनस्थानमुपस्थमृषयो विदुः ।
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा ॥
तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः ।
तत्रवेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर ॥
प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः ।
यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः ॥
ततः पुण्यतमं नाम त्रिषु लोकेषु भारत ।
प्रयागं सर्वतीर्थेभ्यः प्रवदन्त्यधिकं विभो ॥
श्रवणात्तस्य तीर्थस् नामसंकीर्तनादपि ।
मृत्युकालभयाच्चापि नरः पापात्प्रमुच्यते ॥
तत्राभिषेकं यः कुर्यात्संगमे लोकविश्रुते ।
पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ॥
एषा यजनभूमिर्हि देवानामभिसंस्कृता ।
तत्र रदत्तं सूक्ष्ममपि महद्भवति भारत ॥
न वेदवचनात्तात न लोकवचनादपि ।
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥
दशतीर्तसहस्राणि षष्टिः कोट्यस्तथाऽपराः ।
येषां सान्निध्यमत्रैव कीर्तितं कुरुन्दन ॥
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत् ।
स्नात एव तदाप्नोति गङ्गायमुनसंगमे ॥
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् ।
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधफलं लभेत् ॥
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् ।
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥
कुरुक्षेत्रसमा गङ्गा यत्रतत्रावगाहिता ।
विशेषो वै कनखले प्रयागे परमं महत् ॥
यद्यकार्यशतं कृत्वा कृतंगङ्गावसेचनम् ।
सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम् ॥
सर्वं कृतयुगे पुण्यंत्रेतायां पुष्करं स्मृतम् ।
द्वापरेऽपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता ॥
पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये ।
मलये त्वग्निमारोहेद्भृगुतुन्दे त्वनाशनम् ॥
पुष्करे तु कुरुक्षेत्रे रगङ्गायां मगधेषु च ।
स्नात्वा तारयते जन्तुः सप्तसप्तावरांस्तथा ॥
पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति ।
अवगाढा च पीता च पुनात्यासप्तमं कुलम् ॥
यावदस्थि मनुष्यस् गङ्गायाः स्पृशते जलम् ।
तावत्स पुरुषो राजन्स्वर्गलोके महीपते ॥
यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च ।
उपास्य पुण्यं लब्ध्वा च भवत्यमरलोकभाक् ॥
न गङ्गासदृशं तीर्थं न देवः केशवात्परः ।
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः ॥
यत्र गङ्गा महाराज स देशस्तत्तपोकवनम् ।
सिद्धिक्षेत्रं च तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥
इदं सत्यंद्विजातीनां साधूनामात्मनोपि च ।
सुहृदां च जपेत्कर्मे शिष्यस्यानुगतस्य च ॥
इदं धन्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् ।
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् ।
अधीत्यद्विजमध्ये च निर्मलः स्वर्गमाप्नुयात् ॥
श्रीमत्स्वर्ग्यं तथा पुण्यं सपत्नशमनं शिवम् ।
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्तनम् ॥
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् । शूद्रो यथेप्सितान्कामान्ब्राह्मणः पारगः पठन् ।
महीं विजयते राजा वैश्यो धनमवाप्नुयात् ॥
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं नरः शुचिः ।
जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ॥
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च ।
मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ॥
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ।
ऋषिभिर्देवकल्पैश्च स्नातानि सुकृतैषिभिः ॥
एवं त्वमपि कौरव्य विधिनाऽनेन सुव्रत ।
व्रत तीर्थानि नियतः पुण्यं पुण्येन वर्धयन् ॥
भाषितैः करणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् । प्राप्यन्ते तानि तीर्तानि सद्भिः शास्त्रार्थदर्शिभिः ।
सद्भिः शास्त्रार्थतत्वज्ञैर्ब्राह्मणैः सह गम्यताम् ॥
नाव्रती नाकृतात्मा च नाशुचिर्न च तस्करः ।
