अध्यायः 099

वृत्रासुरनिपीडितशकादिभिर्ब्रह्मवचनाद्वज्रनिर्माणाय दधीचंप्रति तच्छरीरास्थिप्रार्थनम् ॥ 1 ॥ त्वष्ट्रा दधीचास्थिभिर्वज्रायुधनिर्माणम् ॥ 2 ॥

युधिष्ठिर उवाच ।
भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः ।
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजात्तम ॥
लोमश उवाच ।
शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् ।
अगस्त्यस्य महाराज प्रभावममितौजसः ॥
आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः ।
कालकेया इतिख्याता गणाः परमदारुणाः ॥
ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः ।
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ॥
ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा ।
पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे ॥
कृताञ्जलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह ।
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ॥
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ ।
दधीच इतिविख्यातो महानृषिरुदारधीः ॥
तं गत्वा सहिताः सर्वेवरं वै संप्रयाचत ।
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ॥
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः ।
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस् हिताय वै ॥
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति ।
तस्यास्थिभिर्महाघोरं वज्रं संस्क्रियतां दृढम् ॥
महच्छत्रुहणं घोरं ष़डश्चं भीमनिःस्वनम् ।
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः ॥
एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् ।
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् ॥
नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः ।
सरस्वत्याः परे पारे नानाद्रुमलतावृतम् ॥
षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव ।
पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम् ॥
महिषैश्च वराहैश्च सृमरैश्चमरैरपि ।
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ॥
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः ।
सरोवगाढैः क्रीडद्भिः समन्तादनुनादितम् ॥
सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् ।
अपरैश्चापि संलीनैर्गुहाकन्दरशायिभिः ॥
तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् ।
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ॥
तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् ।
जाज्वल्यमानं वपुषा यथा साक्षात्पितामहम् ॥
तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च ।
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ॥
ततो दधीचः परमप्रतीतः सुरोत्तमांस्तानिदमभ्युवाच ।
करोमि यद्वो हितमद्य देवाः स्वं चापि देहंस्वयमुत्सृजामि ॥
स एवमुक्त्वा द्विपदांवरिष्ठः प्राणान्वशी स्वान्सहसोत्ससर्ज ।
ततः सुरास्ते जगृहुः परासो- रस्थीनि तस्याथ यथोपदेशम् ॥
प्रहृष्टरूपाश्च जयाय देवा- स्त्वष्टारमागम् तमर्थमूचुः ।
त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात् ॥
चकार वज्रं भृशमुग्ररूपं कृत्वा च शक्रं स उवाच हृष्टः ।
अनेन वज्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रम् ॥
ततो हतारिः सगणः सुखं वै प्रशाधिकृत्स्नं त्रिदिवं दिविष्ठः ।
त्वष्ट्रा तथोक्तस्तु पुरंदरस्त- द्वज्रं प्रहृष्टः प्रयतो ह्यगृह्नात् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥

3-99-3 कालेया इति विख्याता इति क. पाटः ॥ 3-99-8 सवो दास्यति ईप्सितमिति शेषः . । 3-99-11 षडश्रं षट्रकोणम् ॥ 3-99-16 करेणुभिर्हस्तिनीभिः प्रभिन्नं मदस्राविकरटामदोद्भेदस्थानं गण्डस्थलैकदेशस्तस्य मुखमुपरिभागो तेषा तैः ॥ 3-99-18 त्रिविष्टपसमप्रख्य स्वर्गतुल्यप्रकाशम् ॥ 3-99-22 परासोः गतप्राणस्य ॥