अध्यायः 165

इन्द्रादधिगतास्त्रेणार्जुनेन स्वर्गाद्गन्धमादननिवासिनो युधिष्ठिरादीन्प्रत्यागमनम् ॥ 1 ॥

वैशंपायन उवाच ।
तस्मिन्नगेन्द्रे वसतां तु तेषां महात्मनां सद्व्रतमास्थितानाम् ।
रतिः प्रमोदश्च बभूव तेषा- माकाङ्क्षतां दर्शनमर्जुनस्य ॥
तान्वीर्ययुक्तान्सुविशुद्धसत्वां- स्तेजस्विनः सत्यधृतिप्रधानान् ।
संप्रीयमाणा बहवोऽबिजग्मु- र्गन्धर्वसङ्घाश्च महर्षयश्च ॥
तं पादपैः पुष्पफलैरुपेतं नगोत्तमं प्राप्य महारथानाम् ।
मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम् ॥
मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य ।
शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः ॥
साक्षात्कुबेरेण कृताश्च तस्मि- न्नगोत्तमे संवृतकूटगुल्माः ।
कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन् ॥
क्रीडाप्रदेशांस्च समृद्धरूपा- न्सवेदिकांस्ते न्यवसन्सुवेशान् ।
मणिप्रकीर्णांश्च मनोरमांश्च यथा भवेयुर्नदस्य राज्ञः ॥
अनेकवर्णैश् सुगन्धिभिश्च महाद्रुमैः संततमभ्रजालैः ।
तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥
स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात् ।
विभक्तरूपः सविता बभूव निशामुखं प्राप्य नरर्षभाणाम् ॥
यमास्थितः स्थावरजङ्गमानां विभावसुर्भाविता हरीशः ।
तस्योदयं चास्तमनं च वीर- स्तत्रस्थितास्ते ददृशुर्नृसिंहाः ॥
रवेस्तमिस्रागमनिर्गमांस्ते तथोदयं चास्तमनं च वीराः ।
समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च ॥
स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च ।
सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः ॥
इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनंजयेन ।
इति ब्रुवन्तः परमाशिपस्ते पार्थास्तपोयोगपरा बभूवुः ॥
दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम् ।
बभूव राविर्दिवसश्च तेषां संवत्सरेणैव समानरूपः ॥
यदैव धौम्यानुमते महात्मा कृत्वा जटां प्रव्रजितः स जिष्णुः ।
तदैव तेषां नबभूव हर्षः कुतो रतिस्तद्गतमानसानाम् ॥
भ्रातुर्नियोगात्तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी ।
यत्काम्यकात्प्रव्रजितः स जिष्णु- स्तदैव ते शोकहता बभूवुः ॥
तथैव तं चिन्तयतां सिताश्व- मस्त्रार्थिनं वासवमभ्युपेतम् ।
कालः स कृच्छ्रेण महानतीत- स्तस्मिन्नगे भारत भारतानाम् ॥
[उषित्वा पञ्चवर्षाणि सहस्राक्षनिवेशने ।
अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात् ॥
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ।
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ॥
यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य चं ।
तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम् ॥
अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम् । आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धपादनम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥

3-165-4 महती चला लक्ष्मीः शोभा यस् महाचलस्य । चला लम्यां पुमान् कम्पे इति मेदिनी । सानून्येव तीक्ष्णाग्राणि पुंसंयोग्यानि शृङ्गाणीत्युच्यन्ते ॥ 3-165-9 यं सूर्यम् । विभावसुवैह्निरास्थितः । यस्य सूर्यस्याश्रयेणैव रात्रौ वह्निर्जगद्दीपयति तस्योदयमित्यन्वयः ॥