अध्यायः 185

पाण्डवानां पुनः कामय्कागमनं श्रुतवता कृष्णेन सत्यभामया सह तत्रागमनम् ॥ 1 ॥ तथा नारदमार्कण्डेययोरागमनं च ॥ 2 ॥ मार्कण्डेयेन श्रीकृष्णचोदनया पुराणकथाकथनारम्भः ॥ 3 ॥

वैशंपायन उवाच ।
काम्यकं प्राप्य कौरव्य युधिष्ठिरपुरोगमाः ।
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् ।
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा ।
स एष्यति महाबाहुर्वशी शौरिरुदारधीः ॥
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः ।
सदा हि दर्शनाकाङ्क्षी श्रेयोन्वेषी च वो हरिः ॥
बहुवत्सरजीवी च मार्कण्डेयो महातपाः ।
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥
तथैव ब्रुवतस्तस्य प्रत्यदृश्यत केशवः ।
शैब्यसुग्रीवयुक्तेन रथेन रथिनारः ॥
मघवानिव पौलोम्या सहितः सत्यभामया ।
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि ।
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥
पूजयामास धौम्यं च यमाभ्यामभिवादितः ।
परिष्वज्यमहाभागां द्रौपदीं पर्यसान्त्वयत् ॥
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् ।
पर्यष्वजत दाशार्हः पुनः पुनररिंदमः ॥
तथैव सत्यभामाऽपि द्रौपदीं परिषस्वजे ।
पाण्डवानां प्रियं भार्यां कृष्णस्य महिषी प्रिया ॥
ततस्ते पाण्डवाः सर्वेसभार्याः सपुरोहिताः ।
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥
कृष्णस्तु पार्थेन समेत्य विद्वान् धनंजयेनासुरमर्दनेन ।
बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद्भगवान्गुहेन ॥
ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय ।
उक्त्वा यथावत्पुनरन्वपृच्छ- त्तस्मिन्सुभद्रां च तथाऽभिमन्युम् ॥
धौम्यं च कृष्णां च युधिष्ठिरं च यमौ च भीमं च दशार्हसिंहः ।
उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः ॥
स पूजयित्वा मधुहा यथाव- त्पार्थांश्च कृष्णां च पुरोहितं च ।
उवाच राजानमभिप्रशंसन् युधिष्ठिरं तेन सहोपविश्य ॥
धर्मः परः पाण्डव राज्यलाभा- त्तस्यादिमाहुस्तप एव राजन् ।
सत्यार्जवाभ्यां चरता स्वधर्मं जितस्त्वयाऽचं परश्च लोकः ॥
अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम् ।
क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥
न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किंचित्कुरुषे नरेन्द्र ।
न चार्तलोभात्प्रजहासि धर्मं तस्मात्प्रभावादसि धर्मराजः ॥
दानं च सत्यं च तपश्च राजन् क्षमा च शान्तिश्च दमो धृतिश्च ।
अवाप्य राष्ट्राणि वसूनि भोगा- नेषा परा पार्थ सदा रतिस्ते ॥
हृतं च देशं कुरुजाङ्गलानां कृष्णां सभायामशां च पश्यन् ।
अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः ॥
असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक् ।
अद्यैव तन्निग्रहणं कुरूणां यदि प्रतिज्ञा भवतः समाप्ता ॥
प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितः सुहृद्भिः ।
कदिष्ट्या समग्राऽसि धनंजयेन समागतेत्येवमुवाच कृष्णः ॥
कृष्णे धनुर्वेदरतिप्रदाना- स्तवात्मजास्ते शिशवः शुशीलाः ।
सद्भिः सदैवाचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि ॥
राज्ये नियुक्तैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च ।
न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति ॥
आनर्तमेवाभिमुखाः शिवेन गत्वाधनुर्वेदरतिप्रधानाः ।
तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥
यथा त्वमेवार्हसि तेषु वृत्तं प्रयोक्तुमार्या च यथैव कुन्ती ।
तेष्वप्रमादेन तथा करोति तथैव भूयश्च तथा सुभद्रा ॥
यथाऽनिरुद्धस्य यथाऽभिमन्यो- र्यथा सुनीथस्य यथैव भानोः ।
तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः ॥
गदासिचर्मग्रहणेषु शूरा- नस्त्रेषु शिक्षासु रथाश्वयाने ।
सम्यग्विनेता विनयेदतन्द्री- स्तांश्चाभिमन्युं च सदा कुमारान् ॥
स चापि सम्यक्प्रणिधाय शिक्षां शस्त्राणइ चैषां विधिवत्प्रदाय ।
