अध्यायः 117

रामेण रेणुकायां मानसिकव्यभिचारदर्शिनः पितुर्जमदग्नेर्नियोगात्कुठारेण तस्याः कण्ठच्छेदनम् ॥ 1 ॥ जमदग्निना पुत्रप्रार्थनया रेणुकायाः पुनरुज्जीवनम् ॥ 2 ॥ रामासंनिधाने जमदग्न्याश्रममुपागतेन कार्तवीर्यार्जुनेन तदीयहोमधेनुवत्साहरणपूर्वकं तदाश्रमपीडनम् ॥ 3 ॥ तत आगतेन रामेण कार्तवीर्ये युधि निहते तदीयै रामासंनिधाने जमदग्नेर्वधः ॥ 4 ॥

अकृतव्रण उवाच ।
स वेदाध्ययने युक्तो जमदग्निर्महातपाः ।
तपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥
स प्रसेनजितं राजन्नधिगम्य नराधिपम् ।
रेणुकां वरयामास स च तस्मै ददौ नृपः ॥
रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः ।
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः ।
सर्वेषामजघन्यस्तु राम आसीञ्जघन्यजः ॥
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै ।
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥
सा तु चित्ररथं नाम मार्तिकावतकं नृपम् ।
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् ।
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥
व्यभिचाराच्च तस्मात्सा क्लिन्नाम्भसि विचेतना ।
`अन्तरिक्षान्निपतिता नर्मदायां महाह्रदे ॥
उतीर्य चापि सा यत्नाज्जगाम भरतर्षभ' ।
प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ॥
स तां दृष्ट्वाच्युतांधैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् ।
श्रिक््शब्देन महातेजा गर्हयामास वीर्यवान् ॥
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः ।
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् ।
न च ते जातसंमोहाः किंचिदूचुर्विचेतसः ॥
ततः शशाप तान्क्रोधात्ते शप्ताश्चैतनां जहुः ।
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥
ततो रामोऽभ्ययात्पश्चादाश्रमं परवीरहा ।
तमुवाच महामन्युर्जमदग्निर्महातपाः ॥
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः ।
तत आदाय परशुं रामो मातु शिरोऽहरत् ॥
ततस्तस्य महाराज जमदग्नेर्महात्मनः ।
कोपोऽभ्यगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ॥
ममेदं वचनात्तात कृतं ते कर्म दुष्करम् ।
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ॥
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै ।
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत ।
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो ।
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥
तमाश्रमपदं प्राप्तमृषिरर्ध्यात्समार्चयत् ।
स युद्धमदसंमत्तो नाभ्यनन्दत्तथाऽर्चनम् ॥
प्रमथ्य चाश्रमात्तस्माद्धोमधेनोस्ततोबलात् ।
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥
आगताय च रामाय तदाचष्ट पिता स्वयम् । गां च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत् ।
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् ॥
तस्याथ युधि विक्रम्य भार्गवः परवीरहा ।
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् ॥
सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः ।
अभिभूतः स रामेण संयुक्तः कालधर्मणा ॥
अर्जुनस्याथ दायादा रामेण कृतमन्यवः ।
आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ॥
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् ।
असकृद्रामरामेति विक्रोशन्तमनाथवत् ॥
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर ।
घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ॥
अपक्रान्तेषु वै तेषु जमदग्नौ तथा गते ।
समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥
स दृष्ट्वा पितरं वीरस्तदा मृत्युवशं गतम् । अनर्हं तं तथाभूतं विललाप सुदुःखितः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥

3-117-7 ततस्तस्य स्पृहयामास तमैच्छत् । सभार्यं हेममालिनमिति क. ध. पाठः ॥ 3-117-25 कालधर्मणा मृत्युना ॥