अध्यायः 120

बलभद्रेण वृष्णिपाण्डवसभायां भीष्मधृतराष्ट्रादिगर्हणपूर्वकं पाण्डवान्प्रति शोचनम् ॥ 1 ॥

जनमेजय उवाच ।
प्रभासतीर्थमासाद्यपाण्डवा वृष्णयस्तथा ।
किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ॥
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः ।
वृष्णयः पाण्डवाश्चैव सुहृदश्चपरस्परम् ॥
वैशंपायन उवाच ।
प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः ।
वृष्णयः पाण्डवान्वीराः परिवार्योपतस्थिरे ॥
ततो गोक्षीरकुन्देन्दुमृणआलरजतप्रभः ।
वनमाली हली रामो बभाषे पुष्करेक्षणम् ॥
न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय ।
युधिष्ठिरो यत्रजटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः ॥
दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति ।
धर्मादधर्मश्चरितो वरीया- नितीव मन्येत नरोऽल्पबुद्धिः ॥
दुर्योधने चापि विवर्धमाने युधिष्ठिरे चासुखमात्तराज्ये ।
`हृतस्वराज्यायतनार्थभार्ये दुर्योधनेनाल्पधिया च पार्थे' । किंन्वत्र कर्तव्यमिति प्रजाभिः शङ्का मिथः संजनिता नराणाम् ॥
अयं स धर्मप्रभवो नरेन्द्रो धर्मे धृतः सत्यधृतिः प्रदाता ।
चलेद्धि राज्याच्च सुखाच्च पार्थो धर्मादपेतस्तु कथं विवर्धेत् ॥
कथं नु भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः ।
प्रव्राज्य पार्थान्सुमाप्नुवन्ति धिक्पापबुद्धीन्भरतप्रधानान् ॥
किंनाम वक्ष्यत्यवनिप्रधानः पितृडन्समागम्य परत्र पापः ।
पुत्रेषु सम्यक्वरितं मयेति पुत्रानपापान्व्यपरोप्य राज्यात् ॥
नासौ धिया संप्रति पश्यति स्म किंनाम कृत्वाऽहमचक्षुरेवम् ।
जातः पृथिव्यामिति पार्थिवेषु प्रव्राज्यकौन्तेयमिति स्म राज्यात् ॥
नूनं समृद्धान्पितृलोकभूमौ चामीकराभान्क्षितिजान्प्रफुल्लान् ।
विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं वत पश्यति स्म ॥
व्यूढोत्तरांसान्पृथुलोहिताक्षा- निमाम्स्म पृच्छन्स शृणोति नूनम् ।
प्रास्थापयद्यत्स वनं सशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम् ॥
योऽयं परषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात् ।
श्रुत्वैव शब्दं हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ॥
स क्षुत्पिपासाध्वकृशस्तरस्वी समेत्य नानायुधबाणपाणिः ।
वने स्मरन्वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे ॥
न ह्यस् वीर्येण बलेन कश्चि- त्समः पृथिव्यामपि विद्यतेऽन्यः ।
स शीतवातातपकर्शिताङ्गो न शेषमाजावसुहृत्सु कुर्यात् ॥
प्राच्यां नृपानेकरथेन जित्वा वृकोदरः सानुचरान्रणेषु ।
स्वस्त्यागमद्योऽतिरथस्तरस्वी सोयं वने क्लिश्यति चीरवासाः ॥
यः सिन्धुकूले व्यजयन्नृदेवा- न्समागतान्दाक्षिणात्यान्महीपान् ।
तं पश्यतेमं सहदेवमद्य तरस्विनं तापसवेषरूपम् ॥
यः पार्थिवानेकरथेन वीरो दिशं प्रतीचीं प्रत्नियुद्धशौण्डः ।
जिग्ये रणे तं नकुलं वनेऽस्मि- न्संपश्यतैनं मलदिग्धगात्रम् ॥
सत्रे समृद्धेऽतिरथस्य राज्ञो वेदीतलादुत्पतिता सुता या ।
सेयं वने वासमिमं सुदुःखं कथं सहत्यद्य सती सुखार्हा ॥
त्रिवर्गमुख्यस् समीरणस्य देवेश्वरस्याप्यथवाऽश्विनोश्च ।
एषां सुराणां तनयाः कथंनु वने चरन्त्यस्तसुखाः सुखार्हाः ॥
जिते हि धर्मस्य सुते सभार्ये सभ्रातृके सानुचरे निरस्ते ।
दुर्योधने चापि विवर्धमाने कथं न सीदत्यवनिः सशैला ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥

3-120-5 भवाय अभ्युदयाय ॥ 3-120-6 विवरं शरीरगूहृनाय न ददातीत्यर्थः ॥ 3-120-7 मिथः शङ्काधर्माधर्मयोः किं बलीय इति शास्त्रानुभवयोर्विरोधात्संशयः ॥ 3-120-8 राज्याच्च सुखाच्च चलेत् नतु धर्मादिति शेषः । तत्र हेतुः धर्मादिति ॥ 3-120-10 अवनिप्रधानो धृतराष्ट्रः ॥ 3-120-11 किंनाम पापं कृत्वाऽहमचक्षुर्जातः कौन्तेयं प्रव्राज्य कीदृशो भविष्यामीति धिया नासौ पश्यतीत्यध्याहृत्य योज्यम् ॥ 3-120-12 चामीकराभान् कनकप्रभान् । एतन्मरणचिह्नम् । नृशंसं निन्द्यं कर्स ॥ 3-120-15 शेषं न कुर्यात् निऋशेषमेव नाशयेदित्यर्थः ॥ 3-120-17 खस्ति क्षेमेण आगमत् आगतः ॥ 3-120-18 यो दन्तकूटे त्वजयत्समेतानिति ध. पाठः ॥ 3-120-20 राज्ञः द्रुपदस्य ॥ 3-120-21 त्रिवर्गमुख्यस् धर्मस्य ॥