अध्यायः 004

पाण्डवेषु वनं गतेषु सत्सु हितं पृष्टेन विदुरेण धृतराष्ट्रप्रति पाण्डवानां पुना राज्ये स्थापनविधानम् ॥ 1 ॥ ततो धृतराष्ट्रधिक्कृतेन विदुरेण पाण्डवान्प्रति प्रस्थानम् ॥ 2 ॥

वैशंपायन उवाच ।
वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः ।
धर्मात्मानं विदुरमगाधबुद्धिं 3-4-1da सुखासीनो वाक्यमुवाच राजा ॥
धृतराष्ट्र उवाच ।
प्रज्ञा च ते भार्गवस्येव शुद्धा धर्मं च त्वं परमं वेत्थ सूक्ष्मम् ।
समश्च त्वं संमतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि ॥
एवं गते विदुरयदद्य कार्यं पौराश्चेमे कथमस्मान्भजेरन् ।
ते चाप्यस्मान्नोद्धरेयुः समूला- न्न कामये तांश्च विनश्यमानान् ॥
`सौबलेनैव पापेन दुर्योधनहितैषिणा ।
क्रूरमाचरितं क्षत्तर्न मे प्रियमनुष्ठितम् ॥
तथैवाङ्गीकृते तत्र तद्भवान्वक्तुमर्हति ।
उत्तरं प्राप्तकालं च किमन्यन्मन्यते क्षमम् ॥
नास्ति धर्मे सहायत्वमिति मे दीर्यते मनः ।
यत्र पाण्डुसुताः सर्वे क्लिश्यन्ति वानमागताः' ॥
विदुर उवाच ।
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति ।
धर्मे राजन्वर्तमानः स्वशक्त्या पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ॥
स वै ध्रमो विप्रलब्धः सभायां पापात्मभिः सौबलेयप्रधानैः ।
आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसन्धं सुतस्ते ॥
एतस्य ते दुष्प्रणीतस्य राज- न्द्वेषस्याहं परिपश्याम्युपायम् ।
यथा पुत्रस्तव कौरव्य पापा- न्मुक्तो लोके प्रतितिष्ठेत साधु ॥
तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नतिसृष्टं त्वयाऽऽसीत् ।
एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृद्ध्येत् ॥
[यशो ने नश्येज्ज्ञातिभेदश्च न स्या- द्धर्मो न स्यान्नैव चैवं कृते त्वाम् ।]
एतत्कार्ये तव सर्वप्रधानं तेषां तुष्टिः शकुनेश्चावमानः ॥
एवं शेषं यदि पुत्रेषु ते स्या- देतद्राजंस्त्वरमाणः कुरुष्व ।
अथैतदेवं न करोषि राजन् ध्रुवं कुरूणां भविता विनाशः ॥
नहि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके ।
येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम् ॥
येषां भीमो बाहुशाली च योद्धा तेषां लोके किंनु न प्राप्यमस्ति ।
उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम् ॥
पुत्रं त्यजेममहितं कुलस्य हितं परं न च तत्त्वं चकर्थ ।
इदानीं ते हितमुक्तं न चेत्त्व- मेवं कर्ता परितप्ताऽसि पश्चात् ॥
यद्येतदेवमनुमन्ता सुतस्ते संप्रीयमाणः पाण्डवैरेकराज्यम् ।
तापो न ते भविता प्रीतियोगा- त्त्वं चेन्न गृह्णासि सुतं सहायैः ॥
दुर्योधनं त्वहितं वै निगृह्य पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ।
`ध्रुवं विनाशस्तव पुत्रेण धीमन् सबन्धुवर्गेण सहैव राजभिः ॥
चतुर्दशे चैव वर्षे नरेन्द्र कुलक्षयं प्राप्स्यसि राजसिंह ।
तस्मात्कुरुष्वाधिपत्ये नरेन्द्र युधिष्ठिरं धर्मभृतां वरिष्ठम् ॥'
अजातशत्रुर्हि विमुक्तरागो धर्मोणेमां पृथिवीं शास्तु राजन् ।
ततो राजन्पार्थिवाः सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः ॥
दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन्पाण्डुपुत्रान्भजन्तु ।
दुःशासनो याचतु भीमसेनं सभामध्ये द्रुपदस्यात्मजां च ॥
युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य ।
त्वया पृष्टः किमहमन्यद्वदेय- मेतत्कृत्वा कृतकृत्योसि राजन् ॥
धृतराष्ट्र उवाच ।
एतद्वाक्यं विदुर यत्ते सभाया- मिह प्रोक्तं पाण्डवान्प्राप्य मां च ।
हितं तेषामहितं मामकाना- मेतत्सर्वं मम नावैदि चेतः ॥
इदं त्विदानीं गत एव निश्चितं तेषामर्थे पाण्डवानां यदात्थ ।
तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ॥
असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात्प्रमूतः ।
स्वं वै देहं परहेतोस्त्यजेति कोनु ब्रूयात्समतामन्ववेक्षन् ॥
स मां जिह्मं विदुर सर्वं ब्रवीपि मन्युं तेऽहमधिकं धारयामि ।
यथेच्छकं गच्छ वा तिष्ठ वा त्वं सुसान्त्व्यमानाऽप्यसती स्त्री जहाति ॥
वैशेपायन उवाच ।
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य- दन्तर्वेश्म सहसोत्थाय राजन् ।
नेदमस्तीत्यथ विदुरो भापमाप्पः संप्राद्रवद्यत्र पार्था बभूवुः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

3-4-2 कौरवाणां पाण्डवधार्तराष्ट्राणां समः पक्षपातशून्यः ॥ 3-4-3 उद्धरेयुः उन्मूलयेयः ॥ 3-4-8 अक्षवत्यां द्यूतकीडायाम् ॥ 3-4-9 उपायं प्रशान्तिप्रकारम् । शेषस्याहं परिपश्यामीति झ. ट. पाठः ॥ 3-4-10 अतिसृष्टं दत्तम् । स्वकेन धनेनेति शेषः ॥ 3-4-11 एवं कृतेसति त्वांप्रति धर्मो न स्यादिति नैव किंतु स्यादेव ॥ 3-4-15 चकर्थ कृतवान् । कर्ता करिष्यसि ॥ 3-4-16 एकराज्यं यदि अनुमन्ता तर्हि तापो न भविता । नचेत् यदि नानुमन्ता तर्हि सुतं निगृह्णीष्वेत्यर्थः ॥ 3-4-17 नचेन्निगृह्णीष्व सुतं सुखायेति झ. पाठः । तत्र पक्षान्तरमाह दुर्योधनमिति ॥ 3-4-22 नावैति नाङ्गीररोति ॥ 3-4-25 जिह्मं कुटिलम् ॥ 3-4-26 इदं कुलम् ॥