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना ।
`पितरस्तात सर्वे च तारिताः प्रपितामहाः' ॥
पिता पितामहस्चैव सर्वे च प्रपितामहाः । पितामहपुरोगाश्च देवाः सर्षिगणा नृप ।
तव धर्मेण धर्मज्ञ नित्यमेवाभितोषितः ॥
अवाप्स्यसि त्वं लोकान्वै वसूनां वासवोपम ।
कीर्तिं च महातीं भीष्म प्राप्स्यसे भुविशाश्वतीं ॥
नारद उवाच ।
एवमुक्त्वाऽभ्यनुज्ञाय पुलस्त्यो भगवानृषिः ।
प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ॥
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् ।
पुलस्त्यवचनाच्चैव पृथिवीं परिचक्रमे ॥
एवमेषा महाभागा प्रतिष्ठाने प्रतिष्ठिता ।
तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी ॥
अनेन विधिना यस्तु पृथिवीं संचरिष्यति ।
अश्वमेधशतं साग्रं फलं प्रेत्य स भोक्ष्यति ॥
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् ।
भीष्मः कुरूणां प्रवरो यथा पूर्वमवाप्तवान् ॥
नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् । रक्षोगणबिकीर्णानि तीर्थान्येतानि भारत ।
अगम्यानि मनुष्येन्द्रैस्त्वामृते कुरुनन्दन ॥
इदं देवर्षिचरितं सर्वतीर्ताभिसंवृतम् ।
यः पठेच्छृणुयाद्वाऽपिसर्वपापैः प्रमुच्यते ॥
ऋषिमुख्याः सदा यत्रवाल्मीकिस्त्वथ कश्यपः ।
आत्रेयः कुण्डजठरो विश्वामित्रोऽथ गौतमः ॥
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः ।
भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ॥
शौनकः सह पुत्रेण व्यासश्च तपतांवरः ।
दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः ॥
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः ।
एभिः सह महाराज तीर्थान्येतान्यनुव्रज ॥
एष ते लोमशो नाम महर्षिरमितद्युतिः ।
समेष्यति महाराज तेन सार्धमनुव्रज ॥
मयाऽपिसह धर्मज्ञ तीर्थान्येतान्यनुक्रमात् । 3-83-b124 प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषक् ॥
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः ।
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ॥
यथा भगीरथो राजा यथा रामश्च विश्रुतः ।
तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ॥
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः ।
यथा वैन्यो महाराज तथा त्वमपि विश्रुतः ॥
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहन्पुरा ।
त्रैलोक्यं पालयामास देवराड्विगतज्वरः ॥
तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि । स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन ।
ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ॥
वैशंपायन उवाच ।
एवमाश्वास्य राजानं नारदो भगवानृषिः ।
अनुज्ञाप्य महाराज तत्रैवान्तरधीयत ॥
युधिष्ठिरोषि धर्मात्मा तमेवार्थं विचिन्तयन् । तीर्थयात्राश्रितं पुण्यमृषीणां प्रत्यवेदयत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥

3-83-4 अश्वमेधाद्दशगुणमिति क. पाठः ॥ 3-83-29 निदर्शनमुदाहरणम् ॥ 3-83-30 यो योनिसंकरजः स जेतत्र गायत्रीं पठति तस्य सम्यक् पठतोपितीर्थमाहात्म्यात्सा गायत्री गाथा स्वरनियमहीना गद्यवन्मुखान्निःसरति । गाथिका ग्राम्यगीतवत् स्वरवर्णविकृता ॥ 3-83-31 अब्राह्मणस्य तु प्राक्सिद्धापि तत्र न स्फुरतीति भावः ॥ 3-83-33 ततो बेण्णां समासाद्येति क. ध. पाठः ॥ 3-83-73 चक्रचराः सूर्यादयः ॥ 3-83-75 स्त्रीरूपायाः पृथिव्याः मेरुपृष्ठशीर्षाया हरिद्वारादरभ्य जघनं नाभेरधोभागः ॥ 3-83-77 नदी प्रोक्ता प्रजापतेरिति ध. पाठः ॥ 3-83-83 प्रयागगमनं प्रतीति क. पाठः ॥ 3-83-85 चातुर्वेद्ये च यत्पुण्यमिति क. पाठः ॥ 3-83-103 कैलासे सत्यलोके नाकपृष्ठे च मोदत इति क. पाठः ॥ 3-83-104 अगमानि अगम्यानि । समीक्षया दर्शनेच्छया ॥ 3-83-107 करणैः इन्द्रियैः ॥ 3-83-108 अकृतात्मा अवशीकृतचित्तः ॥ 3-83-114 प्रतिष्ठाने प्रयागे । प्रतिष्ठिता समाप्ता ॥ 3-83-124 महाभिषक् शन्तनुरूपेणावतीर्णः ॥ 3-83-126 रश्मिवान् सूर्यः ॥