अध्यायः 097

इल्वलेनागस्त्याय मेषीकृतवातापिमांसपरिवेषणम् ॥ 1 ॥ इल्वलेन वातापेराह्नानेऽगस्त्येन स्वेन तस्य जीर्णीकरणोक्ति ॥ 2 ॥ भीतेनेल्वलेनागस्त्याय धनदानपूर्वकं तज्जिधांसया तदनुगमनम् ॥ 3 ॥ अगस्त्येन हुङ्कारेणेल्वलस्य भस्मीकरणपूर्वकं लोपामुद्रायै बहुधनदानेन तस्यां गुणवदेकापत्योत्पादनम् ॥ 4 ॥

लोमश उवाच ।
इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् ।
उपस्थितान्सहामात्यो विषयान्ते ह्यपूजयत् ॥
तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत्तदा ।
सुसंस्कृतेन कौरव्य भ्रात्रा वातापिना तदा ॥
ततो राजर्षयः सर्वे विषण्णा गतचेतसः ।
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ॥
अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः ।
विषादो वो न कर्तव्यो ह्यहं भोक्ष्ये महासुरम् ॥
धुर्यासनमथासाद्य निषसाद महानृषिः ।
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ॥
अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः ।
`बह्वन्नाशापि ते मेऽस्तीत्यवदद्भक्षयन्स्वयम्' ॥
भुक्तवत्यसुरोऽह्वानमकरोत्तस्य चेल्वलः । `वातापे प्रतिबुध्यस्व दर्शयन्बलतेजसी ।
तपसा दुर्जयो यावदेष त्वां नातिवर्तते ॥
ततस्तस्योदरं भेत्तुं वातापिर्वेगमाहरत् ।
तमबुध्यत तेजस्वी कुम्भयोनिर्महातपाः ॥
स वीर्यात्तपसोग्रस्तु ननर्द भगवानृषिः ।
एष जीर्णोसि वातापे मया लोकस्य शान्तये ॥
इत्युक्त्वा स्वकराग्रेण उदरं समताडयत् ।
त्रिरेवं प्रतिसंरब्धस्तेजसा प्रज्वलन्निव' ॥
ततो वायुः प्रादुरभूदधस्तस्य महात्मनः ।
शब्देन महता तात गर्जन्निव यथा घनः ॥
वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह । तं प्रहस्याब्रवीद्राजन्नगस्त्यो मुनिसत्तमः ।
कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोसुरः ॥
इल्वलस्तु विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् । प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् ।
किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ॥
प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा ।
ईशोस्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ॥
एते च नातिधनिनो धनाशा महती मम ।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥
ततोऽवमत्य तमृषिमिल्वलो वाक्यमब्रवीत् ।
दित्सितं यदि वेत्सि त्वंततो दास्यामि ते वसु ॥
अगस्त्य उवाच ।
गवां दशसहस्राणि राज्ञामेकैकशोऽसुर ।
तावदेव सुवर्णस्य दित्सितं ते महासुर ॥
मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः ।
मनोजवौ वाजिनौ च दित्सितं ते महासुर ॥
`लोमश उवाच ।
उल्वलस्तु मुनिं प्राह सर्वमस्ति यथाऽऽत्थ माम् । सर्वमेतत्प्रदास्यामि हिरण्यं गाश्च यद्धनम् ।
रथं तु यदवोचो मां नैतं विद्म हिरण्मयम् ॥
आगस्त्य उवाच ।
न मे वागनृता काचिदुक्तपूर्वा महाऽसुर ।
विज्ञायतां रथः साधु व्यक्तमस्ति हिरण्मयः ॥
लोमश उवाच ।
विज्ञायमानः स रथः कौन्तेयासीद्धिरण्मयः' ।
ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ॥
विवाजी च सुवाजी च तस्मिन्युक्तौ रथे हयौ । ऊहतुः स वसूनाशु तावगस्त्याश्रमं प्रति ।
सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ॥
`इल्वलस्त्वनुगम्यैनमगस्त्यं हन्तुमैच्छत ।
भस्म चक्रे महातेजा हुङ्कारेण महाऽसुरम्' ॥
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा ।
कृतवांश् मुनिः सर्वं लोपामुद्राचिकीर्षितम् ॥
लोपामुद्रोवाच ।
कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् ।
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् ॥
अगस्त्य उवाच ।
तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने ।
विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ॥
सहस्रं तेऽस्तु पुत्राणआं शतं वा तत्समं तव ।
दश वा शततुल्याः स्युरेको वाऽपि सहस्रजित् ॥
लोपामुद्रोवाच ।
सहस्रसंमितः पुत्र एकोप्यस्तु तपोधन ।
एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ॥
स तथेति प्रतिज्ञाय तया समगमन्मुनिः ।
समये समशीलिन्या श्रद्धावान्श्रद्दधानया ॥
तत आधाय गर्भं तमगमद्वनमेव सः ।
तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ॥
सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः ।
ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ॥
साङ्गोपनिषदान्वेदाञ्जपन्नेव महातपाः ।
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः ॥
स बाल एवतेजस्वी पितुस्तस्य निवेशने ।
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ॥
तथायुक्तं तु तं दृष्ट्वा मुमुदे स मुनिस्तदा । एवं स जनयामास भारतापत्यमुत्तमम् ।
लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ॥
अगस्त्यस्याश्रमश्चायमत ऊर्ध्वं विशांपते ।
ख्यातो भुवि महाराज तेजसा तस्य धीमतः ॥
प्राह्लादिरेवं वातापिर्ब्रह्मघ्नो दुष्टचेतनः । एवं विनाशितो राजन्नगस्त्येन महात्मना ।
तस्यायमाश्रमो राजन्रमणीयैर्गुणैर्युतः ॥
एषा भागीरथी पुण्या देवगन्धर्वसेविता ।
वातेरिता पताकेव विराजति नभस्तले ॥
प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः ।
शिलातलेषु संत्रस्ता पन्नगेन्द्रवधूरिव ॥
दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत् । पूर्वं शंभोर्जटाभ्रष्टा समुद्रमहिषी प्रिया ।
अस्यां नद्यां मुपुण्यायां यथेष्टमवगाह्यताम् ॥

3-97-16 ईप्सितं यदिह ब्रूहि तद्धि दास्यामि ते वसु इति क. पाठः दित्सितं मया युष्मभ्यं दातुमिष्टम् ॥ 3-97-31 प्रच्यवदुदरान्निर्गतोऽभवदित्यर्थः ॥ 3-97-34 युक्तमध्ययनेध्यवाहनादौ ॥ 3-97-36 प्राह्लादिः प्रह्नादगोत्रोद्भवः ॥