अध्यायः 179

गन्धमादनादवतीर्णैः पाण्डवैः क्रमेण कैलासवृषपर्वसुबाह्वादिनिवासगमनपूर्वकं पुनर्द्वैतदनमेत्य सरस्वतीतीरे सुखविहरणम् ॥ 1 ॥

वैशंपायन उवाच ।
नगोत्तमं प्रस्रवणैरुपेतं दिशां गजैः किन्नरपक्षिभिश्च ।
सुखं निवासं जहतां हि तेषां न प्रीतिरासीद्भरतर्षभाणाम् ॥
ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान्बभूव ।
कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम् ॥
समुच्छ्रयान्पर्वतसंनिरोधान् गोष्ठान्हरीणां गिरिगह्वराणि ।
बहुप्रकाराणि समीक्ष्यवीराः स्थलानि निम्नानि च तत्र तत्र ॥
तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि ।
आलोकयन्तोऽभिययुः प्रतीता- स्ते धन्विनाः खङ्गधरा नराग्र्याः ॥
वनानि रम्याणि नदीः सरांसि गुहा गिरीणां गिरिगह्वराणि
एते निवासाः सततं बभूवु- र्निशामुखं प्राप्य नरर्षभाणाम् ॥
ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम् ।
आसेदुरत्यर्थमनोरमं ते तमाश्रमाग्र्यं वृषपर्वणस्तु ॥
समेत्य राज्ञा वृषपर्वणा ते प्रत्यर्चितास्तेन च वीतमोहाः ।
शशंसिरे विस्तरशः प्रवासं शिवं यथावद्वृषपर्वणस्ते ॥
सुखोषितास्तस्य त एकरात्रं पुण्याश्रमे देवमहर्षिजुष्टे ।
अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम् ॥
ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगताः समग्राः ।
कुबेरकान्तां नलिनीं विशोकाः संपश्यमानाः सुरसिद्धजुष्टाम् ॥
तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुताः सर्वनरप्रधानाः ।
ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतमला यथैव ॥
ततः क्रमेणोपययुर्नृवीरा यथागतेनैव पथा समग्राः ।
विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः ॥
चीनांस्तुषारान्दरदांश्च सर्वान् देशान्कुलिन्दस्य च भूरिरम्यान् ।
अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः ॥
श्रुत्वा च तान्पार्थिव पुत्रपौत्रा- न्प्राप्तान्सुबाहुर्विषये समग्रान् ।
प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥
समेत्य राज्ञा तु सुबाहुना ते सुतैर्विशोकप्रमुखैश्च सर्वे ।
सहेनद्रसेनैः परिचारकैश्च पौरोगवैर्ये च रमहानसस्थाः ॥
सुखोपितास्तत्रत एकरात्रं सूतान्समादाय रथांश्च सर्वान् ।
घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम् ॥
तस्मिन्गिरौ प्रस्रवणोपपन्न- हिमोत्तरीयारुणपाण्डुसानौ ।
विशाखयूपं समुपेत्य चक्रु- स्तदा निवासं पुरुषप्रवीराः ॥
वराहनानामृगपक्षिजुष्टं महावनं चैत्ररथप्रकाशम् ।
शिवेन यात्वा मृगयाप्रधानाः संवत्सरं तत्रवने विजह्रुः ॥
तत्राससादातिबलं भुजङ्गं क्षुधार्दितं मृत्युमिवोग्ररूपम् ।
वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा ॥
द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः ।
अमोक्षयद्यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम् ॥
ते द्वादशं वर्षमथोपयान्तं वने विहुर्तुं कुरवः प्रतीताः ।
तस्माद्वनाच्चैत्ररथप्रकाशा- च्छ्रिया ज्वलन्तस्तपसा च युक्ताः ॥
ततश्च यात्वा मरुधन्वपार्श्वं सदा धनुर्वेदरतिप्रधानाः ।
सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः ॥
समीक्ष् तान्द्वैतवने निविष्टा- न्निवासिनस्तत्रततोऽभिजग्मुः ।
तपोदमाचारसमाधियुक्ता- स्तृणोदपात्रावरणाश्मकुट्टाः ॥
प्लक्षाक्षरौहीतकवेतसाश्च तथा बदर्यः खदिराः शिरीषाः ।
बिल्वेङ्गुदाः पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः ॥
तां यक्षगन्धर्वमहर्षिकान्ता- मावासभूतामिव देवतानाम् ।
सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजह्रुर्नरदेवपुत्राः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥

3-179-1 नगोत्तमं गन्धमादनं जहतां त्यजताम् ॥ 3-179-2 कुबेरस्य कान्तं प्रियम् ॥ 3-179-3 समुच्छ्रयान् उच्चैस्त्वानि । संनिरोधान् संकीर्णत्वानि । गोष्ठान् स्थानानि । हरीणां सिंहानाम् ॥ 3-179-4 अनेकपाः द्विपाः ॥ 3-179-5 गुहा अल्पप्रमाणादरी । गह्वरं महती दरी ॥ 3-179-9 नलिनीं सरसीम् ॥ 3-179-10 नन्दनमिन्द्रवनम् ॥ 3-179-14 पौरोगवैः पुरोगामिभिः पटगृहादिसामग्रीवाहः ॥ 3-179-15 यामुनं यमुनोद्गमम् ॥ 3-179-16 पुंसि यथा श्वेतमुत्तरीयं श्वेतारुणमुष्णीषं च तद्वत् गिरौ प्रस्रवणानि अरुणपाण्डसानूनि च भान्तीत्युत्प्रेक्षा । विशाखयूपं स्थानविशेषः ॥ 3-179-17 शिवेन पार्थाः इति झ. पाठः ॥ 3-179-19 द्वीपो द्वीपवदाश्रयः । ग्राहेण सर्वेण ॥ 3-179-22 तृणोदपात्रावरणाः आसनार्थं तृणेन पाद्यार्थं उदकपात्रेण च आवृण्वनति ते तथाभूताः । अश्मकुट्टाः वानप्रस्था दन्तोलूखलिका एव सन्तो जरया नष्टदन्ता अश्मकुट्टा भवन्ति ॥ 3-179-23 बभूवुः शोभावन्त इति शेषः ॥