अध्यायः 107

कपिलेन हयचोरत्वभ्रमेण स्वजिघांसूनां सर्वसागराणां नयनानलेन भस्मीकरणम् ॥ 1 ॥ सगरनिदेशान्निर्गतेनांशुमता कपिलप्रसादनन हयानयनपूर्वकं पितामहयज्ञसमापनम् ॥ 2 ॥ सगरइवांशुमत्यपि स्वर्गते तत्सुतेन - दिलीपेन गङ्गावतरणआय यतमाननापि तदपारयतैव त्रिदिवगमनम् ॥ 3 ॥

लोमश उवाच ।
*तेतं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः ।
अनादृत् महात्मानं कपिलं कालचोदिताः ॥
संफुद्धाः संप्रधावन्त वाजिग्रहणकाङ्क्षिणः ।
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः ॥
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम् ।
स चक्षुर्विकतं कृत्वा तेजस्तेषु समुत्सृजन् ॥
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ।
षष्टिं रतानि सहस्राणि युगपन्मुनिसत्तमः ॥
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः ।
सगरान्तिकमागत्य तच्च तस्मै न्यवेदयत् ॥
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् ।
महूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ॥
`स पुत्रनिधनोत्थेन दुःखेन समभिप्लुतः ।
आत्मानमात्मनाऽऽश्वास्य हयमेवान्वचिन्तयत्' ॥
अशुमन्तं समाहूय असमञ्जसुतं तदा ।
पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥
षष्टिस्तात सहस्राणि पुत्राणाममितौजसाम् ।
कापिलं तेज आसाद्य मत्कृतेनिधनं गताः ॥
तव चापि पिता तात परित्यक्तो मयाऽनघ ।
धर्मं संरक्षमाणेन पौराणां हितमिच्छता ॥
युधिष्ठिर उवाच ।
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् ।
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥
लोमश उवाच ।
असमञ्ज इति ख्यातः सगरस्य सुतो ह्यभूत् ।
यं शैव्या जनयामास पौराणां स हि दारकान् ॥
`क्रीडतः सहसाऽऽसाद्य तत्रतत्र महीपते' ।
चूडासु क्रोशतो गृह्यनद्यां चिक्षेप दुर्बलान् ॥
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः ।
सगरं चाभ्यभाषन्त सर्वे प्राञ्जलयः स्थिताः ॥
त्वं नस्त्राता महाराज परचक्रादिभिर्भयात् ।
असमञ्जभयाद्धोरात्ततो नस्त्रातुनर्हसि ॥
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः ।
मुहूर्तं विमना भूत्वासचिवानिदमब्रवीत् ॥
असमञ्ज पुरादद्य सुतो मे विप्रवास्यताम् ।
यदि वो मत्प्रियं कार्यमेतच्छीध्रं विधीयताम् ॥
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप ।
यथोक्तं त्वरिताश्चक्रुर्यथाऽऽज्ञापितवान्नृपः ॥
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना ।
पौराणां हितकामेन सगरेण विवासितः ॥
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हि ।
तत्ते सर्वंप्रवक्ष्यामि कीर्त्यमानं निबोध मे ॥
सगर उवाच ।
पितुश् तेऽहंत्यागेन पुत्राणां निधनेन च ।
अलाभेन तथाऽश्वस् परितप्यामि पुत्रक ॥
तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम् ।
हयस्यानयनात्पौत्र नरकान्मां समुद्धर ॥
लोमश उवाच ।
अंशुमानेवमुक्तस्तु सगरण महात्मना ।
जगाम दुःखात्तं देशं यत्रवै दारिता मही ॥
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह ।
अपश्यच्च महात्मानं कपिलं तुरगं च तम् ॥
स दृष्ट्वा तेजसो राशिं पुराणमृपिसत्तमम् ।
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥
ततः प्रीतो महाराज कपिलोंऽशुमतोऽभवत् ।
उवाच चैनं धर्मात्मा वरदोस्मीति भारत ॥
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् ।
द्वितीयमुदकं वव्रे पितॄणां पावनेच्छया ॥
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः ।
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ॥
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् ।
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ॥
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः ।
`शलभत्वं गता ये ते मम क्रोधहुताशने' ॥
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति ।
पावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥
हयं नयस्व भद्रं ते याज्ञिं नरपुङ्गव ।
यज्ञः समाप्यतां तात सगरस्य महात्मनः ॥
अंशुमानेवमुक्तस्तु कपिलेन महात्मना ।
आजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥
सोभिवाद्य ततः पादौ सगरस्य महात्मनः ।
मूर्ध्नि तनाप्युपाघ्रातस्तस्मै सर्वंनय्वेदयत् ॥
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा ।
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् ।
अंशुमन्तं च संपूज्यसमापयत तं क्रतुम् ॥
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः ।
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ॥
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः ।
पौत्रे भारं समवेश्य जगाम त्रिदिवं तदा ॥
अंशुमानपि धर्मात्मा महीं सागरमेखलाम् ।
प्रशशास महाराज यथैवास् पितामहः ॥
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् ।
तस्मिन्राज्यं समाधाय अंशुमानपि संस्थितः ॥
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् ।
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥
गङ्गावतरणए यत्नं सुमहच्चाकरोन्नृपः ।
न चावतारयामास चेष्टमानो यथाबलम् ॥
तस् पुत्र समभवच्छ्रीमान्धर्मपराणः ।
भगीरथ इति ख्यातः सत्यवागनसूयकः ॥
अभिषिच्य तु तं राज्येदिलीपो वनमाश्रितः ॥
तपः सिद्धिसमायोगात्स राजा भरतर्षभ । वनाज्जगाम त्रिदिवं कालयोगेन भारत ॥

