अध्यायः 009

व्यासेन धृतराष्ट्रंप्रति पुत्रस्नेहस्य दुस्त्यजत्वे दृष्टान्तत्वेन सुरभ्युपाख्यानाख्यानपूर्वकं कौरवाणां जीवितस्य पाण्डवैः सह शमाधीनत्वाभिधानम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
भगवन्नाहमप्येतद्रोचये द्यूतसंभवम् ।
मन्ये तद्विधिनाऽऽकृष्य कारितोस्मीति वै मुने ॥
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च ।
गान्धार्या नेष्यते द्यूतं तत्र मोहात्प्रवर्तितम् ॥
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् ।
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥
व्यास उवाच ।
वैचित्रवीर्य नृपते सत्यमाह यथा भवान् ।
दृढं विझः परं पुत्रं परं पुत्रान्न विद्यते ॥
इन्द्रोप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः । अन्यैः समृद्धैरप्यर्थैर्न सुतानमन्यते परम् ।
अत्र ते वर्तयिष्यामि गहदाख्यानमुत्तमम् ।
सुरभ्याश्चैव संवादमिन्द्रस्य च विशांपते ॥
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल ।
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत ॥
इन्द्र उवाच ।
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् ।
मनुष्येष्वथवा गोषु नैतदल्पं भविष्यति ॥
सुरभिरुवाच ।
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप ।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम् । प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम् ।
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप ॥
`एनं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप ।' कृपाविष्टाऽस्मि देवेन्द्र मनश्चोद्वेपते मम ॥
एकस्तत्रबलोपेतो धुरमुद्वहतेऽधिकाम् । अपरोप्यबलप्राणः कृशो धमनिसंततः ।
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः ।
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता ।
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥
शक्र उवाच ।
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने ।
किं कृपायितवत्यत्र पुत्र एको निपीड्यते ॥
सुरभिरुवाच ।
यदि पुत्रसहस्राणि सर्वत्रसमतैव मे ।
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिकाकृपा ॥
व्यास उवाच ।
तदिन्द्रः सुरभेर्वाक्यं निशम्य भृशविस्मितः ।
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥
प्रववर्ष च तत्रैव सहसा तोयमुल्वणम् ।
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ॥
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा ।
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा ॥
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक ।
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ॥
चिराय तव पुत्राणां शतमेकश्च भारत ।
पाण्डौः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाःसुदुःखिताः ॥
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि ।
इति दीनेषु पार्थेषु मनो मे परितप्यते ॥
यदि पार्थिव कौख्याञ्जीवमानानिहेच्छसि । दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि नवमोऽध्यायः ॥ 9 ॥

3-9-5 सुरभ्या देवधेन्वा ॥ 3-9-7 अन्वकृपायत अनुकम्पितवान् ॥ 3-9-9 कौशिक हे इन्द्र ॥ 3-9-10 प्रतोदेन तीक्ष्णाग्रलोहवता दण्डेन ॥ 3-9-12 धुरं भारम् । धमनिसंततः शिराभिर्व्याप्तः । निर्मांस इत्यर्थः ॥ 3-9-13 वधो दण्डाघातेन । तोदः प्रतोदेन ॥ 3-9-15 कृपायितवती कृपांकृतवती । पुत्र एको निपीड्यते बहुषु पुत्रेषु एकः कश्चित् निपीड्यत एवेत्यर्थः ॥ 3-9-18 उल्वणं उत्कटम् ॥ 3-9-21 मन्दा- त्वत्पुत्रवत्कपटानभिज्ञाः ॥