अध्यायः 108

दिलीपसुतेन भगीरथेन धरणीतलावतरणाय गङ्गांप्रति तपश्चरणम् ॥ 1 ॥ तथा धरणीतलमवतरन्त्या गङ्गाया वेगाधारणाय तदाज्ञया तपसा शंकरतोषणम् ॥ 2 ॥

लोमश उवाच ।
स तु राजा महेष्वासश्चक्रवर्ती महारथः ।
बभूव सर्वलोकस् मनोनयननन्दनः ॥
स शुश्राव महाबाहुः कपिलेन महात्मना ।
पितॄणआं निधनं घोरमप्राप्तिं त्रिदिवस्य च ॥
स राज्यं सचिवे न्यस्य हृदयेन विदूयता ।
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्विषः ।
सोऽपश्यत नर्रेष्ठ हिमवन्तं नगोत्तमम् ॥
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम् ।
पवनालम्बिभिर्मेघैः परिपिक्तं समन्ततः ॥
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् ।
गुहाकन्दरसंलीनसिंहव्याघ्रनिषेवितम् ॥
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः ।
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥
मयूरैः शतपत्रैश्च जीवंजीवककोकिलैः ।
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ॥
जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम् ।
सारसानां च मधुरैर्व्याहृतैः समलंकृतम् ॥
किन्नरैरप्सरोभिश्च निषेवितशिलातलम् ।
दिग्वारणविषाणाग्रैः समन्ताद्धृष्टपादपम् ॥
विद्याधरानुचरितं नानारत्नसमाकुलम् ।
विषोल्वणैर्भुजङ्गैश्च दीप्ताजिह्वैर्निषेवितम् ॥
क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम् ।
क्वचिदञ्जनपुञ्जाभं हिमवनतमुपागमत् ॥
स तु तत्रनरश्रेष्ठस्तपो घोरं समाश्रितः ।
फलमूलाम्बुसंभक्षः सहस्रपरिवत्सरान् ॥
संवत्सरसहस्रे तु गते दिव्ये महानदी ।
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥
गङ्गोवाच ।
किमिच्छसि महाराज म्तः किंच ददानि ते ।
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥
एवमुक्तः प्रत्युवाच राजा हैमवतीं नदीम् । `तदा भगीरथो राजन्प्रणिपत्य कृताञ्जलिः' ।
पितामहा मे वरदे कपिलेन महानदि ॥
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ।
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् ॥
कपिलं देवमासाद्य क्षणेन निधनं गताः ।
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते ॥
यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ।
तावत्तेषां गतिर्नास्ति सागराणां महानदि ॥
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् ।
तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥
लोमश उवाच ।
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता ।
भगीरथमिदं वाक्यं सुप्रीता समभाषत ॥
करिष्यामि माहाराज वचस्ते नात्र संशयः ।
वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप ।
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥
तं तोषय रमहाबाहो तपसा वरदं हरम् ।
स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ॥
स करिष्यति ते रकामं पितॄणां हितकाम्यया ।
`तपसाऽऽराधितः शंभुर्भगर्वाँल्लोकभावनः' ॥
एतच्छ्रुत्वा ततो राजन्महाराजो भगीरथः ।
कैलासं पर्वतं गत्वा तोषयामास शंकरम् ॥
ततस्तेन समागम्य कालयोगेन केनचित् ।
`गह्गावतरणं राजन्नयाचत महीपतिः ॥
अगृह्णाच्च वरं तस्माद्गङ्गाया धारणे नृप । स्वर्गे वासं समुद्दिश् पितॄणां स नरोत्तमः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टाधिकशततमोऽध्यायः ॥ 108 ॥

3-108-22 गगनाच्च्युतं यथा भवति तथा पतन्त्याः । गगनाद्भुवमिति झ. पाठः ॥