अध्यायः 137

लोमशेन रैभ्याश्रमंगतं युधिष्ठिरंप्रति यवक्रीतोपाख्यानकथनारम्भः ॥ 1 ॥ भरद्वाजपुत्रेण यवक्रीतेन स्वपितृमित्रे रैभ्ये तत्पुत्रयोरर्वावसुपरावस्वोश्चासूयया निवैवोपदेशं वेदाधिगमाय इन्द्रंप्रति तपश्चरणम् ॥ 2 ॥ इन्द्रनिवारितेनापि यवक्रीतेन बलात्कारेण तस्माद्वरग्रहणम् ॥ 3 ॥ भरद्वाजेन लब्धवरं यवक्रीतंप्रति गर्वेण रैभ्यपीडाप्रतिषेधाय बालध्युपाख्यानकथनम् ॥ 4 ॥

लोमश उवाच ।
एषा मधुविला नाम समङ्गा संप्रकाशते ।
एतत्कर्दमिलं नाम भरतस्याभिषेचनम् ॥
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः ।
आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ॥
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ ।
अदितिर्यत्रपुत्रार्थं तदन्नमपचत्पुरा ॥
एनं पर्वतराजानमारुह्य भरतर्षभाः ।
अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ॥
एते कनखला राजन्नृषीणां दयिता नगाः ।
एषा प्रकाशते गङ्गा युधिष्ठिर यशस्विनी ॥
सनत्कुमारो भगवानत्र सिद्धिमगात्पुरा ।
आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ॥
अपां ह्रदं च पुण्याख्यं भृगुतुन्दं च पर्वतम् ।
तूष्णीं गङ्गां च कौन्तेय सानुजः समुपस्पृश ॥
आश्रमः स्थूलशिरसो रमणीयः प्रकाशते ।
अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ॥
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते ।
भारद्वाजो यत्रकविर्यवक्रीतो व्यनश्यत ॥
युधिष्ठिर उवाच ।
कथं युक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् ।
किमर्थं च यवक्रीतः पुत्रोऽनश्यत वै मुनेः ॥
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि तत्त्वतः ।
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ॥
लोमश उवाच ।
भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः ।
तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ॥
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू ।
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ॥
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् ।
तयोश्चाप्यतुला प्रीतिरभवद्भरतर्षभ ॥
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् ।
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघः ॥
पर्यतप्यत तेजस्वी मन्युनाऽभिपरिप्लुतः ।
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ॥
सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् ।
जनयामास संतापमिन्द्रस्य सुमहातपाः ॥
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर ।
अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ॥
यवक्रीत उवाच ।
द्विजानामनधीता वै वेदाः सुरगणार्चित ।
प्रतिभान्त्विति तप्येहमिदं परमकं तपः ॥
स्वाध्यायार्थं समारम्भो ममायं पाकशासन ।
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ॥
कालेन महता वेदाः शक्या गुरुमुखाद्विभो ।
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ॥
इन्द्र उवाच ।
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि ।
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ॥
लोमश उवाच ।
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत ।
भूय एवाकरोद्यत्नं तपस्यमितविक्रमः ॥
घोरेण तपसा राजंस्तप्यमानो महत्तपः ।
संतापयामास भृशं देवेन्द्रमिति नः श्रुतम् ॥
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् ।
उपेत्य बलभिद्देवो वारयामास वै पुनः ॥
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव ।
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ॥
यवक्रीत उवाच ।
न चैतदेवं क्रियते देवराजसमीप्सितम् ।
महता नियमेनाहं तप्स्ये घोरतरं तपः ॥
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं होष्यामि वा मघवंस्तन्निबोध ।
यद्येतदेवं न करोषि कामं ममेप्सितं देवराजेह सर्वम् ॥
लोमश उवाच ।
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः ।
प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान् ॥
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः ।
अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ॥
यवक्रीतस्य यत्तीर्थमुचितं शैचकर्मणि ।
भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ॥
यदाऽस्य वदतो वाक्यं न स चक्रे द्विजोत्तमः ।
वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ॥
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् ।
स्नातुमभ्यागतं शक्रो यवक्रीतमदर्शयत् ॥
तं ददर्श यवक्रीतो यत्नवन्तं निबन्धने ।
प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥
किमिदं वर्तते ब्रह्मन्किंच ते ह चिकीर्षितम् ।
अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः ॥
इन्द्र उवाच ।
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति ।
क्लिश्यते हि जनस्तात तरमाणः पुनःपुनः ॥
यवक्रीत उवाच ।
नायं शक्यस्त्वया बद्धुं महानोघस्तपोधन ।
अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ॥
इन्द्र उवाच ।
यथैव भवता चेद तपो वेदार्थमुद्यतम् ।
अशक्यं तद्वदस्माभिरयं भारः समाहितः ॥
यवक्रीत उवाच ।
यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर ।
तथा यदि ममापीदं मन्यसे पाकशासन ॥
क्रियतां यद्भवेच्छक्यं त्वया सुरगणेश्वर ।
वरांश्च मे प्रयच्छान्यासन्यैर्विद्वान्भवितास्म्यहम् ॥
लोमश उवाच ।
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः ।
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ॥
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति ।
स लब्धकाम पितरं समेत्याथेदमब्रवीत् ॥
यवक्रीत उवाच ।
प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः ।
अपि चान्यान्भविष्यावो वरा लब्धास्तथा मया ॥
भरद्वाज उवाच ।
दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान् ।
स दर्पपर्णः कृपणः क्षिप्रमेव विनङ्क्ष्यसि ॥
अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः ।
मुनिरासीत्पुरा पुत्र बालधिर्नाम विश्रुतः ॥
स पुत्रशोकादुद्विग्रस्तपस्तेपे सुदुष्करम् ।
भवेन्मम सुतोऽमर्त्य इतितं लब्धवांश्च सः ॥
तस्य प्रसादो वै देवैः कृतो न त्वमरैः समः ।
नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति ॥
बालधिरुवाच ।
यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः ।
तावज्जीवेन्मम् सुतो निर्वाणमुत मे मतः ॥
भरद्वाज उवाच ।
तस्य पुत्रस्तदा जत्रे मेधावी क्रोधनस्तदा ।
स तु लब्धवरो दर्पादृषींश्चैवावमन्यत ॥
विकुर्वाणो मुनीनां च व्यचरत्स महीमिमाम् ।
आससाद महावीर्यं धनुषाक्षं मनीषिणम् ॥
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् ।
भव भस्मेति चोक्तः स न भस्म समपद्यत ॥
धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् । `मुनिस्तत्कारणं ज्ञात्वा स्वयं महिषरूपधृत् ।
शृङ्गेणाद्रीनचलयत्ततोऽयंभस्मसादभूत्' ॥
निमित्तमस्य महर्षिर्भेदयामास पर्वतान् ।
स निमित्ते विनष्टे तु ममार सहसा शिशुः ॥
तं मृतं पुत्रमादाय विललाप ततः पिता ॥
लालप्यमानं तं दृष्ट्वा मुनयः परमार्तवत् ।
ऊचुर्वेदविदः सर्वै गाथां यां तां निबोध मे ॥
न दिष्टमर्थमत्येतुमीशोऽमर्त्यः कथंचन ।
महर्षिर्भेदयामास धनुषाक्षो महीधरान् ॥
एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तपस्विनः ।
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् ॥
एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ ।
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः ॥
स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा ।
रैभ्यश्चापि तपस्वी च कोपनश्च महानृषिः ॥
यवक्रीत उवाच ।
एव करिष्ये मा तापं तात कार्षीः कथंचन ।
यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम ॥
लोमश उवाच ।
उक्त्वा स पितरं श्लक्ष्ण यवक्रीरकुतोभयः । विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥

