अध्यायः 085

धौम्येन युधिष्ठिरय प्राचीस्थनानातीर्थकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः ।
अश्वासयंस्तथा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ ।
दिशस्तीर्थानि शैलांश्च शृणु मे वदतोऽनघ ॥
याञ्श्रुत्वा गदतो राजन्विशोको भवितासि ह ।
द्रौपद्या चानया सार्धं भ्रातृभिश्च नरेश्वर ॥
श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव ।
गत्वा शतगुणं चैव तेभ्य एव नरोत्तम ॥
शृणु पूर्वां दिशं राजन्देवर्षिगणसेविताम् ।
रम्यां ते कथयिष्यामि युधिष्ठिर यथास्मृति ॥
तस्यां रदेवर्षिजुष्टायां नैमिषं नाम भारत ।
यत्रतीर्थानि देवानां पुण्यानि च पृथक् पृथक् ॥
यत्र सा गोमती पुण्या रम्या देवर्षिसेविता ।
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ॥
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः ।
शिवं ब्रह्मसरो यत्रसेवितं त्रिदशर्षिभिः ॥
यदर्थे पुरुषव्याघ्र कीर्तयन्ति पुरातनाः ।
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् ।
उत्तारयति संतत्या दश पूर्वान्दशावरान् ॥
महानदी च तत्रैव तथा गयशिरो नृप ।
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ॥
यत्रदत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ।
सा च पुण्यजला तत्र फल्गुनामा महानदी ॥
बहुमूलफला चापि कौशिकी भरतर्षभ ।
विश्वामित्रोऽध्यगाद्यत्र ब्राह्मणत्वं तपोधनः ॥
गङ्गा यत्रनदी पुण्या यस्यास्तीरे भगीरथः ।
अयजत्तत्रबहुभिः क्रतुभिर्भूरिदक्षिणैः ॥
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् ।
विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ॥
यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ।
विश्वामित्रस्य तां दृष्ट्वा चिभूतिमतिमानुषीम् ॥
कान्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ।
ततः क्षत्रादपाक्रामद्ब्राह्मणोस्मीति चाब्रवीत् ॥
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् ।
गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम् ॥
यत्रायजत भूतात्मा पूर्वमेव पितामहः ।
प्रयागमिति विख्यातं तस्माद्भरतसत्तम ॥
अगस्त्यस्य तु राजेन्द्र तत्राश्रमवरो नृप ।
तत्तथा तापसारण्यं तापसैरुपशोभितम् ॥
हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे महान् ।
आगस्त्यपर्वतोरभ्यः पुण्यो गिरिवः शिवः ॥
महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ।
अयजत्तत्रकौन्तेय पूर्वमेव पितामहः ॥
यत्रभागीरथी पुण्यां सरस्यासीद्युधिष्ठिर । यत्र सा ब्रह्मशालेति पुण्याख्याता विशांपते ।
धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ॥
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः ।
केदारश्च मतङ्गस्य महानाश्रम उत्तमः ॥
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः ।
नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ॥
यत्र देववनं पुण्यं तापसैरुपशोभितम् ।
बाहुदा च नदी यत्रनन्दा च गिरिमूर्धनि ॥
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च ।
प्राच्यां दिशि महाराज कीर्तितानि मया तव ॥
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु । सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

3-85-7 शामित्रं शमितुः कर्म यज्ञे पशुमारणम् । विवस्वतः पुत्रस्य यमस्येति शेषः ॥ 3-85-8 तस्यां प्राच्यां दिशि । राजर्षिरपि गयसंज्ञः ॥ 3-85-18 पविर्वज्रं तत्तुल्यं जन्ममरणादिदुःखं तस्मात्रायत इति पवित्रम् । अतएव ऋषिभिर्जुष्टं सेवितम् । पुण्यं धर्मवृद्धिहेतुः । पावनं पापनाशनम् ॥ 3-85-21 अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः इति क. पाठः ॥ 3-85-23 सरसि मणिकर्णिकाख्ये प्रविष्टा आसीत् । आकार्णा व्याप्ता ॥ 3-85-24 मङ्गलीयः मङ्गलावहः ॥ 3-85-25 नैषधो नलः ॥ 3-85-26 बहुला च नदी यत्रेति क. ध. पाठः ॥