अध्यायः 088

धौम्येन युधिष्ठिरंप्रत्युदीचीस्थतीर्थकथनम् ॥ 1 ॥

धौम्य उवाच ।
उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै ।
तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च ॥
शृणुष्वावहितो भूत्वा मम मन्त्रयतः प्रभो ।
कथाप्रतिग्रहो वीर श्रद्धां जनयते शुभाम् ॥
सरस्वती महापुण्या ह्रदिनी तीर्थमालिनी ।
समुद्रगा महावेगा यमुना यत्र पाण्डव ॥
यत्र पुण्यतरं तीर्थं प्लक्षावतरणं शुभम् ।
यत्रसारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः ॥
पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ ।
सहदेवोऽयजद्यत्रशम्याक्षेपेण भारत ॥
एतस्मिन्नेव चार्थेऽसौ इन्द्रगीता युधिष्ठिर ।
गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः ॥
अग्नयः सहदेवेन ये चिता यमुनामनु ।
ते तस्य कुरुशार्दूल सहस्रशतदक्षिणाः ॥
तत्रैव भरतो राजा चक्रवर्ती महायशाः ।
विंशतीं सप्त चाष्टौ च हयमेधानुपाहरत् ॥
कामकृद्यो द्विजातीनां श्रुतस्तात यथा पुरा ।
अत्यन्तमाश्रमः पुण्यः शरभङ्गस्य विश्रुतः ॥
सरस्वती नदी सद्भिः सततं पार्थ पूजिता ।
वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा ॥
दृषद्वती महापुण्या यत्र रख्याता युधिष्ठिर । न्यग्रोधाख्यस्तु पाञ्चाल्यः पाञ्चाल्योद्विपदांवर ।
दाल्भ्यघोषश्च दाल्भ्याश् धरणीस्थो महात्मनः ॥
कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः ।
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥
एतावर्णाववर्णौ च विश्रुतौ मनुजाधिप ।
ईजाते क्रतुभिर्मुख्यैः पुण्यैर्भरतसत्तम ॥
समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा ।
विशाखयूपेऽतप्यन् तेन पुण्यतमश्च सः ॥
ऋषिर्महान्महाभागो जमदग्निर्महायशाः ।
पलाशकेषु पुण्येषु रम्येष्वयजत प्रभुः ॥
यत्रसर्वाः सरिच्छ्रेष्टाः साक्षात्तमृषिसत्तमम् ।
स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे ॥
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ ।
इमं श्लोकं तदा वीर प्रेक्ष्य दीक्षां महात्मनः ॥
यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः ।
आगम्य सरितो विप्रान्मधुना समतर्पयन् ॥
गन्धर्वयक्षरक्षोबिरप्सरोभिश्च सेवितम् ।
किरातकिन्नरावासं शैलं शिखरिणांवरम् ॥
बिभेद तरसा गङ्गा गङ्गाद्वारं युधिष्ठिर ।
पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् ॥
सनत्कुमारः कौरव्य पुण्यं कनखलं तथा ।
पर्वतश्च पुरुर्नाम यत्रयातः पुरूरवाः ॥
भृगुर्यत्रतपस्तेपे महर्षिगणसेविते ।
राजन्स आश्रमः ख्यातो भृगुतुन्दो महागिरिः ॥
यः स भूतं भविष्यच्च भवच् भरतर्षभ ।
नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः ॥
तस्यातियशसः पुण्यां विशालां बदरीमनु ।
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥
उष्णतोयवहा गङ्गा शीततोयवहा पुरा ।
सुवर्णसिकता राजन्विशालां बदरीमनु ॥
ऋषयो यत्रदेवाश्च महाभागा महौजसः ।
प्राप्य नित्यं नमस्यन्ति देवं नारायणं प्रभुम् ॥
यत्रनाराजणो देवः परमात्मा सनातनः ।
तत्र कृत्स्नं जगत्सर्वं तीर्थान्यायतनानि च ॥
तत्पुण्यं परमं ब्रह्म तत्तीर्थं त्तपोवनम् ।
तत्परं परमं देवं भूतानां परमेश्वरम् ॥
शाश्वतं परमं चैव धातारं परमं पदम् ।
यं विदित्वान शोचन्ति विद्वांसः शास्त्रदृष्टयः ॥
तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः ।
आदिदेवो महायोगी यत्रास्ते मधुसूदनः ॥
पुण्यानामपि तत्पुण्यमत्र ते संशयेस्तु मा । एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते ।
कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च ॥
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ।
ऋषिभिर्देवकल्पैश्च सेवितानि महात्मभिः ॥
चरन्नेतानि कौन्तेय सहितो ब्राह्मणर्षभैः ।
भ्रातृभिश्च महाभागैरुत्कण्ठां विजयिष्यसि ॥

3-88-7 शतं शतसहस्राणि सहस्रशतदक्षिणाः इति क. ध. पाठः ॥ 3-88-9 शंकरस्तत्रविश्रुत इति क. ध. पाठः ॥ 3-88-13 एता कृष्णमृगी तद्वर्णै कृष्णौ नरनारायणावित्यर्थः । वस्तुतस्त्ववर्णौ वर्णाः लोहितशुक्लकृष्णाः रजःसत्वतमांसि तद्रहितौ । तत्र वैवर्ण्यवर्ण्यौ चेति क. ध. पाठः ॥ 3-88-23 प्रभुर्जिष्णुरिति क. पाठः ॥ 3-88-24 विशालां नामतः । बदरीमनु बदरीसमीपे ॥