अध्यायः 122

लोमशेन युधिष्ठिरंप्रति पयोष्णोतटे गयकृतयागवर्णनम् ॥ 1 ॥ तथा च्यवनेन शर्यातियाजनादिकथनम् ॥ 2 ॥ युधिष्ठिरेण लोमशंप्रतिसविस्तरं च्यवनचरित्रकीर्तनप्रार्थना ॥ 3 ॥

लोमश उवाच ।
गयेन यजमानेन सोमेनेह पुरंदरः ।
तर्पित श्रूयते राजन्स तृप्तो मुदमभ्यगात् ॥
इह देवैः सहेन्द्रैश्च प्रजापतिभिरेव च ।
इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥
आधूर्तरजसश्चेह राजा वज्रधरं प्रभुः ।
तर्पयामास सोमेन हयमेधेषु सप्तसु ॥
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्ययम् ।
वानप्रस्थं च भौमं च यद्द्रव्यं नियतं मखे ॥
चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः ।
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः ॥
सप्तैकैकस्ययूपस्य चषालाश्चोपरिश्थिताः । तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् ।
स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ॥
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः ।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥
प्रसङ्ख्यानानसङ्ख्येयान्प्रत्यगृह्णन्द्विजातयः ॥
सिकता वा यथा लोके यथावा दिवि तारकाः ।
यथा वा वर्षतो धारा असङ्ख्येयाः स्म केनचित् ॥
तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः ।
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ॥
भवेत्सङ्ख्येयमेतद्धि यदेतत्परिकीर्तितम् ।
न तस्य शक्याः सङ्ख्यातुं दक्षिणादक्षिणावतः ॥
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा ।
ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ॥
अल्पावशेषा पृथिवी चैत्यैरासीत्समाचिता ।
गयस्य यजमानस्य तत्रतत्र विशांपते ॥
स लोकान्प्राप्तवैनैन्द्रान्कर्मणा तेन भरत ।
सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ॥
तरस्मात्त्वमत्र राजेनद्र भ्रातृभिः सहितोच्युत ।
उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ॥
वैशंपायन उवाच ।
स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह ।
वैदूर्यपर्वतं चैव नर्मदां च महानदीम् ॥
`उद्दिश्य पाण्डवश्रेष्ठः स प्रतस्थे महीपतिः' ।
समागमत तेजस्वी भ्रातृभिः सहितो नघ ॥
तत्रास्य सर्वाण्याचख्यौ लोमशो भगवानृषिः ।
तीर्थानि रमणीयानि पुण्यान्यायतनानि च ॥
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह ।
तत्रतत्राददद्वित्तं ब्राह्मणेभ्यः सहस्रशः ॥
लोमश उवाच ।
देवानामेति कौन्तेय तथा राज्ञां सलोकताम् ।
वेदूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ॥
सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च ।
एनमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ॥
एष शर्यातियज्ञस्य देशस्तात प्रकाशते ।
साक्षाद्यत्रापिबत्सोममश्विभ्यां सह वासवः ॥
चुकोप भार्गवश्चापि महेन्द्रस् महातपाः ।
संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ॥
सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान् ।
`नासत्यौ च महाभाग कृतवान्सोमपीथिवौ' ॥
युधिष्ठिर उवाच ।
कथं विष्टम्भितस्तेन भगवान्पाकशासनः ।
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ । एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

3-122-3 आधूर्तरजसो गयनामा ॥ 3-122-4 वानरस्पत्यं वृक्षजं चषालादि । भौमं मृन्मयं स्थाल्यादि ॥ 3-122-5 चषालो यूपाकटकः । यूपः यज्ञस्तम्भः । चमसाः सोमपानपात्राणि । पात्र्यः हविःस्थापनार्थानि मृन्मयानि । स्रुचः हविःप्रदानार्थाः । स्रुवाहविरवदानार्थाः ॥ 3-122-8 प्रसङ्ख्यानान् एकयत्नेन भूयःखर्णमुद्रादेर्मापकान् खारीद्रोणादीन् ॥ 3-122-26 सोमस्य पीथः पानं तद्वन्तौ सोमपीथिनौ ॥