अध्यायः 178

अर्जुनसमागमानन्तरं युधिष्ठिरेण गन्धमादनादवतरणाध्यवसायः ॥ 1 ॥ लोमशेन पाण्डवान्प्रति जयाशीर्वचनपूर्वकं स्वर्गंप्रति गमनम् ॥ 2 ॥

जनमेजय उवाच ।
तस्मिन्कृतास्त्रे रथिनां प्रवीरे । प्रत्यागते भवनाद्वृत्रहन्तुः ।
अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेण धनंजयेन ॥
वैशंपायन उवाच ।
वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः ।
तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्रुः ॥
वेश्मानि तान्यप्रतिमानि पश्यन् क्रीडाश्च नानाद्रुमसन्निबद्धाः ।
चचार धन्वी बहुधा नरेन्द्रः सोऽस्त्रेषु यत्तः सततं किरीटी ॥
अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः ।
न प्राणिनां ते स्पृहयन्ति राज- ञ्शिवश् कालः स बभूव तेषाम् ॥
समेत्य पार्थेन यथैकरात्र- मूषुः समास्तत्रतथा चतस्रः ।
पूर्वाश्च षट् ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु ॥
ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य ।
यमौ च वीरौ सुरराजकल्पा- वेकान्तमास्थाय हितं प्रियं च ॥
तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्त्वदनुप्रियं च ।
ततो न गच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम् ॥
एकादशं वर्षमिदं वसामः सुयोधनेनात्तसुखाः सुखार्हाः ।
तं वञ्चयित्वाऽधमबुद्धिशील- मज्ञातवासं सुखमाप्नुयाम ॥
तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरामो वनानि ।
समीपवासेन विलोभितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान् ॥
संवत्सरं तत्र विहृत्य गूढं नराधमं तं सुखमुद्धरेम ।
निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय ॥
सुयोधनायानुचरैर्वृताय ततो महीं प्राप्नुहि धर्मराज ।
स्वर्गोपमं देशमिमं चरद्भिः शक्यो विहन्तुं नरदेव शोकः ॥
कीर्तिस्तु ते भारत पुण्यगन्धा नश्येद्धि लोकेषु चराचरेषु ।
तत्प्राप्य राज्यंकुरुपुङ्गवानां शक्यं महत्प्राप्तुमथ क्रियाश्च ॥
इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात् ।
कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहे च ॥
तेजस्तवोग्रं न सहेत राजन् समेत्य साक्षादपि वज्रपाणिः ।
न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज ॥
तवार्थसिद्ध्यर्थमपि प्रवृत्तौ सुपर्णकेतुश्च शिनेश्च नप्ता ।
यथैव कृष्णोऽप्रतिमो बलेन तथैव राजन्स शिनिप्रवीरः ॥
तवार्थसिद्ध्यर्थमभिप्रपन्नो यथैव कृष्णः सह यादवैस्तैः ।
तथैव चेमौ नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे ॥
त्वदर्थयोगप्रभवप्रधानाः शमं करिष्याम परान्समेत्य ॥
वैशंपायन उवाच
ततस्तदाज्ञाय मतं महात्मा तेषां च धर्मस्य सुतो वरिष्ठः ।
प्रदक्षिणं स्थानमुपेत्य राजा पर्याक्रमद्वैश्रवणस्य राज्ञः ॥
आमन्त्र्य वेश्मानि नदीः सरांसि सर्वाणि रक्षांसि च धर्मराजः ।
यथागतं मार्गमवेक्षमाणः पुनर्गिरिं चैव निरीक्षमाणः । [ततो महात्मा स विशुद्धबुद्धिः संप्रार्थयामास नगेन्द्रवर्यम् ॥]
समाप्तकर्मा सहितः सुहृद्भि- र्जित्वा सपत्नान्प्रतिलभ्य राज्यम् ।
शैलेन्द्र भूयस्तपसे जितात्मा द्रष्टा तवास्मीति मतिं चकार ॥
वृतश्च सर्वैरनुजैर्द्विजैश्च तेनैव मार्गेण पुनर्निवृत्तः ।
उवाह चैनान्गणशस्तथैव घटोत्कचः पर्वतनिर्झरेषु ॥
तान्प्रस्थितान्प्रीतमना महर्षिः पितेव पुत्राननुशिष्य सर्वान् ।
स लोमशो दिवमेवोर्जितश्री- र्जगाम तेषां विजयं तदोक्त्वा ॥
तेनार्ष्टिषेणेन तथानुशिष्टा- स्तीर्तानि रम्याणि तपोवनानि ।
महान्ति चान्यानि सरांसि पार्थाः कसंपश्यमानाः प्रययुर्नराग्र्याः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥

3-178-1 वृत्रहन्तुरिन्द्रस्य ॥ 3-178-2 आक्रीडं उद्यानम् ॥ 3-178-4 वासं स्थानम् । प्राणिनां भूमिस्तानामैश्वर्यमिति शेषः ॥ 3-178-5 पूर्वाश् षट् समाः ॥ 3-178-9 अपकृष्टदेशान् दूरस्थान् न ज्ञास्यन्ति अपितु समीपस्थानेव ॥ 3-178-10 निर्यात्य प्रत्यर्प्य । अपकारिणेऽपकारं कृत्वेत्यर्थः । फलं राज्यप्राप्तिः । पुष्पं शत्रुवधः ॥ 3-178-13 निग्रहे च बन्धने वा । भ्रातृत्वाद्वधेऽप्रवृत्तिश्चेदिति भावः ॥ 3-178-14 समेत्य युद्धं प्राप्य ॥ 3-178-15 सुपर्णकेतुः कृष्णः । शिनेर्नप्ता सात्यकिः । एतयोर्वीर्यं हितकारित्वं चाह । तथैवेति । तथैव कृष्णोऽप्रतिमो बलेन तथैव चाहं नरदेव वर्य । इति झ. पाठः । तत्र कृष्णोऽर्जुनः । अहं भीमसेन इत्यर्थः ॥ 3-178-16 प्रयोगेऽस्त्रप्रयोगे कृतिनौ कुशलौ ॥ 3-178-17 त्वदर्थयोगप्रभवप्रधानाः तव अर्थयोगो धनलाभः प्रभव ऐश्वर्योत्कर्षस्तद्द्वयं प्रधानं तेषां ते तथा ॥ 3-178-20 इति प्रार्थयामासेति पूर्वेण संबन्धः । मतिं चकार । गमने इति शेषः ॥