अध्यायः 121

सात्यकिना पाणअडवानपेक्षणेन स्वैरेव धार्तराष्ट्रादिहननपूर्वकं पाण्डवानामावनवाससमापनमभिमन्यो राज्येऽभिषच नोक्तिः ॥ 1 ॥ कृष्णेन सात्यकिंप्रतिपाण्डवानां परबाहुबलैकानुपजीवित्वादिगुणकथनपूर्वकं तन्निपेधनम् ॥ 2 ॥

सात्यकिरुवाच ।
न राम कालः परिदेवनाय यदुत्तरं त्वत्र तदेव सर्वे ।
समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित् ॥
ये नाथवन्तोऽद्य भवन्ति लोके ते नात्मना कर्म समारन्ते ।
तेषां तु कार्येषु भवन्ति नाथाः शैब्यादयो राम यथा ययातेः ॥
येषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके ।
रते नाथवन्तः पुरुषप्रवीरा नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥
कस्मादिमौ रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ ।
वसन्त्यरण्ये सह सोदरीयै- स्त्रैलोक्यनाथानभिगम्य पार्थाः ॥
निर्यातु साध्यद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा ।
यमक्षयं गच्छतु धार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः ॥
त्वं ह्येव कोपात्पृथिवीमपीमां संवेष्टयेस्तिष्ठतु शार्ह्गधन्वा ।
स धार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः ॥
भ्राता च मे यः स सखा गुरुश्च जनार्दनस्यात्मसमश्च पार्थः ।
तदर्थमेको हि य उद्यमन्वै करोति कर्णोऽस्त्रमवारणीयम् ॥
[यदर्थमैच्छन्मनुजाः सुपुत्रं शिष्यं गुरुं चाप्रतिकूलवादम् ।
यदर्थमभ्युद्यतमुत्तमं त- त्करोति कर्माग्र्यमपारणीयम् ॥]
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै- र्विहत्य सर्वाणइ रणेऽभिभूय ।
कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथिताऽस्मि राम ॥
खङ्गेन चाहं निशितेन सङ्ख्ये कायाच्छिरस्तस्य बलात्प्रमत्य ।
ततोऽस् सर्वाननुगान्हनिष्ये दुर्योधनं चापि कुरूश्च सर्वान् ॥
आत्तायुधं मामिह रौहिणएय पश्यन्तु भैमा युधि जातहर्षाः ।
निघ्नन्तमेकं कुरुयोधमुख्या- नग्निं महाकक्षमिवान्तकाले ॥
प्रद्युम्नमुक्तान्निशितान्न शक्ताः । सोढुं कृपद्रोणविकर्णकर्णाः ।
जानासि पीर्यं च तवात्मजस्य कार्ष्णिर्भवत्येव यथा रणस्थः ॥
साम्बः ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य ।
न विद्यतेजाम्बवतीसुतस्य रणेऽविषह्यं हि रणोत्कटस्य ॥
एतेन बालेन हि शम्बरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम् ।
`हतः स पापो युधि केवलेन युद्धेऽद्वितीयो हरितुल्यवीर्यः' ॥
वृत्तोरुरत्यायतपीनबाहु- रेतेन सङ्ख्ये निहतोऽश्वचक्रः ।
को नाम साम्बस्य महारथस्य रणे समक्षं रथमभ्युदीयात् ॥
यथा प्रविश्यान्तरमन्तकस्य काले मनुष्यो न विनिष्क्रमेत ।
तथा प्रविश्यान्तरमस्य सङ्ख्ये को नाम जीवन्पुनराव्रजेच्च ॥
द्रोणं कच भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम् ।
सर्वाणइ सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः ॥
किंनाम लोकेषु विषह्ममस्ति- कृष्णस्य सर्वेषु सदेवकेषु ।
आत्तायुधस्योत्तमबाणपाणे- श्चक्रायुधस्याप्रतिमस्य युद्धे ॥
ततो निरुद्धोऽप्यसिचर्मपाणि- र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः ।
हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णाङ्कुशैर्वेदिमिवाध्वरेषु ॥
गदोल्मुकौ बाहुकभानुनीथाः शूरश्र सङ्ख्ये निशठः कुमारः ।
रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म ॥
सवृष्णिभोजान्धकयोधमुख्या समागता सात्वतशूरसेना ।
हत्वा रणे तान्धृतराष्ट्रपुत्रा- न्लोके यशः स्फीतमुपाकरोतु ॥
ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद्व्रतं धर्मभृतांवरिष्ठः ।
युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन ॥
अस्मत्प्रमुक्तैर्विशिखैर्जितारि- स्ततो महीं भोक्ष्यति धर्मराजः ।
निर्धार्तराष्ट्रां हतसूतपुत्रा- मेतद्धि नः कृत्यतमं यशस्यम् ॥
वासुदेव उवाच ।
असंशयं माधव सत्यमेत- द्गृह्णीम ते वाक्यमदीनसत्व ।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं नेच्छेत्कुरूणामृषभः कथंचित् ॥
न ह्येष कामान्न भयान्न लोभा- द्युधिष्ठिरो जातु जह्यात्स्वधर्मम् ।
भीमार्जुनौ चातिरथौ यमौ च तथैव कृष्णा द्रुपदात्मजेयम् ॥
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैव धनंजयश्च ।
कस्मान्न कृत्स्नां पृथिवीं प्रशासे- न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥
यदा तु पाञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च ।
युध्येम विक्रम्य रणे समेता- स्तदैव सर्वे रिपवो हि न स्युः ॥
युधिष्ठिर उवाच ।
नेदं चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम् ।
कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत् ॥
यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य ।
तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च ॥
प्रतिप्रयान्त्वद्य दशार्हवीरा दृष्टोस्मि नाथैर्नरलोकनाथैः ।
धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टाऽस्मि भूयः सुखिनः समेतान् ॥
वैशंपायन उवाच ।
तेऽन्योन्यमामन्त्र्य तथाऽभिवाद्य वृद्धान्परिष्वज्य शिशूंश्च सर्वान् ।
यदुप्रवीराः स्वगृहाणि जग्मु- स्ते चापि तीर्थान्यमुसंविचेरुः ॥
विसृज्य वृष्णीननु धर्मराजौ विदर्भराजोपचितां सुतीर्थाम् ।
जगाम पुण्यां सरितं पयोष्णीं सभ्रातृभृत्यः सह लोमशेन ॥
सुतेन सोमेन विमिश्रतोयां पयः पयोष्णीं प्रति सोध्युवास ।
द्विजातिमुख्यैर्मुदितैर्महात्मा संस्तूयमानः स्तुतिभिर्वराभिः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥

3-121-2 शैव्यादय इति स्वार्थे ष्यञ् ॥ 3-121-7 स पार्थोपि तिष्ठत्विति पूर्वेणान्वयः ॥ 3-121-8 यदर्थं शत्रुवधार्थम् । तत् सुपुत्रादिकम् । अस्माकमस्तीति शेषः ॥ 3-121-11 भैमा भीमकर्मकर्तारो भीमवंशजा वा ॥ 3-121-14 एतेन प्रद्युम्नेन ॥ 3-121-33 सुतेन अभिषुतेन । यज्ञे सोमपानतुल्यं तज्जलपानमित्यर्थः । पयोष्णीं प्रति पयोष्ण्यां पयोमात्रमध्युवासं भक्षितवान् ॥