अध्यायः 168

अर्जुनेन स्वस्य किरातरूपिणा सह युद्धप्रकारस्य पाशुपताश्रलाभप्रकारस्य च कथनम् ॥ 1 ॥

वैशपायन उवाच ।
यथागतं गते शक्रे भ्रातृभिः सह संगतः ।
कृष्णया चैव बीभत्सुर्धर्मराजमपूजयत् ॥
अभिवादयमानं तं मूर्ध्न्युपाघ्राय पाण्डवम् ।
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ॥
कथमर्जुन कालोऽयं स्वर्गे रव्यतिगतस्तव ।
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ॥
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव ।
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ॥
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृत् ।
यथैवास्त्राण्यवाप्तानि यथैवाराधिताश्च ते ॥
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम ।
कृतप्रियस्त्वयाऽस्मीति तस्य ते किं प्रियं कृतम् ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।
यथा तुष्टो महादेवो देवराजस्तथाऽनघ ॥
यच्चापि वज्रपाणेस्तु प्रियं कृतमरिंदम ।
एतदाख्याहि मे सर्वमखिलेन धनंजय ॥
अर्जुन उवाच ।
शृणु हन्त महाराज विधिना येन दृष्टवान् ।
शतक्रतुमहं देवं भगवन्तं च शंकरम् ॥
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन ।
भवता च समादिष्टस्तपसे प्रस्थितो वनम् ॥
भृगुतुन्दमथो गत्वा काम्यकादास्थितस्तपः ।
एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि ॥
स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे ।
तस्मा अवितथं सर्वमब्रवं कुरुनन्दन ॥
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम ।
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ॥
ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत ।
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिषम् ॥
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् ।
तपोऽतप्यं महाराज मासं मूलफलाशनः ॥
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः ।
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ॥
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा ।
न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ॥
पञ्चमे त्वथ संप्राप्ते प्रथमे दिवसे गते ।
वराहसंस्थितं भूतं मत्समीपं समागमत् ॥
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि ।
संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ॥
अनु तस्यापरं भूतं महत्कैरातसंस्थितम् ।
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ॥
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी ।
अताडयं शरेणाथ तद्भूतं रोमहर्षणम् ॥
युपत्तं किरातस्तु विकृष्य बलवद्धनुः ।
अभ्याजघ्ने दृढतरं कम्पयन्निव मेदिनीम् ॥
सतु मामब्रवीद्राजन्मम पूर्वपरिग्रहः ।
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ॥
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव ।
संघर्षवान्महाकायस्ततो मामभ्यधावत ॥
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः ।
तं चाहं शरवर्षेण महता समवाकिरम् ॥
ततः शरैर्दीप्तमुखैर्यन्त्रितैरनु यन्त्रितैः ।
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ॥
तस्य तच्छतधा रूपमभवच्च सहस्रधा ।
तानि चास्य शरीराणि शरैरहमताडयम् ॥
पुनस्तानि शरीराणि एकीभूतानि भारत ।
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ॥
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः ।
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ॥
यदाऽभिभवितुं बाणैर्न च शक्नोमि तं रणे ।
ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ ॥
न चैनमशकं हन्तुं तदद्भुतमिवाभवत् ।
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ॥
तत्रापि च महाराज सविशेषमहं ततः ।
अस्त्रपूगेन महता रणे भूतमवाकिरम् ॥
स्थूणाकर्णमथो जालं शरवर्षं शरोल्वणम् ।
शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम् ॥
जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप ।
तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम् ॥
ततः प्रज्वलितैर्बाणैः सर्वतश्चोपचीयत ।
उपचीयमानश्च तदा महास्त्रेण व्यवर्धत ॥
ततः संतापिता लोका मत्प्रसूतेन तेजसा ।
क्षणएन हि दिशः स्वं च सर्वतो हि विदीपितं ॥
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशामयत् ।
ब्र्हमास्त्रे तु हते राजन्भयं मां महदाविशत् ॥
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी ।
सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ॥
एतेष्वस्त्रेषु भूतेन भक्षितेष्वायुधेषु च ।
मम तस् च भूतस्य बाहुयुद्धमवर्तत ॥
व्यायामं मुष्टिभिः कृत्वा तलैरभिसमाहतौ ।
अपायच्च तद्भूतमहं चापातयं महीम् ॥
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत ।
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ॥
मुख्यं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः ।
दिव्यमेव महाराज वरानोऽद्भुतमम्बरम् ॥
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः ।
स्वरूपं दिव्यमास्थाय तस्यौ महेश्वरः ॥
सोऽदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः ।
धनुर्गृह्यतदा पाणौ बहुरूपः पिनाकधृत् ॥
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् ।
शूलपाणिरथोवाच तुष्टोस्मीति परंतप ॥
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ ।
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ॥
तुष्टोस्मि तव कौन्तेय ब्रूहि किं करवाणि ते । मनोगतं वीर यत्ते तद्ब्रूहि वितराम्यहम् ।
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ॥
ततः प्राञ्डलिरेवाहमस्त्रेषु कृतमानसः ।
प्रणम्य शिरसा शर्वं ततो वचनमाददे ॥
भगवानमे प्रसन्नश्चेदीप्सितोऽयं वरो मम ।
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ॥
ददानीत्येव भगवानब्रवीत्र्यम्बकश्च माम् ।
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव ॥
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः ।
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् ॥
न प्रयोज्यंभवेदेतन्मानुषेषु कथंचन ।
[जगद्विनिर्दहेदेवमल्पतेजसि पातितम् ॥
पीड्यमानन बलवत्प्रयोज्यंस्याद्धनंजय ।
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ॥
ततोऽप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् ।
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ॥
उत्सादनममित्राणां परसेनानिकर्तनम् ।
दुरासदं दुष्प्रसहं सुरदानवराक्षसैः ॥
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् । प्रेक्षतश्चैवमे देवस्तत्रैवान्तरधीयत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥

3-168-2 प्रहृष्टो धर्मपुत्रः ॥ 3-168-9 हन्तेत्यव्ययं वाक्यारम्भे हर्षे वा ॥ 3-168-15 शैशिरं हिममयम् ॥ 3-168-17 प्राणो बलम् ॥ 3-168-18 चतुर्थे मास्यतिक्रान्ते इति ध. पाठः । वराहवत् संस्थितं आकारो यस्य ॥ 3-168-19 प्रोथेन मुखाग्रेण पोत्राख्येन । विवर्तन् विषमेण भावेन वर्तमानः इतस्ततः पर्यटन्वा ॥ 3-168-26 अनुपश्चात् यन्त्रितैः दृढाकृष्टैः ॥ 3-168-33 स्थूणाकर्ण इति शङ्कुकर्णाख्यो रुद्रावतारभेदस्तद्दैवत्यमस्रम् । जालं जलमयं वारुणम् । शैलास्त्रमश्मवर्षं च इति ध. पाठः ॥ 3-168-40 व्यायामं संघटनम् ॥ 3-168-44 गोवृषो बलीवर्दश्रेष्ठः ॥