अध्यायः 130

युधिष्ठिरेण मार्कण्डेयाश्रमगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरंप्रति संग्रहेण मार्कण्डेयचरित्रकथनम् ॥ 2 ॥

`वैशंपायन उवाच ।
सोमकस्याश्रमे पुण्ये धर्मराजो युधिष्ठिरः । षड्रात्रमुष्य नियतो भ्रात्रादिभिररिंदमः ।
तस्मान्निर्गम्य सहसा दिशं प्रायात्तथोत्तराम् ॥
बहुदूरं ततो गत्वा वनं तत्र मनोहरम् ।
बहुपष्पफलाकीर्णं महानद्युपशोभितम् ॥
दृष्ट्वा पप्रच्छ राजाऽसौ लोमशं मुनिसत्तमम् ।
किमिदं दृश्यते रम्यं वनं बहुमृगद्विजम् ॥
बहुपुष्पफलोपेतं मुनिसङ्घैर्निषेवितम् ।
स्रवन्त्या च समायुक्तं महत्या पुण्यतोयया ॥
ऋषीणामाश्रमाः पुण्या दृश्यन्ते विविधा मुने । कस्यायमाश्रमः पुण्यः कस्येमे मुनयोऽमलाः ।
एतदिच्छाम्यहं श्रोतुं वद त्वं वदतांवर ॥
लोमश उवाच ।
शृणु राजेनद््र भद्रं ते वनस्यास्य पुरातनम् ।
वृत्तान्तं निखिलेनाद्य प्रोच्यमानं मयाऽनघ ॥
मृकण्डुपुत्रो मेधावी मार्कण्डेयो महामुनिः ।
बाल एव महाबुद्धिः सर्वविद्याविशारदः ॥
मातापित्रोः प्रियं कुर्वंस्तपोर्थं वनमाविशत् ।
अत्राश्रमपदं कृत्वा तपस्तेपे सुदारुणम् ॥
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ।
जलस्थः शिशिरे योगी बहुकालमवर्तत ॥
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः । जितेन्द्रियो जितप्राणश्चिन्तयन्दृढमव्ययम् ।
अनाहारो जितक्रोधश्चिरमेवमवर्तत ॥
एतस्मिन्नन्तरे राजन्ननावृष्टिः सुदारुणा ।
संभूता सर्वसंहर्त्री तया दग्धं चराचरम् ॥
अनावृष्ट्यां प्रवृत्तायां सर्वे च निधनं गताः ।
केचिदन्ये महात्मानो मुनयो द्विजपुङ्गवाः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा सर्वाश्च योषितः । पशुपक्षिमृगाः सर्वे क्षुत्पिपासासमाकुलाः ।
कृशाः शुष्कोष्ठकण्ठाश्च श्रान्ता भ्रान्ता विचेतसः ॥
केनचित्पुण्यशेषेण मार्कण्डेयस्य धीमतः ।
आश्रमं शनकैः प्राप्ता मूर्च्छिताः सहसाऽपतन् ॥
समाधिविरतो योगी मार्कण्डेयो महातपाः ।
तद्वनं निबिडं दृष्ट्वा जनैः क्षुत्तृट्समाकलैः ॥
दयार्द्रहृदयो योगी शिवं ध्यात्वा हृदम्बुजे । तेषां संरक्षणार्थाय वेदगन्धिस्वरेण सः ।
आजुहाव तदा गङ्गां तपोयोगेन भारत ॥
गङ्गा समागता शीघ्रं तेनाहूताऽतिपावना ।
नाम्ना वेदनदीत्येव प्रख्याता लोकपावना ॥
पर्जन्यश्च समाहूतः सुखं वर्षति भारत । सस्यानि च समृद्धानि फलमूलान्यनेकशः ।
संभूतान्यत्रराजेनद्र सर्वे ते रक्षिता जनाः ॥
मार्कण्डेयं प्रशंसन्तो जनाः सर्वे द्विजात्तयः ।
चिरं सुखमवर्तन्त तेन संरक्षिता नृप ॥
एवं विधाय रक्षां स सर्वेषां पुण्यकर्मणाम् ।
पुनश्चचार च तपः परमेश्वरतुष्टये ॥
एवं बहुतिथे काले प्रादुरासीन्महेश्वरः ॥
दृष्ट्वा च सर्वदेवेशं चन्द्रमौलिमुमापतिम् ।
ब्रह्मविष्ण्वादिभिर्देवैः सिद्धविद्याधरोरगैः ॥
गन्धर्वयक्षप्रवरैः सकिन्नरपतत्रिभिः । स्तूयमानं महादेवमव्ययं निष्कलं शिवम् ।
प्रणनाम मुनिर्भक्त्या साष्टाङ्गं च पुनः पुनः ॥
प्रणम्योत्थाय सहसा बद्धाञ्जलिपुटो मुनिः ।
तुष्टाव विविधैः स्तोत्रैर्महादेवं जगत्पतिम् ॥
तमुवाच महादेवो मार्कण्डेयं महामुनिम् ।
वरं वरय भद्रं ते वरदोस्मि मुने तव ॥
एवं संबोधितस्तेन शिवेन परमात्मना ।
सगद्गदमिदं वाक्यमुवाच परमेश्वरम् ॥
नान्यं वरं वृणे शंभो ---त्वत्पादपङ्कजे ।
भक्तिंह्यनन्यसुलभां स्व व्यभिचारिणीम् ॥
एवमुक्तोऽथ मुनिना भरतगीश्वरेश्वरः ।
पुनरेवाब्रवीद्वाक्यं मार्कण्डेय महामुनिम् ॥
सम्यगाराधितः पित्रा तव पुत्रार्थमादरात् ॥
शतायुर्निर्गुणः पुत्रः शुभः षोडशवार्षिकः ।
उभयोरन्यमिच्छ त्वमित्युक्तः सोऽब्रवीच्च माम् ॥
निर्गुणो मास्तु देवेश शतायुः षोडशाब्दकः ।
सुगुणोऽस्तु सुतो मेऽद्य इति पित्रावृत पुरा ॥
त्वया तप्तेन तपसा तोषितोऽहं भृशं मुने ।
दीर्घमायुर्मया दत्तं मृत्युश्च प्रतिषेधितः ॥
इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत ।
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयोऽमलाः ॥
अत्रैकरात्रमुषिताः सर्वे मृत्युं तरन्ति वै । अत्रैव भरतश्रेष्ठ प्रयतो वस भूमिप' ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