अध्यायः 011

मैत्रेयचोदितेन विदुरेण धृतराष्ट्राय भीमकृतकिर्मीरवधप्रकारकथनम् ॥

धृतराष्ट्र उवाच ।
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् ।
रक्षसा भीमसेनस्य कथमासीत्समागमः ॥
विदुर उवाच ।
शृणु भीमस्य कर्मेदमतिमानषकर्मणः ।
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ॥
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः ।
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ॥
रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप ।
प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम् ॥
तद्वनं तापसा नित्यमशेषा वनचारिणः ।
दूरात्परिहरन्ति स्म पुरुषादभयात्किल ॥
तेषां प्रविशतां तत्र मार्गमावृत्य भारत ।
दीप्ताक्षं भीषणं रक्षः मोल्मुकं प्रत्यपद्यत ॥
बाहू महान्तौ कृत्वा च तथास्यं च भयानकम् ।
स्थितमावृत्यपन्थानं येन यान्ति कुरूद्वहाः ॥
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् ।
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ॥
सृजन्तं राक्षसीं मायां महानादनिनादितम् ।
मुञ्चन्तं विपुलान्नादान्सतोयमिव तोयदम् ॥
तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम् ।
विमुक्तनादाः संपेतुः स्थलजा जलजैः सह ॥
संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् ।
तद्वनं तस्य नादेन संप्रस्थितमिवाभवत् ॥
तस्योरुवाताभिहतास्ताम्रपल्लवबाहवः ।
विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान् ॥
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः ।
रजसा संवृतं तेन नष्टर्क्षमभवन्नभः ॥
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः ।
पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः ॥
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् ।
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ॥
तं समासाद्य वित्रस्ता कृष्णा कमललोचना ।
अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने ॥
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा ।
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ॥
विमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः ।
इन्द्रियाणि प्रसक्तानि विषयेषु यथारतिम् ॥
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् ।
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ॥
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ।
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः ॥
काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत ।
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः ॥
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ।
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् ॥
अहं वकस्य वै भ्राता किर्मीर इति विश्रुतः ।
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः ॥
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् । के यूयमभिसंप्राप्ता भक्ष्यभूता ममान्तिकम् ।
युधि निर्जित्यवः सर्वान्भक्षयिष्ये गतज्वरः ॥
विदुर उवाच ।
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः ।
आचचक्षे ततः सर्वं गोत्रनामादि भारत ॥
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः ।
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ॥
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः ।
वनमभ्यागतो घोरमिदं तव परिग्रहम् ॥
`विस्मयं परमं गत्वा राक्षसो घोरदर्शनः ।' किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम ।
उपपादितमद्येह चिरकालान्मनोरथम् ॥
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः ।
चरामि पृथिवीं कृत्स्नां नैनं चासादयाम्यहम् ॥
सोयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् ।
अनेन हि मम भ्राता बको विनिहतः प्रियः ॥
वैत्रकीयवने राजन्ब्राह्मणच्छद्मरूपिणा ।
विद्याबलमुपाश्रित्य न ह्मस्त्यस्यौरसं बलम् ॥
हिडिम्बश्च सखा मह्मं दयितो वनगोचरः ।
हतो दुरात्मनाऽनेन स्वसा चास्य हृता पुरा ॥
सोयमभ्यागतो मूढो ममेदं गहनं वनम् ।
प्रचारसमयेऽस्माकमर्द्धरात्रे स्थिते समे ॥
अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम् ।
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ॥
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च ।
शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम् ॥
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै ।
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ॥
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् ।
संभक्ष्य जरयिष्यामि यथाऽगस्त्यो महासुरम् ॥
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः ।
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ॥
ततो भीमो महाबाहुरारुज्यतरसा द्रुमम् ।
दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा ॥
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् ।
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ॥
निवार्य भीमो जिष्णुं तं तद्रक्षो मेघनिःस्वनम् ।
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठतिष्ठेति भारत ॥
इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः । निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली ।
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ॥
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि ।
पातयामास वेगेन कुलिशं मघवानिव ॥
असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत ।
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ॥
तदुदस्तमलातं तु भीमः प्रहरतां वरः ।
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ॥
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् ।
दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत ॥
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।
वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा ॥
शीर्षयोः पतिता वृक्षा विभिदुर्नैकधा तयोः ।
यथैवोत्पलपत्राणि मत्तयोर्द्विपयोस्तथा ॥
मूर्ध्निजर्झरभूतास्तु बहवस्तत्र पादपाः ।
चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥
तद्वृक्षयुद्धमभवन्महूर्तं भरतर्षभ ।
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ॥
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः ।
प्राहिणोद्रासः क्रुद्धो भीमसेनश्चचाल ह ॥
तं शिलाताडनजडं पर्यधावत राक्षसः ।
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ॥
तावन्योन्यं समाश्लिश्य प्रकर्षन्तौ परस्परम् ।
उभावपि चकाशेते प्रवृद्धौ वृषभाविव ॥
तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः ।
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ॥
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः ।
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ॥
अभिहत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः ।
मातङ्गमिव मातङ्गः प्रभिननकरटामुखम् ॥
स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यबान् ।
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ॥
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा ।
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥
अथैनमाक्षिप्य बलाद्गृद्य मध्ये वृकोदरः ।
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥
स भीमेन परामृष्टो दुर्बलो बलिनां रणे ।
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ॥
तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः ।
योक्रयामास बाहुभ्यां पशुं रशनया यथा ॥
विनदन्तं महानादं भिन्नभिरीस्वनं बली ।
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ॥
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः । प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ।
आक्रम्य च कटीदेशे जानुना राक्षसाधमम् ।
पीडयामास पाणिभ्यां तस्य कण्ठंवृकोदरः ॥
अथ जर्जरसर्वाङ्गं व्यावृत्तनयनोल्बणम् ।
भूतले भ्रामयामास वाक्यं चेदमुवाच ह ॥
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् ।
करिष्यसि गतश्चापि यमस्य सदनं प्रति ॥
इत्येवमुक्त्वा पुरुषप्रवीर- स्तं राक्षसं क्रोधपरीतचेताः ।
विस्रस्तवस्त्राभरणं स्फुरन्त- मुद्धान्तचित्तं व्यसुमुत्ससर्ज ॥
तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः ।
भीमं प्रशस्याथ गुणैरनेकै- र्हृष्टास्ततो द्वैतवनाय जग्मुः ॥
विदुर उवाच ।
एवं विनिहतः सङ्ख्ये किर्मोरो मनुजाधिप ।
भीमेन वचनात्तस् धर्मराजस्य कौरव ॥
ततो निष्कष्टकं कृत्वा वनं तदयराजितः ।
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ॥
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः ।
प्रहृष्टमनसः प्रीत्या प्रसशंसुर्वृकोदरम् ॥
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः ।
विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम् ॥
स मया गच्छता मार्गे विनिकीर्णो भयावहः ।
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ॥
तत्राश्रौषमहं चैतत्कर्म भीमस् भारत ।
ब्राह्मणानां कथयतां ये तत्रासन्समागताः ॥
वैशंपायन उवाच ।
एवं विनिहतं सङ्ख्ये किर्मीरं रक्षसां वरम् ।
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ॥