तवात्मजानां च तथाऽभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः ॥
यथा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि ।
एकैकमेषामनुयान्ति यत्र रथाश्च यानानि च दन्तिनश्च ॥
अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुकुरान्धकाश्च ।
एते निदेशं तव पालयन्त- स्तिष्ठन्तु यत्रेच्छसि तत्र राजन् ॥
आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रणा मधूनाम् ।
सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा ॥
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः सुयोधनः पापकृतां वरिष्ठः ।
स सानुबन्धः ससुहद्गणश्च भौमस्य सौबाधिपतेश्च मार्गम् ॥
कामं तथा तिष्ठ नरेन्द्र तस्मि- न्यथा कृतस्ते समयः सभायाम् ।
दाशार्हयोधैस्तु हतारियोधं प्रतीक्षतां नागपुरं प्रभग्नम् ॥
व्यपेतमन्युर्व्यपनीतपाप्मा विहृत् यत्रेच्छसि तत्र कामम् ।
ततः समृद्धिप्रभवं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥
ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन ।
प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच ॥
असंशयं केशव पाण्डवानां भवान्गतिस्त्वच्छरणा हि पार्थाः ।
कालोदये तच्च ततश्च भूयः कर्ता भवान्कर्म न संशयोस्ति ॥
यथाप्रतिज्ञं विहृतश्च कालः सर्वाः समा द्वादश निर्जनेषु ।
अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः ॥
एषैव बुद्धिर्जुषतां सदा त्वां सत्ये स्थिताः केशव पाण्डवेयाः ।
सदानधर्माः सजलाः सदाराः सबान्धवास्त्वच्छरणा हि पार्थाः ॥
वैशंपायन उवाच ।
तथा वदतिवार्ष्णेये धर्मराजे च भारत । अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ।
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ॥
अजरश्चामरंश्चैव रूपौदार्यगुणान्वितः ।
व्यदृश्यत तथा युक्तो यथा स्यात्पञ्चविंशकः ॥
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् ।
उपातिष्ठन्त ते सर्वेपाण्डवाः सहयादवाः ॥
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् ।
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥
शुश्रूपवः पाण्डवास्ते ब्राह्मणाश्च समागताः ।
द्रौपदी सत्यभामा च तथाऽहंपरमं वचः ॥
पुरावृत्ताः कथाः पुण्याः सदाचारान्सनातनान् ।
राज्ञांस्त्रीणामृषीणां च मार्कणअडेय प्रचक्ष्व नः ॥
वैशंपायन उवाच ।
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः ।
आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥
तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः ।
पाद्यार्ध्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः ॥
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् ।
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥
उवाच चैनं कालज्ञं स्मयन्निव सनारदः ।
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः ।
क्षणं कुरुध्वंविपुलमाख्यातव्यं भविष्यति ॥
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः । मध्यंदिने यथादित्यं प्रेक्षन्तस्ते महामुनिम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण़्डेयसमास्यापर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥ 185 ॥

3-185-13 भूतमतिः रुद्रः । गुहेन कार्तिकेयेन ॥ 3-185-19 कोपो न कश्चित्परुषो नरेन्द्रेति ध. पाठः ॥ 3-185-20 एषा दानादिरूपा सदारतिः नित्यंप्रीतिविषयः ॥ 3-185-21 राज्ये निविष्टः कुरुजांगलानां कृष्णां सभायां सभवानपश्यदिति ध. पाठः ॥ 3-185-26 आनर्तं द्वारकादेशम् ॥ 3-185-28 विनेता शिक्षयिता रौविमणेयः प्रद्युम्नः ॥ 3-185-33 मधूनां माथुराणाम् । हलायुधः प्रग्रहणो नियन्ता यस्या सा सेना । यत्ता सन्नद्धा ॥ 3-185-34 भौमस्य नरकासुरस्य सौभाधिपतेः सात्वस्य । सात्वस्य सौभाधिपतेश्च मार्गमिति ख. पाठः ॥ 3-185-42 पञ्चविंशकः वर्षैरिति शेषः ॥ 3-185-47 अवलोककः अवलोकनार्थी ॥