3-137-1 मधुविलेति अष्टावकाङ्गसमीकरणात्पूर्वं समंगाया एव नाम मधुवहानामेति क.ध. पाठः ॥ 3-137-3 अन्नं ब्रह्मौदनम् अदितिः पुत्रकामा । साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचदिति श्रुतेः ॥ 3-137-4 अयशस्यां अयशस्करीम् । असंशब्द्यां अकीर्तनीयाम् । अयशस्यामसह्यां च अलक्ष्मीं इति ध. पाठः ॥ 3-137-14 इतरो भरद्वाजस्तपस्व्येव नतु शिष्यादिसंपन्नः । कीर्तिर्बाल्यात्प्रभृति भारत इति झ. पाठः ॥ 3-137-20 सर्वज्ञानानि सर्वशास्त्राणि 3-137-22 विघातेन आत्मनाशनेन ॥ 3-137-26 न प्रतिभास्यन्तीति नकारावृत्त्या योज्यम् ॥ 3-137-46 अमर्त्यः अमर इत्यर्थः ॥ 3-137-48 अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेर्द्ध्रुवम् । इति झ. ध. पाठः ॥ 3-137-52 निमित्तं पर्वतान्भेदयामासखण्डयामास ॥ 3-137-55 दिष्टं दैवविहितम् ॥