अध्यायः 176

अर्जुनेन युधिष्ठिरंप्रति इन्द्रेण स्वस्मै सानुग्रहं कवचकिरीटादिदानकथनम् ॥ 1 ॥ तथा युधिष्ठिरेण दिव्यास्त्रप्रदर्शनचोदनायां श्वःप्रदर्शनप्रतिज्ञानम् ॥ 2 ॥

अर्जुन उवाच ।
ततो मामिविश्वस्तं संरूढशरविक्षतम् ।
देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ॥
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत ।
न त्वाऽभिभवितुं शक्तो मानुषो भुवि कश्चन ॥
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः ।
संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ॥
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः ।
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ॥
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् ।
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ॥
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च ।
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ॥
एवं संपूजितस्तत्रसुखमस्म्युषितो नृप ।
इन्द्रस् भवने पुण्ये गन्धर्वशिशुभिः सह ॥
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह ।
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ॥
एवमिन्द्रस्य भवने पञ्चवर्षाणि भारत ।
उषितानि मया राजन्स्मरता द्यूतजं कलिम् ॥
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् ।
गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ॥
युधिष्ठिर उवाच ।
दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत ।
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ॥
दिष्ट्या च भगवन्स्थाणुर्देव्या सह परंतपः ।
साक्षाद्दृष्टः स्वयुद्धेन तोषितश् त्वयाऽनघ ॥
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ ।
दिष्ट्या वर्धामहे पार्थ दिष्ट्याऽसि पुनरागतः ॥
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् । `पश्यामि भूमिं कौन्तेय त्वया मे प्रतिपादिताम्' ।
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ॥
इच्छामि तानि चास्त्राणि द्रष्टुं दिव्यानि भारत ।
यैस्तथा वीर्यवन्तस्ते निवातकवचा हताः ॥
अर्जुन उवाच ।
सः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः ।
निवातकवचा घोरा यैर्मया विनिपातिताः ॥
वैशंपायन उवाच ।
एवमागमनं तत्र कथयित्वा धनंजयः । भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ॥

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥

3-176-1 अतिविश्वस्तं अति अत्यन्तं विश्वस्तं शत्रून् जेष्यतीति विश्वासो यस्मिंस्तम् । संरूढा देहे निमग्नाः शरास्तैर्विक्षतम् ॥ 3-176-2 त्वा त्वाम् ॥