अध्यायः 174

अर्जुनेन निवातकवचवधानन्तरं पुनः स्वगैप्रति प्रस्तानम् ॥ 1 ॥

अर्जुन उवाच ।
अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया ।
अदृश्यनास्त्रवीर्येण तानप्यहमयोधयम् ॥
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः ।
अच्छिन्दन्नुत्तमाङ्गानि यत्रयत्र स्म तेऽभवन् ॥
ततो निवातकवचा वध्यमाना मया युधि ।
संहृत्य रमायां सहसा प्राविशन्पुरमात्मनः ॥
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने ।
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ॥
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च ।
शतशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ॥
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् ।
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ॥
ततो निवातकवचा व्योम संछाद्य केवलम् ।
अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ॥
अन्तर्भूमिगताश्चान्ये हयानां चरणानथ ।
व्यगृह्णन्दानवा घोरा रथचक्रे च भारत ॥
विनिगृह्य हयांश्चान्ये रथं च मम युध्यतः ।
सर्वतो मामविध्यन्त सरथं धरणीधरैः ॥
पर्वतैरुपचीयद्भिः पतद्भिश्च तथाऽपरैः ।
स देशो यत्रवर्तामि गुहेव समपद्यत ॥
पर्वतैश्चाद्यमानोऽहं निगृहीतैश्च वाजिभिः ।
अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ॥
लक्षयित्वा च मां भीतमिदं वचनमब्रवीत् ।
आर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ॥
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् ।
देवराजस् दयितं वज्रमस्त्रं नराधिप ॥
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च ।
अमुञ्चं वज्रसंस्पर्शानायतान्निशिताञ्सरान् ॥
ततो मायाश् ताः सर्वा निवातकवचांश्च तान् ।
ते वज्रचोदिता बाणा वज्रभूताः रसमाविशन् ॥
ते वज्रवेगविहता दानवाः पर्वतोपमाः ।
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ॥
अन्तर्भूमौ च येऽगृह्णन्दानवा रथवाजिनः ।
अनुप्रविश्य तान्वाणाः प्राहिण्वन्यमसादनम् ॥
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः ।
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ॥
न हयानां क्षतिः काचिन्न रथस् न मातलेः ।
मम चादृश्यत तदा तदद्भुतमिवाभवत् ॥
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत ।
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ॥
हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः ।
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ॥
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् ।
त्रासयन्रथघोषेण निवातकवचस्त्रियः ॥
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् ।
रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः ॥
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः ।
शिलानामिव शैलेषु पतन्तीनामभूत्तदा ॥
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् ।
बहुरत्नविचित्राणि शातकुम्भमयानि च ॥
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् ।
विशिष्टं देवनगरादपृच्छं मातलिं ततः ॥
इदमेवंविधं कस्माद्देवता न विशन्त्युत ।
पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ॥
मातलिरुवाच ।
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् ।
ततो निवातकवचैरितः प्रच्याविताः सुराः ॥
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् ।
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ॥
ततः शक्रेण भगवान्स्वयंभूरभिचोदितः ।
विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ॥
तत उक्तो भगवता दिष्टमत्रेति भारत ।
भवितान्तस्त्वमप्येषां देहेनान्येन वृत्रहन् ॥
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव ।
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ॥
कालस्य परिणामेन ततस्त्वमिह भारत ।
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ॥
दानवानां विनाशार्थं महास्त्राणां महद्बलम् ।
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ॥
उर्जुन उवाच ।
ततः प्रशाम्य नगरं दानवांश्च निहत्य तान् । पुनर्मातलिना सार्धमगमं देवसद्म तत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥

3-174-21 लक्ष्मणाः सारस्यः ॥ 3-174-35 प्रशाम्य प्रकर्षेण आलोच्य ॥