अध्यायः 169

अर्जुनेन स्वस्येन्द्रलोकगमनप्रकारस्य तत्रनिवासप्रकारकथनपूर्वकमिन्द्रादस्त्रप्राप्तिप्रकारस्यच कथनम् ॥ 1 ॥

अर्जुन उवाच ।
ततस्तामवसं प्रीतो रजनीं तत्र भारत ।
प्रसादाद्देवदेवस्यत्र्यम्बकस्य महात्मनः ॥
व्युषितो रजनीं चाहंकृत्वापौर्वाह्णिकीः क्रियाः ।
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥
तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् ।
भगवन्तं महादेवं समेतोस्मीति भारत ॥
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः ।
दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥
समेतं लोकपालैस्तु सर्वैर्वैवस्वतादिभिः ।
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥
एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः ।
अगच्छत्स यथाकामं ब्राह्मणः सूर्यसन्निभः ॥
अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः ।
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च ।
शैशिरस्य गिरे पादे प्रादुरासन्समीपतः ॥
वादित्राणिच दिव्यानि सुघोषाणि समन्ततः ।
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥
गणाश्चाप्सरसां तत्रगन्धर्वाणां तथैव च ।
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ॥
मरुतां च गणास्तत्र देवयानैरुपागमन् ।
महेन्द्रानुचरा ये च देवसद्मनिवासिनः ॥
ततो मरुत्वानहरिभिर्युक्तैर्वाहैः स्वलंकृतैः ।
शचीसहायस्तत्रायात्सह सर्वैस्तदाऽमरैः ॥
एतस्मिन्नैव काले तु कुबेरो नरवाहनः ।
दर्शयामास मां राजँल्लक्ष्म्या परमया युतः ॥
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यस्थितम् ।
वरुणं देवराजं च यथास्थानमवस्थितम् ॥
ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः ।
सव्यसाचिन्निरीक्षास्माँल्लोकपालानवस्थितान् ॥
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम् ।
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् ।
प्रत्यगृह्णां तदाऽस्त्राणि महान्ति विविधानि च ॥
गृहीतास्त्रस्ततो देवैरनुज्ञातोस्मि भारत ।
अथ देवा ययुः सर्वेयथागतमरिंदम ॥
मघवानपि मां देवो रथमारोप्य सुप्रभम् ।
उवाच भगवान्वाक्यं स्मयन्निव महायशाः ॥
पुरैवागमनादस्माद्वेदाहं त्वां धनंजय ।
अतः परं त्वहं वै त्वां दर्शये भरत्रषभ ॥
त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् ।
तपश्चेदं महत्त्प्तं स्वर्गं गन्तासि पाण्डव ॥
भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम् ।
`दुश्चरं घोरमस्त्राणां तपोबलकरं तव' ॥
स्वर्गस्त्ववश्यं गन्तव्यस्त्वया शत्रुनिषूदन ।
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति ॥
विदितस्त्वंहि देवानां मुनीनां च महात्मनाम् ।
`इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन्सुदुष्करम्' ॥
ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम ।
आचार्यं वरयेऽहं त्वामस्त्रार्थं त्रिदशेश्वर ॥
इन्द्र उवाच ।
क्रूरकर्माऽस्त्रवित्तात भविष्यसि परंतप ।
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् ।
मानुषेषु प्रयोक्ष्यामि विनाऽस्त्रप्रतिघातनात् ॥
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप ।
लेकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव ॥
इन्द्र उवाच ।
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय ।
ममात्मजस्य वचनं सूपपन्नमिदं तव ॥
शिक्ष मे भवनं गत्वासर्वाण्यस्त्राणि भारत ।
वायोरग्नेर्वसुभ्योऽपि वरुणात्समरुद्गणात् ॥
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् ।
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च ॥
मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह ।
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत ॥
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ।
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥
लोकपालेषु यातेषु मामुवाचाथ मातलिः ।