3-11-4 आभिले भयंकरे । अर्द्धसमयेऽर्द्धज्ञाने गतेसति । लोके तन्द्रावति सतीत्यर्थः ॥ 3-11-9 भयानके इतिविश्वः ॥ 3-11-31 दैत्रकीयवने एकचक्रायाम् ॥ 3-11-32 महां मम ॥ 3-11-35 लब्धास्मि लप्स्यामि ॥ 3-11-37 महासुरं वातापिम् ॥ 3-11-39 आरुज्यभङ्त्वा । दशव्यामं विस्तारितयोः करयोस्तिर्यगन्तरम् । उद्विद्धं उत्पाटितम् ॥ 3-11-40 वज्रेण निष्पेषश्चूर्णीभावो यस्य पर्वतस्य तद्वत् गौरवं गुरुत्वं यस्य तत्तथा । 3-11-42 कक्ष्यामुत्पीड्य परिधानवस्त्रं दृढीकृत्य ॥ 3-11-45 उदस्तं उत्क्षिप्तम् । अलातं उल्मुकम् । रक्षः राक्षसम् ॥ 3-11-49 चीराणि वृक्षद ल्कलानि ॥ 3-11-55 निकारात् परिभवात् । कृष्णाया आनय दृष्टं येन स तथा । द्रौपद्याकर्षणेन कुपित इत्यर्थः ॥ 3-11-56 प्रभिन्नकटामुखं प्रभिन्ने व्यक्तीभूते करटयोर्गण्डयोर्मुखे मदनिर्गममार्गौ यस्य तम् ॥ 3-11-60 व्यस्पनदत किंचिच्चलनं कृतवान् ॥ 3-11-61 योक्रयामास बबन्ध । रशनया पशुमिव ॥ 3-11-63 पशुमारं पशुमिव मारयित्वा ॥