अध्यायः 113

ऋश्यशृङ्गेण विभाण्डकंप्रति भ्रमाद्वेश्याकुमार्यां मुनिकुमारत्वव्यपदेशेन तदागमनोक्तिपूर्वकं तदङ्गचेष्टाविलासैस्तस्यामेव स्वचित्तासक्त्युक्तिः ॥ 1 ॥

ऋश्यशृङ्ग उवाच ।
इहागतो जटिलो ब्रह्मचारी न वै ह्रस्वो नातिदीर्घो मनस्वी ।
सुवर्णवर्णः कमलायताक्षः सुतः सुराणामवि शोभमानः ॥
समृद्धरूपः सवितेव दीप्तः सुश्लक्ष्णवाक्कृष्णतारश्चकोरात् ।
नीलाः प्रसन्नाश्च जटाः सुगन्धा हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥
आधारभूतः पुनरस्य कण्ठे विभ्राजते विद्युदिवान्तरिक्षे ।
द्वौ चास् पिण्डावधरेण कण्ठा- दजातरोमौ सुमनोहरौ च ॥
विलग्नमध्यश्च स नाभिदेशे कटिश्च तस्यातिकृतप्रमाणा ।
तथाऽस् चीरान्तरतः प्रभाति हिरण्मयी मेखला मे यथेयम् ॥
अन्यच्च तस्याद्भुतदर्शनीयं विकूजितं पादयोः संप्रभाति ।
पाण्योश्च तद्वत्स्वनवन्निबद्धौ कलापकावक्षमाला यथेयम् ॥
विचेष्टमानस्य च तस्य तानि कूजन्ति हंसाः सरसीव मत्ताः ।
चीराणि तस्याद्भुतदर्शनानि नेमानि तद्वन्मम रूपवन्ति ॥
वक्रं च तस्याद्भुतदर्सनीयं प्रव्याहृतं ह्लादयतीव चेतः ।
पिंस्कोकिलस्येव च तस्य वाणि तां शृण्वतो मे व्यथितोऽन्तरात्मा ॥
यथा वनं माधवमासिमध्ये समीरीतं श्वसनेनेव भाति ।
तथा स भात्युत्तमपुण्यगन्धी निषेव्यमाणः पवनेन तात ॥
सुसंवताश्चापि जटा विभक्ता द्वैधीकृता भातिललाटदेशे ।
कर्णौ च चित्रैरिव चक्रवाकैः समावृतौ तस्य सुरूपवद्भिः ॥
तथा फलं वृत्तमथो विचित्रं समाहतं पाणिना दक्षिणेन ।
तद्भूमिमासाद्य पुनःपुनश्च समुत्पतत्यद्भुतरूपमुच्चैः ॥
तच्चाभिहत्वा परिवर्ततेऽसौ वातेरितो वृक्ष इवावघूर्णम् ।
तं प्रेक्षतः पुत्रमिवामराणां प्रीतिः परा तात रतिश्च जाता ॥
स मे समाश्लिष्य पुनः शरीरं जटासु गृह्याभ्यवनाम्य वक्रम् ।
वक्रेण वक्रं प्रणिधाय शब्दं चकार तन्मेऽजनयत्प्रहर्षम् ॥
न चापि पाद्यं बहुमन्यतेऽसौ फलानि चेमानि मया हृतानि ।
एवंव्रतोस्मीति च मामवोच- त्फलानि चान्यानि नवान्यदान्मे ॥
मयोपयुक्तानि फलानि यानि नेमानि तुल्यानि रसेन तेषाम् ।
न चापि तेषां त्वगियं यथैषां साराणि नैषामिव सन्ति तेषाम् ॥
तोयानि चैवातिरसानि मह्यं प्रादात्म वै पातुमुदाररूपः ।
पीत्वैव यान्यभ्यधिकः प्रहर्षो ममाभवद्भूश्चलितेव चासीत् ॥
इमानि चित्राणि च गन्धवन्ति माल्यानि तस्योद्ग्रथितानि पट्टैः ।
यानि प्रकीर्येह गतः स्वमेव स आश्रमं तपसा द्योतमानः ॥
गतेन तेनास्मिकृतो विचेता गात्रं च मे संपरिदह्यतीव ।
इच्छामि तस्यान्तिकमाशु गन्तुं तं चेह नित्यं परिवर्तमानम् ॥
गच्छामि तस्यान्तिकमेव तात का नाम सा ब्रह्मचर्या च तस्य ।
इच्छाम्यहं चरितुं तेन सार्धं यथा तपः स चरत्यार्यधर्मा ॥
चर्तुं तथेच्छा हृदये ममास्ति दुनोति चित्तं यदि तं न पश्ये ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥

3-113-3 आधाररूपा पुनरिति झ. ध. पाठः ॥ 3-113-5 कलापकौ भूषणविशेषौ । स्वार्थे कः । कङ्गणावित्यर्थः । विकुञ्चितं पादयोः संप्रभाति इति ध. पाठः ॥ 3-113-10 तथा फलं फलसदृशं कन्दुकम् ॥ 3-113-11 प्रीतिराह्लादः । रतिरासक्तिः ॥