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् ।
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ॥
देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत ।
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् ॥
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् ।
चोदयामास स हयान्मनोमारुतरंहसः ॥
[मातलिर्हयतत्त्वज्ञो यथावद्भूरिदक्षिणः । अवैक्षत च मे वक्रृंस्तितस्याथ ससारथिः ।
तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् ॥
अत्यद्भुतमिदं त्वद्यविचित्रं प्रतिभाति मे । यदास्थितो रथं दिव्यं पदान्न चलितः पदम् ॥]
देवराजोऽपिहि मया नित्यमत्रोपलक्षितः ।
विचलन्प्रथमोत्पाते हयानां भरतर्षभ ॥
त्वं पुनः स्थित एवात्ररथे भ्रान्ते कुरूद्वह ।
अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे ॥
इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान् ।
दर्शयामास मे राजन्विमानानि च भारत ॥
[स रथो हरिभिर्युक्तो ह्यूर्ध्वमाचक्रमे ततः ।
ऋषयो देवताश्चैव पूजयन्ति नरोत्तम ॥
ततः कामगमाँल्लोकानपश्यं वै सुरर्षिणाम् । गन्धर्वाप्सरसां चैव प्रभावममितौजसाम् ॥]
नन्दनादीनि देवानां वनान्युपवनानि च ।
दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः ॥
ततः शक्रस्य भवनमपश्यभमरावतीम् ।
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम् ॥
न तां भासयते सूर्यो न शीतोष्णे न च क्लमः ।
न बाधते तत्ररजस्तत्रास्ति न जरा नृप ॥
न तत्रशोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते । दिवौकसां महाराज न ग्लानिररिमर्दन ।
न क्रोधलोभौ तत्रास्तामशुबं वा विशांपते ॥
नित्यं तुष्टाश् ते राजन्प्राणिनः सुरवेश्मनि ।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ।
शीतस्तत्रववौ वायुः सुगन्धो वीजते शुभः ॥
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता । मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः ।
विमानगामिनश्चात्रदृश्यन्ते बहवोऽमराः ॥
ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् ।
आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् ॥
ते मां वीर्येण यशसा तेजसा च बलेन च ।
अस्त्रैश्चाप्यन्वजानन्त संग्रामे विजयेन च ॥
प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम् ।
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ॥
ददावर्धासनं प्रीतः शक्रो मे ददतांवरः ।
बहुमानाच्च गात्राणि पस्पर्श मम वासवः ॥
तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिणैः ।
अस्त्रार्तमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत ॥
विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत्सखा ।
स च गान्धर्वमखिलं ग्राहयामास मां नृप ॥
तत्राहमवसं राजन्गृहीतास्त्रः सुपूजितः ।
सुखं शक्रस् भवने सर्वकामसमन्वितः ॥
शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् ।
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ ॥
तत्सर्वमनवज्ञाय तथ्यं विज्ञाय भारत ।
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ॥
ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः । एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ॥

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः ॥ 169 ॥

3-169-11 देवयानैर्विमानैः । देवसद्मनिवासिनः स्त्रीबालादयः शचीजयन्तादय इत्यर्थः ॥ 3-169-14 यथास्थानं प्राच्यामिन्द्रं प्रतीच्यां वरुणमित्यादि ॥ 3-169-27 अस्त्रस्यैव प्रतिघातार्थमस्त्रं मोक्ष्ये नत्वन्यत्र मानुषे ॥ 3-169-33 मायामयमिवात्यद्भुतम् ॥ 3-169-39 पदात् रस्थानात् न चलितः । रथस्य भ्रमणेपि दृढासन इत्यर्थः ॥ 3-169-44 सुरर्षिणमिति दैर्ध्याभाव आर्षः ॥ 3-169-53 अन्वजानन्त वीर्यादिमान्भवेत्याशीर्वादान्ददुरित्यर्थः ॥ 3-169-60 अनवज्ञाय आदृत्य । तथ्यं यथावत् । अत्यथै पुरुषार्थ इति विज्ञाय ॥ 3-169-61 तेन कामेन अस्त्रेच्छया नतु भोगेच्छया ॥