अध्यायः 140
रैभ्ययाज्येन बृहद्द्युम्नेन सत्रे सहायत्वेन
वृतयोरर्वावसुपरावस्वोस्तदर्थं गमनम् ॥ 1 ॥ भार्यादिदृक्षया पुनराश्रमं गतेन
परावसुना रात्रौ मृगभ्रमेण कृष्णाजिनसंवीतस्य रैभ्यस्य हननम् ॥ 2 ॥
परावसुचोदनया बृहद्द्युम्नेन ब्रह्महत्याग्रस्त इति प्रोत्सार्यमाणेनार्वावसुना
तपःप्रसादितसूर्यादिदेवेभ्यो रैभ्यभरद्वाजयवक्रीतोत्थानादिवरग्रहणम् ॥ 3 ॥
देवैर्यवक्रीतदुःखस्य वनोपदेशं वेदाभ्यासफलत्वकथनपूर्वकं रैभ्यादीनामुज्जीवनम् ॥ 4 ॥
एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः ।
सत्रं तेने महाभागो रैभ्ययाज्यः प्रतापवान् ॥
तेन रैभ्यस्य वै पुत्रावर्वावसुपरासू ।
वृतौ सहायौ सत्रार्थं बृहद्द्युम्नेन धीमता ॥
तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः ।
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ॥
अथावलोककोऽगच्छद्गृहानकः परावसुः ।
कृष्णाजिनेन संवीतं ददर्श पितरं वने ॥
जघन्यरात्रे निद्रान्धः सावशेषे तमस्यापि ।
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ॥
मृगं तु मन्यमानेन पिता वै तेन हिंसितः ।
अकामयानेन तदा शरीरत्राणमिच्छता ॥
तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत ।
पुनरागम्य तत्सत्रमब्रवीद्धातरं वचः ॥
इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन ।
मया च हिंसितस्तातो मन्यमानेन वै मृगम् ॥
सोऽस्मदर्थे व्रतं तात चर त्वं ब्रह्मघातिनाम् ।
समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ॥
अर्वावसुरुवाच ।
करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः ।
ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ॥
लोमश उवाच ।
स तस्यब्रह्महत्यायाः पारं गत्वा युधिष्ठिर ।
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ॥
ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् ।
बृहद्द्युम्नमुवाचेदं वचनं हर्षगद्गदम् ॥
एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति ।
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वामसंशयम् ॥
लोमश उवाच ।
तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट््पते ।
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा ।
न मया ब्रह्महत्येयं कृतेत्याह पुनःपुनः ॥
उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महा इति भारत ।
नैवस्म प्रतिजानामि ब्र्हमहत्यां स्वयंकृताम् ।
मम भ्रात्रा कृतमिदं मया स परिमोक्षितः ॥
स तथा प्रवदन्क्रोधात्तैश्च प्रेष्यैः प्रभाषितः ।
तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः ॥
उग्रं तपः समास्थाय दिवाकरमथाश्रितः ।
रहस्यवेदं कृतवान्सूर्यस्य द्विजसत्तमः ॥
मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः ॥ 3-140-19aप्रीतास्तस्याभवन्देवाः कर्मणाऽर्वावसोर्नृप ।
तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥
ततो देवा वरं तस्मै ददुरग्निपुरोगमाः ॥
स चापि वरयामास पितुरुत्थानमात्मनः ।
अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे ॥
भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः ।
प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः ॥
एवमस्त्विति तं देवाः प्रोचुश्चापि वरान्ददुः ।
ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर ॥
अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् ।
समधीतं मया ब्रह्म व्रतानि चरितानि च ॥
कथं च रैभ्यः शक्तो मामदीयानं तपस्विनम् ।
तथायुक्तेन विधिना निहन्तुममरोत्तमाः ॥
देवा ऊचुः ।
मैवं कृथा यवक्रीत यथा वदसि वै मुने ।
ऋते गुरुमधीता हि स्वयं वेदास्त्वया पुरा ॥
अनन तु गुरूनदुःखात्तोषयित्वाऽऽत्मक्रमणा ।
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ॥
लोमश उवाच ।
यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः ।
संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ॥
`ततो वै स यवक्रीतो ब्रह्मचर्यं चचार ह ।
अष्टादश च वर्षाणि त्रिंशतं च युधिष्ठिर' ॥
आस्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः ।
अत्रोष्य राजशार्दूल सर्वपापैः प्रभोक्ष्यसे ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥
3-140-4 अवलोककः अवलोकनार्थी । गृहान्भार्याम् ॥ 3-140-5
जघानरात्राविति ध. पाठः ॥ 3-140-9 चर त्वं ब्रह्मरक्षणे इति ध. पाठः ॥ 3-140-14 विट्पते हे प्रजाधीश ॥ 3-140-16 प्रभाषितो
मिथ्यावाद्यसीत्यधिक्षिप्तः ॥ 3-140-17 रहस्यवेदं सूर्यमन्त्रप्रकाशकं वेदम् ॥ 3-140-18 मूर्तिमान्सूर्यस्तं द्विजं ददर्शं आत्मानं दर्शयामास ॥ 3-140-19
तं देवाः प्रकर्षेण वरयामासुः । निरासुर्निराचक्रुर्यज्ञादिति शेषः ॥ 3-140-22
प्रतिष्ठां संप्रदायप्रवृत्तिम् । सौरस्य सूर्यप्रकाशकस्य ॥ 3-140-24 समधीतं
साम्यक्प्राप्तम् । ब्रह्म वेदः ॥