अध्यायः 172

अर्जुनस्य निवातकवचैः सह युद्धम् ॥ 1 ॥

अर्जुन उवाच ।
ततो निवातकवचाः सर्वेवेगेन भारत ।
अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ॥
आच्छाद्य रथपन्थानमुत्क्रोशन्तो महारथाः ।
अवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ॥
ततोऽपरे महावीर्याः शूलपट्टसपाणयः ।
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ॥
सुमहत्तुमुलं वर्षं गदाशक्तिसमाकुलम् ।
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ॥
अन्ये मामभ्यधावन्त निवातकवचा सुधि ।
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ॥
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः ।
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ॥
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः ।
ततो मातलिना तूर्णं हयास्ते संप्रयोदिताः ॥
अथ मार्गान्बहूस्तत्र विचेरुर्वातरंहसः ।
सुसंयता मातलिना प्रामथ्नन्त दितेःसुतान् ॥
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे ।
तदा मातलिना यथ्ता व्यचरन्नल्पका इव ॥
तेषां चरणपातेन रथनेमिस्वनेन च ।
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ॥
गतासवस्तथैवान्ये दानवाः पाण्डवर्षभ ।
हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः ॥
ते दिशो विदिशः सर्वे प्रतिरुध्य प्रहारिणः ।
अभ्यघ्नन्विविधैः शस्त्रैस्ततो मे व्यथितं मनः ॥
ततोऽहं मातलेर्वीर्यमद्भुतं समदर्शयम् ।
अश्वांस्तथा वेगवतो यदयत्नादधारयत् ॥
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे ।
चिच्छेद सायुधान्राजञ्छतशोऽथ सहस्रशः ॥
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् ।
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ॥
वध्यमानास्ततस्तैस्तु हयैस्तेन रथेन च ।
अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथाऽपरे ॥
स्पर्धमाना इवास्माभिर्निवातकवचा रणे ।
शरवर्षैः शरार्तं मां महद्भिः प्रत्यवारयन् ॥
शरवेगैर्निहत्याहमस्त्रैः शरविघातिभिः ।
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥
ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः ।
अपीडयन्मां सहिताः शक्तिशूलासिवृष्टिभिः ॥
ततोऽहमस्त्रं प्रायुञ्जं गान्धर्वं नाम भारत ।
दयितं देवराजस् माधवं नाम भारत ॥
ततः खङ्गांस्त्रिशूलांश्च तोमरांशच् सहस्रशः ।
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिदम् ॥
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः ।
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ॥
गाण्डीवाद्धि तदा सङ्ख्ये यथा भ्रमरपङ्क्तयः ।
निष्पतन्ति महाबाणास्तन्मातलिरपूजयत् ॥
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव ।
अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ॥
वध्यमानास्ततस्ते तु निवातकवचाः पुनः ।
शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ॥
शरवेगान्निहत्याहमस्त्रैरस्त्रविघातिभिः ।
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥
तेषां छिन्नानि गात्राणि विसृजन्तिस्म शोणितम् ।
प्रावृषीवाभिवृष्टानि शृङ्गाण्यथ धराभृताम् ॥
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः ।
मद्वाणैर्वध्यमानास्ते समुद्विग्राः स्म दानवाः ॥
शतधा भिन्नदेहास्ते क्षीणप्रहरणौजसः । ततो निवातकवचा मामयुध्यन्त मायया ॥

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥

3-172-9 शताः शतानि अयुतमित्यर्थः । हरयोऽश्वाः ॥ 3-172-14 चिच्छेद अहमिति शेषः ॥ 3-172-20 माधवं नाम मधोर्दैत्यस् वधार्धं निर्मितत्वात् । देवराजस्य ब्रह्मदण्डसमंरणे इति ध. पाठः ॥