3-107a-1a ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः । 3-107a-1b अनादृत्य महात्मानं कपिलं कालचोदिताः । 3-107a-1c संक्रुद्धाः समधावन्त कपिलं हन्तुमुद्यताः ॥ 3-107a-2a तान्दृष्ट्वा हन्तुमुद्युक्तान्कपिलो रोपमूर्च्छितः । 3-107a-2b सगरस्यात्मजान्सर्वान्ददाह क्षणतो नृप ॥ 3-107a-3a तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः । 3-107a-3b सगरान्तिकमागन्य तच्च तस्मै न्यवेदयत् ॥ 3-107a-4a एतच्छ्रुत्वा वचो राजा घोरं मुनिमुखोद्गतम् । 3-107a-4b मुहूर्तं विमना भूत्वास्थाणोर्वाक्यमचिन्तयत् ॥ 3-107a-5a अशुमन्तं प्रेपयित्वा हयमानाय्य यत्नतः । 3-107a-5b यज्ञं समाप्य विधिवन्सगरो भृशदुःखितः । 3-107a-5c कृत्वांऽशुमति तद्राज्यं वनमेवान्वपद्यत ॥ 3-107a-6a अशुमानकरोद्राज्यं प्रजा धर्मेण रञ्जयन् । 3-107a-6b दिलीपे राज्यमाधाय वनमेवान्वपद्यत ॥ 3-107a-7a दिलीपोपि महाराज चिरं राज्यमकारयत् ॥ 3-107a-8a तस् पुत्रो महीपाल भगीरथ इति श्रुतः । 3-107a-8b धर्मज्ञश्च कृतज्ञश्च प्रजानामनुरञ्जकः ॥ 3-107a-9a पितरि स्वर्गते राजन्दिलीपे पुण्यशालिनि । 3-107a-9b भगीरथो महानासीद्राजा परमधार्मिकः ॥ 3-107a-10a स चिरं तप आतिष्ठछन्महादेवप्रसादतः । 3-107a-10b ऊर्ध्ववाहुर्निरालम्बः पादाङ्गुष्ठाश्रितावनिः ॥ 3-107a-11a वायुभक्षो निराहारो भक्तियुक्तेन चेतसा । 3-107a-11b तत आविरभूद्देवः पिनाकी वृपभध्वजः ॥ 3-107a-12a परंब्रह्म परं धाम परमात्मा सनातनः । 3-107a-12b आनादिमध्यनिधनः शङ्करः सर्वपूजितः ॥ 3-107a-13a भगीरथोपि तं दृष्ट्वा भगवान्तमुमापतिम् । 3-107a-13b प्रणिपत्य महादेवमस्तौषीद्धिविधैः स्तवैः ॥ 3-107a-14a स्तुत्वा च विविधै स्तोत्रैः कृताञ्जलिपुटो नृपः । 3-107a-14b अयाचत वरं देवं गङ्गाया धारणं प्रति ॥ 3-107a-15a भगवंस्तपसा तुष्टोब्रह्मा मे स्वर्गवासिनीम् । 3-107a-15b गङ्गां संप्रेषयामीति ददौ वरमनुत्तमम् ॥ 3-107a-17a तां वै धारयितुं शक्तं नान्यं पश्यामि शूलिनः । 3-107a-17b तं तोषय महाराजेत्पेवमुक्त्या दिवं गतः ॥ 3-107a-18a भवत्प्रसादसिद्ध्यर्थं तपस्तप्तं मया विभो । 3-107a-18b भवता धृतया देव गङ्गया पूतया मम । 3-107a-18c पितामहाश्च लोकाश्च सर्वे सद्भतिमाप्नुयुः ॥ 3-107a-19a एवंसंप्रार्थितो देवस्तथा चक्रे महेश्वरः ॥ 3-107a-20a ब्रह्मणा समनुज्ञता गङ्गाऽपिक्रोधमूर्च्छिता । 3-107a-20b विशाम्यहं तु पातालं स्रोतसा गृह्य शङ्करम् ॥ 3-107a-21a इत्याग्रहान्महाराज शिवे शिवशिरस्युत । 3-107a-21b पतित्वा तव वभ्राम वहन्वर्पान्विमोहिता । 3-107a-21c तृणेऽवश्यायकणिका यथा तद्वत्स्थिताक्वचित् ॥ 3-107a-22a तामदृष्ट्वाऽथ भूपालस्तोपयामास शङ्करम् । 3-107a-22b पुनश्च व्यसृजद्देवो गङ्गां वै गूहितां नृप ॥ 3-107a-23a प्रणिपत्य महादेवं पुरा राजा भगीरथः । 3-107a-23b पितॄनाप्लावयामास सागरं चाप्यपूरयत् ॥ 3-107a-24a तेऽपि स्वर्गं गता राजन्सगरस्यात्मजाः क्षणात् । 3-107a-24b पितृभ्यश्चोदकं तत्रददौ पूर्णमनोरथः ॥ 3-107a-25a एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । 3-107a-25b एवं स सागरो राजन्पूरितोऽगस्त्यदूपितः ॥