अध्यायः 184

वर्षाशरद्वर्णनम् ॥ 1 ॥ युधिष्ठिरादिभिर्द्वैतवनात्पुनः काम्यकवनप्रवेशः ॥ 2 ॥

वैशंपायन उवाच ।
निदाघान्तकरः कालः सर्वभूतसुखावहः ।
तत्रैव वसतां तेषां प्रावृट् समभिपद्यत ॥
छादयन्तो महाघोषाः स्वं दिशश्च बलाहकाः ।
प्रववर्षुर्दिवारात्रमसिताः सततं तदा ॥
तपात्ययनिकेताश्च शतशोऽथ सहस्रशः ।
अपेतार्कप्रभाजालाः सविद्युन्मण्डप्रभाः ॥
विरूढशष्पा धरणी मत्तदंशसरीसृपा ।
बभूव पयसा सिक्ता शान्तधूमरजोगणा ॥
न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते ।
समं वा विषमं वाऽपि नद्यो वा स्तावराणि वा ॥
क्षुब्धतोया महावेगाः श्वसमाना इवाशुगाः ।
सिन्धवः शोभयांचक्रुः काननानि तपात्यये ॥
नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः ।
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ॥
स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह ।
मत्ताः परिपतन्ति स्म दर्दुरश्चैव दर्पिताः ॥
तदा बहुविधाकारा प्रावृण्मेघानुनादिता ।
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ॥
क्रौञ्चहंससमाकीर्णा शरत्प्रमुदीताऽभवत् ।
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ॥
विमलाकाशनक्षत्रा शरत्तेषां शिवाऽभषत् ।
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ॥
दृश्यन्ते शान्तरजसः क्षपाजलदशीतलाः ।
ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ॥
कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः ।
नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः ॥
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् ।
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ॥
तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी ।
तत्रैव वसतामासीत्कार्तिकी जनमेजय ॥
पुण्यकृद्भिर्महासत्वैस्तापसैः सह पाण्डवाः ।
तत्सर्वं भरतश्रेष्ठ समूहुर्योगमुत्तमम् ॥
तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः । सूतैः पौरोगवैः साकं काम्यकं प्रययुर्वनम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥

3-184-2 असिताः कृष्णवर्णाः ॥ 3-184-3 तपात्यये वर्षासु निकेता इव मण्डपीभूता इत्यर्थः ॥ 3-184-5 समवस्तृते आच्छादिते । स्थावराणि भूतलादीनि ॥ 3-184-6 आशुगाः तीव्रवेगाः । सिंधवः नद्यः ॥ 3-184-8 स्तोककाश्चाकाः । दुर्दराः मण्डूकाः ॥ 3-184-9 मरुधन्वसु गिरेः शुष्कस्थानेषु ॥ 3-184-10 रूढकक्षाणि बहुतृणानि वनानि प्रस्थशब्देदितानि सानूनि च यस्यां सा तथा ॥ 3-184-16 कार्तिकी कृत्तिकायुक्ता पौर्णमासी ॥ 3-184-17 योगं युज्यते रथादाविति व्युत्पत्त्या वाहनादिक समूहुः आरोपितभारं कृतवन्तः ॥