अध्यायः 127

लोमशेन युधिष्ठिरंप्रति मान्धातृपदप्रवृत्तिनिमित्तकथनपूर्वकं मांदातृचरित्रकीर्तनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः ।
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः ॥
कथं चैनां परां ख्यातिं प्राप्तवानमितद्युतिः ।
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः ॥
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ।
`सत्यकीर्तेर्हि मान्धातुः कथ्यमानं त्वयाऽनघ' ॥
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युते ।
जन्म चाप्रतिवीर्यस् कुशलो ह्यसि भाषितुम् ॥
लोमश उवाच ।
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः ।
यथा मान्धातृशब्दो वै लोकेषु परिगीयते ॥
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः ।
सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः ॥
अश्वमेधसहस्रं च प्राप्य धर्मभृतांवरः ।
अन्यैश्च क्रतुभिर्मुख्यैरयजत्स्वाप्तदक्षिणैः ॥
अनपत्यस्तु राजर्षिः स महात्मा महाव्रतः । मन्त्रिष्वाधाय तद्राज्यं वनित्यो बभूव ह ।
शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान् ॥
स कदाचिन्नृपो राजन्नुपवासेन दुःखितः ।
पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ॥
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः ।
इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ॥
संभृतो मन्त्रपूतेन वारिणा कलशो महान् ।
तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ॥
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् । `तद्वारि विहितं राजन्यस्मिन्नासीत्सुसंस्कृतम्' ।
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः ॥
रात्रिजागरणाच्छ्रान्तान्सौद्युम्निः समतीत्य तान् । शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः ।
तं प्रविश्याश्रमं शान्तः पानीयं सोऽभ्ययाचत ॥
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा ।
नाश्रौषीत्कश्चन तदा शकुनेरिव वाशतः ॥
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः ।
अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ॥
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः ।
निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ॥
ततस्ते प्रत्यबुध्यन्त मुनयः सतपोधनाः ।
निस्तोयं तं च कलशं ददृशुः सर्व एव ते ॥
कस्य कर्मेदमिति ते पर्यपृच्छन्समागताः ।
युवनाश्वो ममेत्येवं सत्यं समभिपद्यत ॥
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा ।
सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः ॥
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् ।
पुत्रार्थं तव राजर्षे महाबलपराक्रम ॥
महाबलो महावीर्यस्तपोबलसमन्वितः ।
यः शक्रमपि वीर्येण गमयेद्यमसादनम् ॥
अनेन विधिना राजन्मयैतदुपपादितम् ।
अब्भक्षणं त्वया राजन्न युक्तं कृतमद्य वै ॥
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽनय्था ।
नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ॥
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः ।
आपस्त्वया महाराज मत्तपोवीर्यसंभृताः ॥
ताभ्यस्त्वमात्मना पुत्रमीदृशं जनयिष्यसि ।
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् ॥
यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् ।
`न च प्राणैर्महाराज वियोगस्ते भविष्यति' ॥
मा खिदस्त्वं हि राजेनद्र दैवं हि बलवत्तरम्' ।
गर्भधारणजं वाऽपि न खेदं समवाप्स्यसि ॥
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः ।
वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इव स्थितः ॥
निश्चक्राम महातेजा न च तं मृत्युराविशत् ।
युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ॥
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् ।
ततो देवा महेन्द्रं तमपृच्छन्धास्यतीति किम् ॥
प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे । मामयं धास्यतीत्येवं भाषिते चैव वज्रिणा ।
मांधातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ॥
प्रदेशिनीं शक्रदत्तामाखाद्य स शिशुस्तदा ।
अवर्धत महातेजाः किष्कून्राजंस्त्र्योदश ॥
वेदास्तं सधनुर्वेदा दिव्यान्स्त्राणि चेश्वरम् ।
उपतस्थुर्महाराजं ध्यातमात्राणि सर्वशः ॥
धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये ।
अभेद्यं कवचं चैव सद्यस्तमुपशिश्रियुः ॥
सोऽभिषिक्तो भगवता स्वयं शक्रेण भारत ।
धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ॥
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः ।
रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ॥
तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप ।
तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ॥
चितचैत्यो महातेजा धर्मान्प्राप्य च पुष्कलान् ।
शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः ॥
एकाह्ना पृथिवी तेन धर्मनित्येन धीमता ।
विजिता शासनादेव सरत्नाकरपत्तना ॥
तस्य चैत्यैर्महाराज क्रतूनां दक्षिणावताम् ।
चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् ॥
तेन पद्मसहस्राणि गवां दश महात्मना ।
ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ॥
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना ।
वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ॥
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् ।
शर्जन्निव महामेघः प्रमथ्य निहतः शरैः ॥
प्रजाश्चतुर्विधास्तेन त्राता राजन्कृतात्मना ।
तेनात्मतपसा लोकास्तापिताश्चातितेजसा ॥
तस्यैतद्देवयजनं स्थानमादित्यवर्चसः ।
यस्य पुण्यतमे देशे कुरुक्षेत्रेस्य मध्यतः ॥
`तथा त्वमपि राजेन्द्र मान्धातेव महीपतिः ।
धर्मं कृत्वा महीं रक्ष स्वर्गलोकं गमिष्यसि' ॥
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् ।
जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि ॥
वैशंपायन उवाच ।
एवमुक्तः स कौन्तेयो लोमशेन महर्षिणा । पप्रच्छानन्तरं भूयः सोमकं प्रति भारत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥

3-127-1 यौवनाश्वो युवनाश्वपुत्रः । यौवनाश्विर्नृपोत्तम इति क. पाठः ॥ 3-127-8 आत्मानं चित्तम् । आत्मवान् जितचित्तः । संयोज्येष्टदेवतया ऐवयं नीत्वा ॥ 3-127-10 सौद्युम्नेः युवनाश्वस्य ॥ 3-127-14 वाशतः शब्दं कुर्वतः ॥ 3-127-16 निर्वाणं तपःफलम् ॥ 3-127-25 इष्टिमिच्छितम् ॥ 3-127-30 किं धास्यति पास्यति स्तन्याभावात् ॥ 3-127-31 मां धास्यति मां धाता । धातेति लुडन्तस्य व्याख्यानं धास्यतीति । प्रदेशिनीं, तर्जनीम् ॥ 3-127-32 किष्कून् हस्तान् वितस्तीन्वा ॥ 3-127-36 चक्रमाज्ञा 3-127-38 चितचैत्यः कृतचयनक्रतुः ॥ 3-127-41 पद्मं शतकोटयस्तेषामपि सहस्राणि दश ॥ 3-127-44 चतुर्विधाः सुरनरतिर्यक््स्थावराः ॥