अध्यायः 123

लामशेन युधिष्ठिरंप्रति सुकन्योपाख्यानकथनारम्भः ॥ 1 ॥ कदाचन शर्यातनिना नृपेण सैन्यादिभिःसह च्यवनाश्रमाभिगमनम् ॥ 2 ॥ तत्र शर्यातिकन्यया सुकन्यया चिरतरतपश्चर्यानिरतस्य च्यवनस्य शरीरं पर्यावृत्य विवर्धमानमहावल्मीकावलोकनम् ॥ 3 ॥ तथा कुतूहलाद्वल्मीकोपरि दृश्यमानच्यवननयनयुगलस्याज्ञानात्कण्टकेन विभेदनम् ॥ 4 ॥ ततः क्रुद्धस्य च्यवनस्य प्रसादनाय शर्यातिना भार्यात्वाय तस्मै सुकन्यायाः प्रदानम् ॥ 5 ॥

लोमश उवाच ।
भृगोर्महर्षेः पुत्रोऽभूच्चयवनो नाम भारत ।
समीपे सरसस्तस्य तपस्तेपे महाद्युतिः ॥
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव ।
अतिष्ठत चिरं कालमेकदेशे विशांपते ॥
सवल्मीकोऽभवदृषिर्लताभिरिव संवृतः ।
कालेन महता राजन्समाकीर्णः पिपीलिकैः ॥
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः ।
तप्यते स्म तपो घोरं वल्मीकेन समावृतः ॥
अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः ।
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ॥
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः ।
एकैव च सुता सुभ्रूः सुकन्या नाम भारत ॥
सा सखीभिः परिवृता दिव्याभरणभूषिता ।
चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥
सा वै वसुमतीं तत्र पश्यन्ती सुमनोरमाम् ।
वनस्पतीन्प्रचिन्वन्ती विजहार सखीवृता ॥
रूपेण वयसा चैव भदनेन मदेन च ।
बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥
तां सखीरहितामेकामेकवस्त्रामलंकृताम् ।
ददर्श भार्गवो धमांश्चरन्तीमिव विद्युतम् ॥
तां पश्यमानो विजने स रेमे परमद्युतिः । क्षामकण्ठश्च विप्रर्षिस्तपोबलसमन्वितः ।
तामाबभाषेकल्याणीं सा चास्य न शृणोति वै ॥
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी । कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ।
किंनु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥
अक्रुद्ध्यत्स तथा विद्धे नेत्रे परममन्युमान् ।
ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत् ॥
ततो रुद्धे शकृन्मूत्रे सैन्यमासीत्सुदुःखितम् ।
तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ॥
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः । केनापकृतमद्येह भार्गवस्य महात्मनः ।
ज्ञातं वा यदि वाऽज्ञातं तद्द्रुतं ब्रूत माचिरम् ॥
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ।
सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ॥
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ।
पर्यपृच्छत्सुहृद्वर्गं पर्यजानन्न चैव ते ॥
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमनुखार्दितम् ।
पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत् ॥
मयाऽटन्त्येह वल्मीके दृष्टं सत्वमभिज्वलत् ।
खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ॥
एतच्छ्रुत्वा तु वल्मीकं शर्यातिस्तूर्णमभ्ययात् ।
तत्रापशय्त्तपोवृद्धं चन्द्रादित्यसमप्रभम् ॥
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः ।
अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ॥
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा ।
अपमानादहं विद्धो ह्यनया दर्पपूर्णया ॥
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् । तामेव प्रतिगृह्याहं राजन्दुहितरं तव ।
क्षंस्यामीति महीपाल सत्यमेतद्ब्रवीमि ते ॥
लोमश उवाच ।
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् ।
ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ।
प्राप्तप्रसादौ राजा वै ससैन्यः पुरमाव्रजत् ॥
सुकन्याऽपि पतिं लब्ध्वा तपस्विनमनिन्दिता ।
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥
अग्नीनामतीथीनां च शुश्रूषुनसूयिका । समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥

3-123-2 वीरस्तानेन वीरासनेन ॥ 3-123-11 क्षामकण्ठः क्षीणध्वनिः अतएव सा तद्वचनं न शृणोति ॥ 3-123-20 वयोवृद्धं च भार्गवम् इति झ. ध. पाठः ॥