अध्यायः 090

लोमशेन युधिष्ठिरंप्रति स्वसाहित्येन तीर्थयात्राविधायकपार्थवचननिवेदनम् ॥ 1 ॥ युधिष्ठिरेण लोमशाशयाऽधिक परिजनविसर्जनम् ॥ 2 ॥

लोमश उवाच ।
धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर ।
युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया धिया ॥
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन ।
श्रीमतां चापि जानासि धर्मं राज्ञां सनातनम् ॥
स भवान्परमं वेद रपावनं पुरुषं प्रति ।
तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवान् ॥
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः ।
तथा सर्वात्मना कार्यमिति मामर्जुनोऽब्रवीत् ॥
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः ।
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ॥
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् ।
तथा रक्षस्व कौन्तेयान्राक्षसेभ्यो द्विजोत्तम ॥
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः ।
त्वयाऽभिगुप्तान्कौन्तेयान्न विवर्तेयुरन्तिकम् ॥
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च ।
रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वा सह ॥
द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन ।
इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह ॥
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर ।
मन्वादिभिर्महाराज तीर्थयात्रा भयापहा ॥
नानृजुर्नाकृतात्मा च नाविद्यो न च पापकृत् ।
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः ।
विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि ॥
यथा भगीरथो राजा राजानश्च गयादयः ।
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव ॥
युधिष्ठिर उवाच ।
न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् ।
यन्मां स्मरति देवेशः किं नामाभ्यधिकं ततः ॥
भवता संगमो यस् भ्राता चैव धनंजयः ।
वासवः स्मरते यस् को नामाभ्यधिकस्ततः ॥
यच्च मां भगवानाह तीर्थानां गमनं प्रति ।
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ॥
तद्यदा मन्यसे ब्रह्मन्गमनं तीर्तदर्शने ।
तदैव गन्तास्मि तीर्तान्येष मे निश्चयः परः ॥
वैशंपायन उवाच ।
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् ।
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ॥
युधिष्ठिर उवाच ।
भिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये ॥
क्षुत्तृडध्वश्रमायासशीतार्तिमसहिष्णवः ।
ते सर्वे विनिवर्तन्तां ये च मृष्टभुजो द्विजाः ॥
पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः । तेऽपि सर्वे निवर्तन्तां ये च सूदानुयायिनः ।
मया यथोचिताऽऽजीव्यौः संविभक्ताश्च वृत्तिभिः ॥
ये चाप्यनुगताः पौरा राजभक्तिपुरःसराः । धृतराष्ट्रं महाराजमभिगच्छन्तु ते च वै ।
स दास्यति यथाकालमुचिता यस्य या भृतिः ॥
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः ।
अस्मत्प्रियहितार्थायपाञ्चाल्यो वः प्रदास्यति ॥
वैशंपायन उवाच ।
ततो भूयिष्ठशः पौरा गुरौ भारे समाहिते ।
विप्राश्च यतयो मुख्या जग्मुर्नागपुरं प्रति ॥
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाऽम्बिकासुतः ।
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् ॥
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह । लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि नवतितमोऽध्यायः ॥ 90 ॥

3-90-3 पुरुषप्रति पुरुषस्येत्यर्थः ॥ 3-90-9 द्विः द्विवारम् । तृतीयं तृतीयवारम् ॥ 3-90-10 तीर्तयात्रा शुभावहेति क ध. पाठः ॥ 3-90-11 नानृती नाकृतात्मा चेति क. ध. पाठः ॥ 3-90-18 लघुरल्पपरिवारः ॥ 3-90-21 विकल्पकाः मृष्टामृष्टविभाजकाः । आजीव्यैर्भृत्यादिभिः । वृत्तिभिर्जीवनहेतुभिरन्नादिभिः ॥ 3-90-23 पाञ्चाल्यो द्रुपदः ॥