अध्यायः 131

लोमशेन युधिष्ठिरंप्रति नानातीर्थमहिमानुवर्णनम् ॥ 1 ॥

लोमश उवाच ।
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः ।
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ॥
अम्बरीषश्च नाभाग इष्टवान्यमुनामनु ।
यत्रेष्ट्वा दशपद्मानि सदस्येभ्योऽभिसृष्टवान् ॥
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः ।
देशश्च नाहुषस्यायं य़ज्वनः पुण्यकर्मणः ॥
सार्वभौमस्य कौन्तेय ययातेरमितौजसः ।
स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह ॥
पश्य नानाविधाकारैरग्निभिर्निचितां महीम् ।
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ॥
एषा शम्येकपत्रा सा शकटं चैतदुत्तमम् ।
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ॥
एतच्चर्चीकपुत्रस्य योगैर्विचरतो महीम् ।
प्रसर्पणं महीपाल रौप्यायाममितौजसः ॥
अत्रानुवंशं पठतः शृणु मे कुरुनन्दन ।
उलूखलैराभरणैः पिशची यदभाषत ॥
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले ।
तद्वद्भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि ॥
एकरात्रमुवित्वेह द्वितीयं यदि वत्स्यसि ।
एतद्वै ते गदेवावृत्तं रात्रौ वृत्तमितोऽन्यथा ॥
अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम ।
द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत ॥
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् ।
ययातिर्बहुरत्नौर्घर्यत्रेन्द्रो मुदमभ्यगात् ॥
एतत्प्लक्षावतरणं यमुनातीर्थमुत्तमम् ।
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ॥
अत्रसारस्वतैर्यज्ञैरीजानाः परमर्षयः ।
यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम् ॥
अत्रवै भरतो राजा राजन्क्रतुभिरिष्टवान् ।
हयमेधेन यज्ञेन मेध्यमश्वमवासृजत् ॥
असकृत्कृष्णसारङ्गं धर्मेणाप्य च मेदिनीम् । अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् ।
प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः ॥
अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोँकान्प्रपश्यति ।
पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश ॥
वैशंपायन उवाच ।
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः ।
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ॥
सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम ।
इहस्तः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ॥
लोमश उवाच ।
एवमेतन्महाबाहो पश्यन्ति परमर्षयः ।
इह स्नात्वा तपोयुक्तांस्त्रील्लोँकान्सचराचरान् ॥
सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम् ।
यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि ॥
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः ।
ऋषयश्चैव कौन्तेय तथा राजर्षयोपि च ॥
वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना । कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥

3-131-2 अभिसृष्टवान् दत्तवान् ॥ 3-131-4 यज्ञवास्तु यज्ञभूमिः । इह अस्मिन्वास्तुनि । इदमुत्तरान्वयि ॥ 3-131-5 अग्निभिरग्निस्थापनार्थैरिष्टकारचितैः स्थण्डिलैः ॥ 3-131-6 शमी आमिक्षार्थं दध्युत्पादनार्थमानीता शमीशाखा । एकपत्रा शातितपत्रा ॥ 3-131-7 प्रसर्पणं संचारभूमिः । रौप्यायां रूप्यवत् श्वेतवर्णायां स्थत्यां नद्यां वा । सामीप्ये सप्तमी । प्रसर्पणं तीर्थमित्यन्ये ॥ 3-131-8 अनुवंशं परंपरागतमाख्यानश्वोकम् । उलूखलैरिति । उलूखलसदृशानि स्त्रीणां कर्णाभरणानि भवन्तीति स्वयमुलूलैरेवाभरणैर्युक्तासतीति शेषः । एतेन विकृतवेषत्वं पिशाच्याः ॥ 3-131-9 युगन्धरे पयः प्राश्येति ध. पाठः । उक्तं भाषणमेवाह द्वाभ्यां युगन्धर इति । अस्मिंस्तीर्थे सपुत्रा ब्राह्मणी स्नातुमागता तां प्रति पिशाची वदति । त्वया युगन्धरे पर्वते देशे वा दधिप्राशनं कृतम् । तत्रोष्ट्रीक्षीरं गर्दभ्यादिक्षीरं च दधि क्रियते । तथा अच्युतस्थलाख्ये संकरजानां ग्रामे वासश्च कृतः । तथा भूतिलयाख्ये दस्युग्रामेऽग्निदग्धानां मृतानां क्षेपणं यस्यां नद्यां क्रियते तस्यां स्नातासि । अतो दोषत्रयवती त्वम् । एतत्करणे रहि प्रायश्चित्तं धर्मशास्त्रे प्रसिद्धम् । औष्ट्रमैकशफं क्षीरं सुरातुल्यमिति । संसृज्य संकरैः सार्धं प्राजापत्यं व्रतं चरेदिति । प्रोष्यभूतिलये विप्रः प्राजापत्यं व्रतं चरेदिति च । तच्च त्वया न कृतमतः कथमत्र वस्तुमिच्छसि । दोषवतामिह तीर्थे वासो दुर्लभ इत्यर्थः । एवं पिशाचीवाक्यं श्रुत्वापि सा ब्राह्मणी तत्र स्नानादिकं कृतवती । ततस्तया राक्षस्या तस्या घटपिठरादिकं नाशितम् । उक्तंच । एतत्तव दिवावृत्तं रात्रौ वृत्तं तु द्रक्ष्यसीति । वृत्तं जातम् । रात्रौ तु तव पुत्रमपि नाशयिष्यामीति भावः । अथापि द्वितीयां रात्रिं वस्तुमिच्छसि चेत्तव भूयांसमपकारं करिष्यामीति युगन्धरादिदेशत्रयनिन्दापरत्वेन व्याख्या ॥ 3-131-10 त्वं तु अब्रह्मवित् एकरात्रमेवात्र वस्तुं योग्या । यदि द्वितीयां वस्तुमिच्छसि तर्हि ते तव एतत् मदीयं वृत्तं भविष्यति मद्वत् पिशाची भूत्वात्र स्नानं न लप्स्यसे । एतदिति स्ववृत्तस्याभिनीय प्रदर्शनम् । द्वितीयदिनवासस्यैवैतत्फलं । द्वितीयरात्रिवासे तुं इतोन्था अहल्यादिवन्मोहप्राप्त्या शिलाभावो भविष्यति । तेन तीर्थदर्शनमपि न लप्स्यसे इति ॥ 3-131-13 एतत्प्लक्षवटं नामेति क. पाठः ॥ 3-131-14 दन्तोलूखलिनस्तत्रेति क. पाठः । सारस्वतैर्ब्राह्मणैः ऋत्विग्भिर्यज्ञैरीजानाः यूपोलूखलिकाः यूपान् उलूखलानि च यज्ञसाधनान्याददते यूपोलूखलिकाः ॥ 3-131-16 कृष्णसारङ्गं कृष्णहरिणसदृशं श्यामकर्णमित्यर्थः ॥ 3-131-21 तीर्थान्तरमाह सरस्वतीति । पश्यैकशरणावृतामिति क. पाठः ॥