अध्यायः 124

कदाचन च्यवनाश्रममुपागताभ्यामश्विभ्यां भार्यात्वाय सुकन्याप्रति प्रार्थनम् ॥ 1 ॥ तदकामयमानां तां प्रत्यश्विभ्यां स्वप्रसादाच्च्यवने रूपयौवनसंपन्ने सति तुल्यरूपेषु त्रिषु कस्यचिद्वरणचोदना ॥ 2 ॥ भर्त्राज्ञया तया तदङ्गीकारे च्यवनेन सहाश्विभ्यां सरसोऽन्तर्जले निमज्जनम् ॥ 3 ॥ सुकन्यया निमज्ज्योत्थितेषु सरूपेषु त्रिषु तेषु स्वपातिव्रत्यमहिन्ना च्यवनस्यैव वरणम् ॥ 4 ॥ ततस्तुष्टेन च्यवनेनाश्विनोः सोमरसदापनप्रतिज्ञानम् ॥ 5 ॥

लोमश उवाच ।
कस्य चित्त्वथ कालस्य त्रिदशावश्विनौ नृप ।
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव ।
ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ॥
कस्य त्वमसि वामोरु वनेऽस्मिन्किं करोषि च ।
इच्छाव भद्रे ज्ञातुं त्वां तत्वमाख्याहि शोभने ॥
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ ।
शर्यातितनयां वित्तं भार्यां मां च्यवनस्य च ॥
`नाम्ना चाहं सुकन्येति नृलोकेऽस्मिन्प्रतिष्ठिता ।
साऽहंसर्वात्मना नित्यं भर्तारमनुवर्तिनी' ॥
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु ।
कथं त्वमसि कल्याणि पित्रा दत्ताऽऽगता वने ॥
भ्राजसेऽस्मिन्वने भीरु विद्युत्सौदामनी यथा ।
न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ॥
अनाभरणसंपन्ना परमाम्बरवर्जिता ।
शोभयस्यधिकं भद्रे वनमप्यनलंकृता ॥
सर्वाभरणसंपनना परमाम्वरधारिणी ।
शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ॥
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् ।
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ॥
असमर्थं परित्राणे पोषणे तु शुचिस्मिते ।
सा त्वं च्यवनमुत्सृज्यवरयस्वैकमावयोः ॥
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ।
एवमुक्ता सुकन्याऽपि सुरौ ताविदमब्रवीत् ॥
रताऽहं च्यवने पत्यौ मैवं मां पर्यशङ्कतम् ।
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ॥
युवानं रूपसंपन्नं करिष्यावः पतिं तव । ततस्तस्यावयोश्चैव वृणीष्वान्यतमं पतिम् ।
एतेन समयेनैनमामन्त्रय पतिं शुभे ॥
सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम् ।
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति ।
`सा भर्त्रा समनुज्ञाता क्रियतामित्यथाब्रवीत् ॥
श्रुत्वा तदश्विनौ वाक्यं तस्यास्तत्क्रियतामिति' ।
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥
ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ।
अश्विनावपि तद्राजन्सरः प्राविशतां तदा ॥
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्त्रयः । दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ।
तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः ॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे ।
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ॥
`त्वमश्विनोरन्यतरं च्यवनं वा यशस्विनि' ।
यत्र वाऽप्यभिकामाऽसि तं वृणीष्व सुशोभने ॥
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् ।
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥
लब्ध्वा तु च्यवनो भार्यांवयोरूपं च वाञ्छितम् ।
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥
यथाऽहं रूपसंपन्नो वयसा च समन्वितः ।
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥
तस्माद्युवां करिष्यामि प्रीत्याऽहं सोमपीथिनौ ।
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ॥
तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः । च्यवनश्च सुकन्या च सुराविव विजह्रतुः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥

3-124-1 विवृतामनाच्छादीताम् ॥ 3-124-4 ततः सुकन्या सव्रीडेति झ. पाठः ॥